ब्रह्मसूत्राणामनुग्राहकतयोत्तमशास्त्रत्वेन परविद्यात्वम्

ब्रह्मसूत्राणामेव तत्त्वतः परविद्यात्वसमर्थनम्

ब्रह्मसूत्राणामनुग्राहकतयोत्तमशास्त्रत्वेन परविद्यात्वम्,

सर्वशास्त्राणां च विष्णुबोधकत्वेन परविद्यात्वम् ।

यच्चोक्तम् " ब्रह्ममीमांसा यद्यपि स्वतन्त्रशास्त्रम् तथापि परविद्यात्वं सर्वेषां वेदानामद्वितीयसंविन्मात्रतात्पर्यवत्वेन; न तु सर्वेषां पदानां मुख्यवृत्या ब्रह्मबोधक-त्वेने " ति तदयुक्तम् । ' निर्विशेषवाक्यमात्रस्य परविद्यात्वम् ' ' कर्मकाण्डानामपि विष्णुपरत्वेन ब्रह्मपरता न विकल्पसहे 'त्यादिस्ववचनविरोधात् ।

" तदित्यस्य महतो भूतस्य नाम भवती " ति ऐतरेयारण्यके " तत् कृत्स्नस्वाध्यायवाक्यम् । एको विष्णुर्महद्भूतमिति प्रसिद्धस्य विष्णोः नाम भवतीति सर्व वैदिकपदानां विष्णुनामत्वप्रतिपादनात्, विद्यारण्यैरपि तथै- वारण्यकवाक्यव्याख्यानावसरे व्याख्यातत्वाच्च ।

एवं विष्णुसहस्रनामभाष्ये शंकराचार्यै: 'कथितः' इति शब्दस्य सर्ववेदप्रतिपाद्य इत्यर्थमभिधाय "सर्वे वेदा यत्पदमामनन्ति' ' वेवैश्च सर्वैरहमेव वेद्य: ' ' वेदे रामायणे चैव पुराणं भारते तथा । आदौ मध्ये तथान्ते च विष्णुः सर्वत्र गोयते ' इत्यादि वचनेभ्यः " इति वाक्येन सर्ववेदप्रतिपाद्यत्वं विष्णोरुपवर्णितम् ।

तथा अपरोक्षानुभूतौ  ब्रह्मैव सर्वनामानि बिभर्तीति श्रुतिर्जगौइति सकलनामवाच्यत्वं ब्रह्मणः कण्ठरवेणोपवर्णितं शंकराचार्यैः ।

पद्मपुराणे लौकिकवैदिकसकलनामवाच्यत्वं श्रीरामचन्द्रस्योपवर्णितं भगवता पार्वतीपतिना । तथा तेनैव सर्ववेदानां भगवन्नामत्वेऽपि तेषु विष्णुसहस्रनाम्नां प्राधान्यं तत्रापि रामनाम्नः अतिश्रेष्ठत्वं चोक्तं तत्सुप्रसिद्धमेव । शौनकमहर्षिणाऽपि

" वेदाक्षराणि यावन्ति कथितानि द्विजातिभिः ।

तावन्ति हरिनामानि कीर्तितानि न संशयः "

इति ऋग्विधानवचनेन न केवलं वैदिकसकलपदवाच्यत्वं हरेः किंतु वैदिक-सर्वाक्षरवाच्यत्वमपीति प्रतिपादितम् ।

तथा " वेदैश्च सर्वैरहमेव वेद्य " इत्येतद्वाक्यव्याख्यानावसरे भाष्यो-त्कर्षदीपिकाकारप्रभृतिभिरद्वैतिभिरपि सर्ववेदैः कर्मकाण्डादिलक्षणैः कर्मो-पास्तिज्ञानकाण्डात्मकैः स्मृतीतिहासपुराणादिभिश्च श्रीकृष्णपरमात्मन एव प्रति- पाद्यत्वमुक्तम् । न तु निर्विशेषस्य ।

एतेन ' उपनिषदां त्वक्षरपरमात्मस्वरूपपरतया परविद्यात्वमित्यद्वैतरा- द्धान्तः। न्यायसुधादयस्तु कर्मकाण्डानामपि परविद्यात्वं विष्णुपरत्वेन प्रतिपादयन्ती ' ति यत्कथितं तन्निरस्तम् । पूर्वोपदर्शिताद्वैतिवचनैः कर्मकाण्डानामपि विष्णुपरत्वेन परविद्यात्वस्यावश्यकत्वात् ।

