मिथ्याभूतस्यार्थक्रियाकारित्वानुपपत्तिः

मिथ्याभूतस्य अर्थक्रियाकारित्वानुपपत्तिसमर्थनम्

मिथ्याभूतस्यार्थक्रियाकारित्वानुपपत्तिः

मिथ्याभूतस्य सद्विलक्षणस्य असतः शशविषणादिवदर्थक्रियाकारित्वायोगः । रज्जुसर्पादिज्ञानस्य सत एव भयकम्पादिजनकत्वं न तु रज्जुसर्पस्यासतः इति तत्त्वम् ।

एतेनअसतोऽर्थक्रियाकारित्वाभावात् पञ्चीकरणप्रक्रियया सत्ख्यातिपक्ष इव न्यायसुधोक्तरीत्या मातृ-मातङ्ग - मदिरादिभ्रमेण तदुपयोगे न प्रत्यवायः स्यात् ” ( २३२) इति अ. सुधा परास्ता । भार्यायां मातृभ्रमस्य सत्त्वेन तत्पूर्वकभार्योपयोगस्य च सत्यत्त्वेन प्रत्यवायजनकत्वमस्त्येव । त्वन्मते भार्यायां मातृभ्रमेण क्रियमाणस्य प्रणामादेः पुण्यहेतुत्वं स्यात्, आरोपितमातृप्रणामस्यापि अर्थक्रियाकारित्वस्य त्वयाऽङ्गीकारात् । पितृभ्रमेण क्रियमाणस्य मातङ्गप्रणामस्यापि त्वन्मते पुण्यहेतुत्वं स्यात् । तदुपयोगपदे तत्पदेन मातुर्ग्रहणे आरोपितमातुरसत्त्वेन तदुपयोगस्यैवाप्रसक्तेः प्रत्यवायाभावापादनमयुक्तमेवेति ।

इति मिथ्याभूतस्यासतः अर्थ क्रियाकारित्वनिरासः