सर्ववेदानां निर्विशेषमात्रपरत्वेन परविद्यात्वायोगः
सर्ववेदानां निर्विशेषपरत्वस्यतत्प्रयुक्तपरविद्यात्वस्य चासंभवसमर्थनम्
सर्ववेदानां निर्विशेषमात्रपरत्वेन परविद्यात्वायोगः ।
यच्चोक्तम् " सर्वेषां वेदानां ... परविद्यात्वम् अन्येषां तु अपरविद्यात्वमेव न परविद्यात्वमिति तत्तु " निर्विशेषवाक्यमात्रस्य परविद्यात्वम् " " सर्वेषां " वेदानां वेदत्वेनापरविद्यात्वम्...... उपनिषदां त्वक्षरपरमात्मस्वरूपपरतया परविद्यात्वमित्यद्वैतसिद्धान्तः " इत्यादिस्ववचनविरोधादयुक्तम् ब्रह्मविष्णुशिवात्मकतत्तदुपाध्यधिष्ठान तुरीयातीतनिर्विशेषमात्रपरत्वेनेत्यप्ययुक्तम्। अद्वैतमते ब्रह्मविष्णुशिवानामीश्वराणां मायोपहितत्वेऽपि उपाधिरूपत्वाभावात् " अज्ञान तदुपहितचैतन्ययोराधारभूतं यदनुपहितचैतन्यं तत्तुरीयमुच्यते " " शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः " इत्यादिश्रुतेः " "तुरयिस्तदेकोऽवशिष्टः शिवः केवलोऽहम् " इत्यादिना तुरीयस्यैव निर्विशेषत्वरूपशुद्धत्वकेवलत्वाद्युक्तेः तुरीयातीतनिर्विशेषस्याद्वैतमते असत्त्वेन वेदानां तत्परत्वकथनस्योपदर्शिताद्वैतग्रन्थविरुद्धत्वात् ।
किं च तुरीयातीतपदेन तुरीयातीतत्वरूपविशेषबोधनात् निर्विशेषत्वकथनमयुक्तम् । एवं निर्विशेषत्वमपि विशेषाभावरूपविशेषवत्वमेव । तथा च भावाभावाभ्यां व्याघात इत्युक्तमेव । निर्विशेषे शब्दसम्बन्धस्य वृत्तिरूपस्य तात्पर्यरूपस्य च वार्तिककारैः अद्वैतसिद्धिकारैः अद्वैतसुधाकारैश्च निषिद्धत्वस्योपदर्शितत्वेन निर्विशेषपरत्वोक्त्ययोगाच्च ।
। इति वेदानां निर्विशेषपरत्वतत्प्रयुक्तपरविद्यात्वनिरास: ।