इत्थं च कर्मकाण्डानां कर्माद्यपरवस्तुबोधकत्वेनापर विद्यात्वं विष्णुरूपपरवस्तुबोधकत्वेन परविद्यात्वमपि । अत एवाथर्वणोपनिषदि प्रथमतः "भारद्वाजोऽङ्गिरसे परावरा " मिति परावरब्रह्मविद्यात्वं विभाज्यतावच्छेदक- सामान्यधर्मरूपमुक्तम् । तत्र परा च सा अवरा चेति व्युत्पत्या एकस्या एव ऋगाादीविद्यायाः विषयभेदेन परत्वमपरत्वं च गीयते । तथात्वे एव च तदुपपद्यते नान्यथा । एतदभिप्रायेणैव भाष्ये श्रीमदाचार्यै :-

ऋगाद्या अपरा विद्या यदा विष्णोर्न वाचकाः ।

ता एव परमा विद्या यदा विष्णोस्तु वाचका : "

इति परमश्रुतिवचनोदाहरणेन परापरविद्यात्वमेकत्र समर्थितम् ।

नन्वेवं परापरब्रह्मविद्यात्वस्य सामान्यधर्मत्वाङ्गीकारे परविद्यात्वापरविद्यात्वयो- 'विभाजकधर्मत्वाऽनुपपत्तिः । परस्परविरुद्धयोरेव विभाजकोपाधित्वात्; एतयोश्च परस्परसमानाधिकरणत्वात् । किंतु ब्रह्मविद्यात्वमेवात्र सामान्यधर्मः । 'परावरा' मित्यनेन ब्रह्मविद्यायाः परस्मादवरेण प्राप्तत्वं वा परावरसर्वविद्याविषयव्याप्यत्वं वा उच्यते । 'द्वे विद्ये वेदितव्ये ' इति वाक्ये च द्वे इत्यस्य न द्वित्वसंख्यावन्ता-`वित्यर्थः । ब्रह्मविद्याना-मानन्त्यात् । अपि तु द्वित्वसंख्यापर्याप्त्यधिकरणविभाजक धर्मान्यतरविशिष्टाविति । अत एवोपाधिद्वित्वेन द्विवचनोपपत्तिं सर्वेऽपि व्याख्यातारो मन्यन्ते । इत्थं च परविद्यात्वापरविद्यात्वयोर्ब्रह्मविद्यात्वव्याप्य विरुद्धनानाधर्मत्वेन तत्प्रकारकज्ञानजनकस्य ' द्वे विद्ये' इत्यस्य विभागवाक्यस्य नानुपपत्तिरिति चेन्न ।

तत्राऽपरे ' त्यनेन ऋगादिसर्वविद्यानां ग्रहणात्तदतिरिक्त--परविद्याया एवाप्रसिद्धेः । नच नाप्रसिद्धिः उपनिषदामेव परविद्यात्वादिति वाच्यम् । उपनिषदामपि ऋग्वेदाद्यन्तर्गतत्वेनापरविद्यात्वात् । परत्वापरत्वयोः परस्परसमानाधि- करणतया विभाजकोपाधित्वायोगेन विभागानुपपत्तितादवस्थ्यात् । एतदभि- प्रायेणैव "ननु ऋगादिबाया तहि सा कथं परा विद्या स्यान्मोक्षसाधनं च । ' या वेदबाहया: स्मृतयो याश्च काश्च कुदृष्टय ' इति हि स्मरन्ति । कुदृष्टित्वान्निष्फलत्वादनादेया स्यात् । उपनिषदां च ऋग्वेदादि बाहयत्वं स्यात् । ऋग्वेदादित्वे तु पृथक्करणमनर्थक " मित्यभिहितं शंकराचार्यैः ।

