यथा ब्रह्मतथैव जगदपिसत्यम्
यथा ब्रह्म सत्यं तथा जगदपि सत्यमिति समर्थनम्
यथा ब्रह्मतथैव जगदपिसत्यम्
सत्त्वाच्चावरस्य ” ( २।१।१६ ) इति सूत्रे तदीय शाङ्करभाष्ये च यथा च कारणं ब्रह्म त्रिषु कालेषु सत्त्वं नव्यभिचरति, एवं कार्यमपिजगत् त्रिषु कालेष सत्त्वं नव्यभिचरति "इत्यादिना ब्रह्मवत् जगतोऽपि त्रैकालिकनिषेधाऽप्रतियोगित्त्वरूपस्य मिथ्यात्वविरुध्दस्य सत्यत्वस्याभिधानात्,तथा नाभाव उपलब्धेः " (२।२।२८) इति ब्रह्मसूत्रे तदीयशाङ्करभाष्ये च “ न खल्वभावो बाह्यार्थस्याध्यवसातुं शक्यते कस्मात् उपलब्धेः उपलभ्यते हि प्रतिप्रत्ययं बाह्योऽर्थः स्तम्भः कुडयं घटः पटः--इति । न चोलपभ्यमानस्यैवाभावोभवितुमर्हति " इत्यादिना । वार्तिके च " नाभावो बहिरर्थानां भवितुमर्हति " द्वौ नयौ प्रकृतमर्थं सातिशयं गमयत " इति न्यायात् विज्ञानव्यतिरेकेणबहिरर्थोऽस्तीति प्रतिजानीते " इत्यादिना बाह्यार्थस्य त्रैकालिकानिषेधप्रतियोगित्वाभावसमर्थनात् मिथ्यात्वनिषेधपूर्वकं सत्यत्वमेव सुसाधितम् । एवं ज्ञानरूप- ब्रह्मव्यतिरेकेण जगतोऽभावः इति पक्षोऽपि " यतः उपलब्धिव्यतिरेकोऽपि बलादर्थस्याभ्युपगन्तव्यः; उपलब्धेरेव । नहि कश्चिदुपलब्धिमेव स्तम्भः कुड्यं चेत्युप लभते, उपलब्धिविषयत्वेनैव तु स्तम्भकुड्यादीन् सर्वे लौकिका उपलभन्ते " इत्यादिना शङ्कराचार्यैरेवनिराकृतः । एतैनैव सद्रूपब्रह्मतादात्म्येनैव जगतः सत्प्रतीतिविषयत्वं " चित्तादाम्यरूपं दृश्यत्वं दुरपह्नवं " इत्यादीनि असुधा वचनान्यपि निराकृता निवेदितव्यानि ।
किञ्च " वैधर्म्याच्च न स्वप्नादिवत् " ( २/२/२९) इति । सूत्रे तद्भाष्ये च " वैधर्म्यं हि भवतिस्वप्नजागरितयोः किं पुनर्वैधर्म्यं बाधाबाधाविति ब्रूमः । बाध्यते हि स्वमोपलब्धं वस्तु प्रतिबुद्धस्य मिथ्यामयोपलब्धो महाजन समागम इति... नैवं जागरितोपलब्धं वस्तुस्तम्भादिकं कस्याञ्चिदप्यवस्थायां बाध्यते " इत्यादिना शंकराचार्यैरेव ब्रह्मवत् जगतः अत्यन्ताबाध्यत्वमुपवर्णितम् “ सत्यं ज्ञानमनन्तं ब्रह्म " इत्यादि श्रुतिवत् " विश्वं सत्यमित्यादिश्रुतिरपि जगतः अनारोपितत्वकथनेनाबाध्यत्वमेव समर्थयति भगवद्गीतायाम्-" असत्यमप्रतिष्ठं ते जगदाहरनीश्वरम् " इति वाक्येन वेदाः वेदोक्ताधर्माः तत्फलभूता लोकाश्च सर्वं मिथ्यैवेतिवदन्ति ” इति शंकरानन्दयिव्याख्यानानुसारेण मिथ्यात्वरूपासत्त्यत्ववादिनामासुरत्वकथनपूर्वकमधमगतिकथनेन विश्वमिथ्यात्ववादस्य निन्दितत्वात् अवश्यं प्रस्थानत्रयानुसारिभिः ब्रह्मवज्जगतोऽपिसत्यत्वमभ्युपगन्तव्यम् ।
एवमेव शङ्कराचार्यानुयायिभिरप्यद्वैत सिद्धिकारैः "नाभाव उपलब्धे" रिति- सूत्रं ब्रह्मणः त्रिकालाबाध्यत्वं समर्थति- इति वर्णितम् । शङ्कराचार्यैस्तु जगतः त्रिकालाबाध्यतां समर्थयतीत्युक्तम् । अतः सर्वैरद्वैतिभिरपि ब्रह्मजगतोः उभयोरपि मिथ्यात्वाभावरूपं सत्यत्वमङ्गीकर्तव्यम् ।
॥ इति ब्रह्मजगतोः सत्यत्वसमर्थनम् मिथ्यात्वनिरासश्च ॥