अहमर्थस्यात्मत्वसमर्थनम्

अहमर्थस्यात्मत्वसमर्थनम्

यच्चोक्तम्तुरीयावस्थायां प्रतिभासायोग्यत्वात् सुपुप्तावप्यहंरूपेणाभानाच्च नाह्यहमर्थस्यात्मर्धत्वम् (त्मत्वं ?) चिदचित्संवलित स्वरूपत्वादहमर्थस्य" इति ।तदयुक्तम् ।

न जाग्रन्न मे स्वप्नको वा सुषुप्ति-

र्न विश्वो न वा तैजसः प्राज्ञको वा ।

अविद्यात्मकत्वात्त्रयाणां तुरीय ।

स्तदेकोऽवशिष्टः शिवः केवलोऽहम्

इति शङ्कराचार्यकृतदशश्लोकी वाक्येन अविद्यासम्बन्धशून्यस्य तुरीयस्यैवआत्मनः अहंशब्देनोल्लेखात् ।

इति अहमर्थस्यानात्मत्वनिरासः ।