ननु तर्हि ' अथ कथं परेति । न । वेद्यविषयविज्ञानस्य विवक्षितत्वात् । उपनिषद्वेद्याक्षरविषयं हि विज्ञानमिह ' पराविद्ये ' ति प्राधान्येन -विवक्षितम् । नोपनिषच्छब्द राशिः । वेदशब्देन तु सर्वत्र शब्दराशिविवक्षित ' इति शंकराचार्योक्तदिशा अपरविद्याशब्देन शब्दराशिग्राः परविद्याशब्देनोपनिषज्जन्यज्ञानमिति विवक्षणे, परविद्यात्वस्य शब्दराशावभावादपरविद्यात्वस्य च ज्ञाने अभावात् परत्वापरत्वयोर्विरुद्धत्वेन विभाजकधर्मत्वमुपपन्नमिति चेन्न ।

पूर्वं ब्रह्मविद्यां प्राह, प्रवदेत, उवाच, प्राहेति कथनेन विद्याशब्दस्य ज्ञानार्थकत्वे तस्योच्चारणाद्यसंभवेन शब्द एव तत्संभवात्, ब्रह्मविद्याशब्दः ब्रह्मज्ञानजनकशब्दपर एव । अथ परा यथा तदक्षरमधिगम्यते " इति वाक्योक्ता- क्षराधिगतिकरणत्वरूपस्य परविद्यालक्षणस्य च शब्दमात्रवृत्तित्वेन ज्ञाने असंभवात् । कथंचि ' दधिगम्यते ' इत्यस्य प्राप्यते इत्यर्थाङ्गीकारेण, अक्षरप्राप्तिहेतुत्वस्य ज्ञाने उपपादनसंभवेऽपि विद्यात्वरूपस्य व्यापकस्य सामान्यधर्मस्य ज्ञाने अभावेन विभागानुपपत्तिरेव । विद्याशब्दस्य भावे क्यप्प्रत्ययान्तत्वमाश्रित्य ज्ञानार्थकत्वाङ्गीकारेण विद्यात्वस्य ज्ञाने उपपादनेऽपि, एवंविधविद्यात्वस्य ऋग्वेदादावभावेन विद्यात्वस्य साधारणधर्मत्वानुपपत्तिरेव । किंचास्यशास्त्रप्रकरणत्वेन तत्रत्यविद्याशब्दस्य शास्त्रयया तदक्षरमधिगम्यते ' इति वाक्योक्तामात्रपरत्वं वाच्यम् । अतः क्षराधिगतिकरणत्वमक्षरज्ञानकरणत्वरूपमेव वक्तव्यम् । तथा च ऋग्वेदान्तर्गतोपनिषदामक्षराधिगतिकरणत्वेन परवस्तुबोधकत्वेन ऋग्वेदादीनामेव भागविशेषे परविद्यात्वम् । उपनिषदितरभागस्यापरवस्तुबोधकत्वेनापरविद्यात्वमिति वा । अस्मदुपदर्शितरीत्या ' सर्वे वेदा यत्पदमामनन्ति ' ' वेदैश्च सर्वैरहमेव वेद्य ' इत्युक्तदिशा उपनिषदितरभागस्याऽपि विष्णुरूपपरवस्तुबोधकत्वेन परविद्यात्वमपीति वा वक्तव्यम् । एवं सति पूर्ववाक्योक्तं ब्रह्मविद्यायाः परावरत्वमुपपद्यते इति ज्ञेयम् । नन्वेवमपि परत्वापरत्वयोः परस्परसमानाधिकरणयोर्विभाजकधर्मत्वानुपपत्या विभागानुपपत्तिस्तदवस्थैव । यद्यप्याथर्वणोपनिषद्भाष्यात् ' द्वे विद्ये ' इत्यस्य विभागवाक्यत्वं न ज्ञायते, तत्र प्रमाणोदाहरणपूर्वकं परापरत्वयोरेकधर्मिनिष्टत्वसमर्थनात् । अतः स्वरूपसंकीर्तनमात्रमेतत् । तथाहि तत्र ब्रह्मविद्याशब्देन ब्रह्म-विशेष्यकज्ञानजनकशास्त्रेऽभिहिते प्रकारानिर्देशेन ब्रह्मविशेष्यकं ज्ञानं किं प्रकारकमित्याकाङ्क्षाया अनिवृत्तेः " अथ परा यया तदक्षरमधिगम्यते " इत्युक्तम् । तत्र अधिगम्यते इत्यस्य आधिक्येन गम्यते इति तात्पर्यात् ब्रह्मविशेष्यकाधिक्यप्रकारकज्ञानजनकशास्त्रं ' पराविद्या ' इत्युच्यते । अत एव छान्दोग्योपनिषदि प्रथमतः " ओमित्येतदक्षरमुद्गीथमुपासीते " त्यत्र  यया तदक्षरमधिगम्यते " इत्यत्रोक्तस्याक्षरस्य ओङ्कारप्रतिपाद्यत्वम् उद्गीथशब्दप्रतिपाद्यत्वं चोपदर्य तस्योद्गीथस्य " स एव रसानां रसतमः परमः परार्थ्योऽष्टमो य उद्गीथः " इत्यनेनाधिकोच्चत्वं सुविशदमुपवर्णितम् । तेन उद्गीथशब्दस्य अधिकच्चत्त्वेन गीतः वेदप्रतिपादितः उद्गीतः स एवोद्गीथः इति व्युत्पत्तिः सूचिता । ओमित्यस्य उद्गीथपदसमानार्थकत्वसूचनात् । स्मृत्यन्तरे-

