पराभिध्यानात्तु तिरोहितं ततो हयस्य बन्धविपर्ययौ

बन्धस्येश्वराधीनत्वसमर्थनम्

बन्धस्येश्वरशक्ति निबन्धत्वम् ।

यच्चोच्यते--बन्धस्य बन्धजीवान्यतराश्रितमायोपाधियोगनिबन्धनत्वं नत्वीश्वरशक्तिनिबन्धनत्व " मिति । तत्तुच्छम् । पूर्वमेव सर्वस्येश्वराधीनत्वोक्तेस्तद्विरोधात् ।

पराभिध्यानात्तु तिरोहितं ततो हयस्य बन्धविपर्यया "

विति बन्धस्येश्वराधीनत्वस्य सूत्रकृतैवोक्तत्वात् ।

छान्दोग्योपनिषदि –“ प्राणबन्धनं हि सौम्य मन " इत्यत्र मनःशब्दबोध्यजीवस्य प्राणशब्दबोध्येश्वराधीनबन्धवत्वोक्तेः ।

इति बन्धस्येश्वराधीनत्वसमर्थनम् ।