ज्ञाननिवर्त्यत्वस्य सत्यत्वाविरोधसमर्थनम्

ज्ञाननिवर्त्यत्वस्य जगत्सत्यत्वाविरोधित्वसमर्थनम्

ज्ञाननिवर्त्यत्वस्य सत्यत्वाविरोधसमर्थनम्

" सतो हयुप्तत्तिः प्रलयो वास्यान्नासतः शशविषाणादेः इत्यादि शाङ्करवचनानुसारेण निवर्त्यत्वस्य सत्यत्वाभावव्यापकाभावप्रतियोगित्वस्य अनुपदमेव समर्थितत्वात् तेन च निवर्त्यत्वस्य सत्त्यत्वव्याप्यत्वसिद्धेः सत्त्यत्वव्याप्यस्य सत्यत्वविरोधिताकथनस्यानुचितत्वात्

यच्च ज्ञाननित्यत्वं सत्यत्वविरोधि (२९) इति प्रक्रियालिखनं तत्तुप्रमादातिरेकस्यैव फलमित्यन्यदेतत् । यदि च १२ तम प्रक्रियातः २९ तम प्रक्रियायाः वैलक्षण्यप्रदर्शनेन स्वीयपौनरुक्त्याच्छादनाय ग्रंथविस्तराय च बुद्धिपूर्वकमेव ज्ञाननित्यत्वं सत्यत्त्वविरोधीत्युक्तम् नतत्प्रमादायातमित्युच्यते तदा काममुच्यताम् ।नित्यत्वसत्त्यत्वयोर्विरोधं तु भ्रान्तमुन्मत्तं वा विना न कोऽपि मानयेदित्यवगच्छ ।

। इति ज्ञाननिवर्त्यत्वज्ञाननित्यत्वसत्यत्वानां विरोधनिरासः ।