" अकारेणाधिकं प्रोक्तमुकारेणोच्चमुच्यते ।

तथा मितं सर्ववेदैर्मकारेणाभिधीयते ॥ "

इति व्याख्यानाच्च, ओङ्कारस्याप्याधिकोन्च्चत्वेन सकलवेदप्रतिपाद्य इत्यर्थः । अत एवोङ्कारेण अनन्तार्थप्रतिपादकेन ब्रह्मणः स्वोपदर्शितोत्कृष्टतमत्वसमर्थनाय गुणपूर्णत्वरूपमोतत्वं वर्णितम् । कचित्तु द्युभ्वादिजगतः ब्रह्मण्योतत्वप्रदर्शनेन द्युभ्वाद्यायतनत्वं ब्रह्मणः प्रतिपादितम् " यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः " " मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव " इत्यादिश्रुतिस्मृतिवचनेषु ।

तथा ओङ्कारस्यावधातुनिष्पन्नत्वस्य सर्वैरभ्युपगतत्वात्, अवधातोश्च प्रवेशार्थकत्वाद्रक्षणार्थकत्वाच्च, जगत्प्रविष्टार्थकत्वं जगद्रक्षकार्यकत्वं च मन्तव्यमित्यभिप्रेत्य भगवद्गीतायाम् — “ यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः " इति वाक्येन लोकत्रयप्रविष्टत्वे सति लोकत्रयरक्षकत्वं विष्णुमात्रवृत्तित्वेन सर्वप्रसिद्धं लक्षणमभिधाय जगद्रक्षकत्वादेव सर्वेश्वरत्वं तथा स्वरूपतो देहतो गुणतश्च नाशरहितत्वरूपाव्ययत्वेन रक्षकान्तरनिरपेक्षत्वं चोपवर्ण्य रमाब्रह्मरुद्रादिसकल- नियम्यचेतनोत्तमत्वेन कैमुत्यन्यायसिद्धेन रमाद्यभिमन्यमानसकलजडोत्तमत्वेन च प्रवृत्तिनिमित्तेन सर्ववेदेषु तदनुसारिलौकिकप्रमाणेषु च " पुरुषोत्तम" नाम्ना अन्वर्थकेन प्रसिद्धत्वं श्रीकृष्णेन स्वात्मनोऽभिहितम् ।.

अनेन व्याहृतीनामपि सर्वलोकमहेश्वरत्वं सर्वलोकप्रविष्टत्वे सति सर्वलोकरक्षकत्वमर्थः सूचितः । अत एव बृहदारण्यके भूः शब्दस्य भगवच्छिरोवाचकत्वं भुवः शब्दस्य बाहुवाचकत्वं । सुवः शब्दस्य पादवाचकत्वं चोपदर्श्य उपलक्षणया सर्वावयवद्वारा सर्वरक्षकत्वं विवृतम् । तथा

" वासुदेवस्वरूपं तदकारेणोच्यते बुधैः ॥

उकारेण श्रिया देव्या रूपं मुनिभिरुच्यते ।

मकारेणोच्यते जीवः पञ्चविंशाक्षरः पुमान् " ॥

इति पद्मपुराणं । तथा तत्रैवान्यत्र-

" अकारेणोच्यते विष्णुः श्रीरुकारेण चोच्यते ।

मकारेण तयोर्दासाः ब्रह्माद्याः परिकीर्तिताः " ॥ इत्यादिवचनैः वृद्धहारीतस्मृतिवचनैश्च ओङ्कारव्याख्यानरूपैः " अस्ये- " शाना जगतो विष्णुपत्नी ", "ईश्वरीं सर्वभूतानाम् ”, “ यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषि तं सुमेधाम् " इत्यादिश्रुतिभिः ब्रह्मरुद्रादि- सर्वजगदीशानत्वजननीत्वादिमहिमशालितया विष्णुपत्नीत्वेन चोपवर्णिताया महा- लक्ष्म्या अपि ईश्वरः उत्तमश्च विष्णुरितिसूचितम् । तदेव ओङ्कारव्याख्यानभूत- व्याहृतिगतभुव इति पदेन भूतिवरार्थकेन विवृतम् । तेन च क्षरशब्दवाच्यब्रह्म- रुद्राद्युत्तमायाः अक्षरशब्दवाच्यायाः लक्ष्म्या अपि उत्तमत्वेन सर्वोत्तमत्वं विष्णोरुपदर्शितम् ओङ्कारेण व्याहृतिमन्त्रेण चेति सिद्धम् ।

गायत्रीमन्त्रेणापि वरेण्यशब्देन" अतिशयेन वरं वरेण्यम् " इति व्युत्पत्त्या पुण्डरीकाक्षस्य विष्णोः सर्वोत्तमत्वं वर्णितम् ।

तथा पुरुषसूक्तेऽपि " उतामृतत्वस्येशान " इत्यादिना मुक्तामुक्तब्रह्मादिनियामकत्वमुक्त्वा एतावानस्य महिमाऽतो ज्यायांश्च पूरुषः इति मन्त्रेण विष्णोरेव सर्वोत्तमत्वमुपपत्तिप्रदर्शनेन विवृतम् । तेन तद्वयाख्यानभूतमन्त्रसंहिता च सम्पूर्णा विष्णोः सर्वोत्तमत्वं वर्णयतीति स्फुटमेव । अपि च मन्त्रसंहिताव्याख्यानभूते ऐतरेयब्राह्मणे उपक्रमवाक्य एव मन्त्रसंहिताया ब्राह्मणस्य च रहस्यं संगृहीतम् " अग्निवें देवानामवमों विष्णुः परमः "इत्यादिना । तथा केनोपनिषदि देवसेनाग्रगामित्वेनाग्निशब्दवाच्यस्य जातवेदसः तृणदहनसामर्थ्यमापे विष्ण्वधीनम्, नासिक्यवायोस्तृणचालनसामर्थ्यमपि विष्ण्वधीनम् इति दृष्टान्तविधया रमाब्रह्मरुद्रादिसर्वचेतनसामर्थ्यं मदधीनमिति ज्ञापयित्वा विष्णावन्तर्हिते सति-ईश्वराज्ज्ञानमन्विच्छेत् मोक्षमिच्छेज्जनार्दनात्इति शङ्कराचार्यकृतव्यासमतसंग्रहोक्तदिशा इन्द्रादिदेवगुरोः " वैष्णवानां यथा शम्भु " रिति विष्णुभक्तेषु (छिन्नभक्तेषु) प्राधान्येन परिगणितस्य शम्भोः पत्नी, उमा इन्द्रस्य गुरुपत्नी, साक्षाच्छिष्यं देवेन्द्रं विष्णोः सर्वोत्तमत्वमुपदिदेश । इन्द्रश्च वायुमग्निं चोपदिदेश । अतः क्रमेण अग्निनोपदिष्टा इतरे देवा विष्णोर्महिमानं व्यजानन् । अत एव मुमुक्षूपास्येषु ब्रह्मज्ञानिषु गुरुषु मुक्तप्राप्येषु देवेषु चाग्नेः पूर्वभावित्वाद् अग्नेरेवात्र निर्देशः। तदपेक्षयाऽधमानामनिर्देशश्चोपपद्यते । तथा च अग्नाविष्ण्वोर्मध्ये नासिक्य- वायुदेवेन्द्रपार्वत रुद्र भारती मुख्यप्राणसरस्वती चतुर्मुखरमाः ग्राह्या इति वा देवतातारतम्यवर्णनपर प्रमाणानुसारेणाग्न्यपक्षयोत्तमत्वेनेोक्ताः विष्णुभिन्नाः सर्वेऽपि ग्राह्या इति चा ज्ञेयम् । सर्वथा विष्णोः परमत्वं रमाब्रह्मरुद्रेन्द्रादिसर्वचेतनोत्तमत्वरूपमेव न संकुचितमिति तत्त्वम् । अधिकं तु भेदनिंर्देशात् " इत्यादिब्रह्मसूत्राण्यपि ब्रह्मविशेष्यकार्धिक्यप्रकारकज्ञानजनकत्वरूपपरविद्यालक्षणोपेतानिं इति ज्ञेयम् । तत्र-

" विज्ञेयं परमं ब्रह्म ज्ञापिका परमा श्रुतिः ।

अनादिनित्या सा तच्च विना तां न स गम्यते ॥ "

इति श्रुतिवचनेन ब्रह्मणोऽनादिनित्यत्वेन प्रमेयेषु परमत्वं श्रुतेरनादिनित्यत्वेन प्रमाणेषु परमत्वमुपवर्णितम् ।

ऋगाद्या अपरा विद्या यदा विष्णोर्न वाचका: ।

ता एव परमा विद्या यदा विष्णोस्तु वाचकाः ।। "

इति परमश्रुतौ परमस्य विष्णोर्वाचकत्वेन वेदानां परमप्रमाणत्वमुपदार्रीतम् । तत्र एवकारेण वेदभिन्नानां परविद्यात्वनिषेधश्च ज्ञायते । तथाऽप्याचार्ये : अनुव्याख्याने परत्वापरत्वयोर्वैय्यधिकरण्यसूचनात् श्रीमन्न्यायसुधायां तथा व्याख्यानात्, श्रीव्यासराजतीर्थैर्वाक्यार्थचन्द्रिकापरिमलादिटिप्पणीकारैश्च परापरशब्दयो-र्निलनलमनीलं चेत्यादिवद्विरुद्धार्थत्वप्रतीतेश्चेत्यादिना परत्वापरत्वयो-वैय्यधिकरण्यस्योपपादनात्तद्विरोधो दुष्परिहरः ।

किञ्च एवंसति द्वे इति द्विशब्दानुपपत्तिः । द्विशब्देन धर्मिंगत द्वित्वविवक्षायां अनन्ता वै वेदा ' इति वेदानामेवानन्तत्वात्तत्र द्वित्वकथनायोगात् । नापि शते पञ्चाशन्न्यायेन तदुपपत्तिः । शते पञ्चाशन्न्यायेन त्रित्वादिसंख्यानामपि तत्र संभवेन ' तिस्रो विद्या वेदितव्याः; चतस्रो विद्या वेदितव्या' इत्यनुक्त्वा विशिष्य द्वेविद्ये इति कथने नियामकाभावात् । नच द्वित्वकथनं यादृच्छिकम् । विद्याद्वित्वस्य " द्वे विद्ये वेदितव्ये " इत्यनेन अवश्यज्ञेयत्वविधानात् ।

विद्ये इति द्विवचनेनैव द्वित्वसंख्याबोधनेन द्विशब्दवयैथ्यापातेन न्यूनाधिकसंख्याव्यवच्छेदार्थकत्वे वक्तव्ये यादृच्छिकत्वासंभवाच्च । द्विशब्देन धर्मगत द्वित्वसंख्याप्रतिपाद्यते इत्यंगीकारे तत्र धर्मशब्देन विद्यात्वरूपधर्मविवक्षायां तस्यैकत्वेन द्विवचनायोगः । विद्यात्वव्याप्यधर्माणां विद्यात्वसमानाधिकरणानां वा धर्माणां विवक्षणे तेषां ऋग्वेदत्व--यजुर्वेदत्व--सामवेदत्वादीनामनन्तत्वात् द्विवचनानुपपत्तिरेव । शतेपञ्चाशन्यायादीनां ' च नात्रावकाश इति प्रागेवोक्तमिति चेतू; अत्रोच्यते

ब्रह्मा देवानां प्रथमः संबभूव विश्वस्य कर्ता भुवनस्य गोप्ता ।

स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह ॥ १ ॥

अथर्वणे यां प्रवदेत ब्रह्मा अथर्वा तां पुरोवाचाङ्गिरे ब्रह्मविद्याम् ।

। स भारद्वाजाय सत्यवहाय प्राह भारद्वाजोङ्गिरसे परावराम् ॥ २ ॥ इति मुण्डकोपनिषदि प्रथममन्त्रेण ब्रह्मविद्यायाः सर्वविद्याप्रतिष्ठात्वमुक्तम् । द्वितीयमन्त्रेण च परावररूपत्वमुपदर्शितम् । तदुत्तरम् -

" शौनको ह वै महाशालोङ्गिरसं विधिवदुपसन्नः पप्रच्छ ।

कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति ॥ ३ ॥

तस्मै स होवाच द्वे विद्ये वेदितव्ये इति हस्म यद्ब्रह्मविदो

वदन्ति परा चैवा परा च " ॥ ४ ॥

इति मन्त्रावुक्तौ । तत्र तृतीयमन्त्रेण आख्यायिकाकथनद्वारा ब्रह्मविद्यायाः सर्वविद्याप्रतिष्ठारूपत्वमुक्तप्रथममन्त्रोक्तं विशदीकृतम् । चतुर्थमन्त्रेण च द्वितीयमन्त्रोक्तं परावरविद्यात्वं विशदीकृतं विभागकथनेन । अतः ' द्वे विद्ये वेदितव्ये ' इति वाक्यं परावरब्रह्मविद्याविभागपरमेव । अत एव द्वे विद्ये इत्यत्र विद्याशब्द:-न विद्यासामान्यपरः वेदतत्संबन्धिभिन्नविद्यानां ब्रह्मविद्भिः वेदितव्यत्वकथनायोगात् । किं तु ब्रह्मविद्याऽपरपर्याया परावरविधैव । तथा च सर्वविद्याप्रतिष्ठारूपा परावरा ब्रह्मविद्या द्विविधा परा चैवाऽपरा चेति विभागवाक्यस्वरूपलाभः । पृथिवी द्विविधा नित्याऽनित्याचैत्यादिवत् । तत्र विभाजकधर्मपरवाक्ये प्रकारार्थकेतिशब्दाध्याहारनियमेन पृथिवीविभागवाक्ये पृथिवी नित्या इति अनित्या इति च द्विविधा इतिवत् प्रकृतेऽपि परावरब्रह्मविद्या परैवेति अपराचेति च द्विविधा इति विभागवाक्यस्य निष्कृष्टस्वरूपं बोध्यम् ।

यथाश्रुत समुच्चयावधारणरूप-विरुद्धार्थक-चकारैवकारयोरेकत्र प्रयोगे वाक्याप्रामाण्यापत्तेः ।

तत्र ' परैव इति ' इति वाक्येन अपरत्वासमानाधिकरणपरत्वाश्रयविद्यात्त्वमेको विभाजकधर्मः प्रतिपाद्यते; पृथिवीविभागवाक्ये नित्यपृथिवीत्वरूपविभाजकधर्मवत् । अपरा चेत्यत्र समुच्चयार्थक-च-शब्दवशात् परत्वसमानाधि- करणापरविद्यात्वरूपः द्वितीयो विभाजकधर्मः ज्ञायते । पराचैवेत्यत उद्धृतेनान्ते योजितेन चशब्देन विभाजकधर्मनिष्ठं परस्परविरुद्धत्वं, पृथिवी द्विविधा नित्याऽनित्या चेत्यादाविव बोध्यते । तथा चात्राऽपि, इतरविभागवाक्यवत्परा परब्रह्मविद्यात्वव्यापक परावरब्रह्मविद्यात्वव्याप्यपरत्वसमानाधिकरणापरत्वविशिष्टविद्या- त्वविरुध्दाऽपरत्वासमानाधिकरण- परत्वविशिष्ट विद्यात्वअपरत्वासमानाधिकरण-परत्वविशिष्टविद्यात्वविरुद्धपरत्व - समानाधिकरणा परत्वविशिष्टविद्यात्वान्यतराभिन्नद्वित्वसंख्यापर्याप्त्यधिकरणविभाजकधर्मान्यतरवती परावरब्रह्मविद्येति विभागवाक्यजन्यबोधो बोध्यः । सचाबाधित एवेति न विभागवाक्यप्रामाण्यानुपपत्तिरिति । नन्वेवं सति अपरत्वासमानाधिकरणपरत्वविशिष्टविद्याया अप्रसिद्धत्वादुक्तविभागानुपपत्तिरेव । ऋग्वेदादिपदैरुपनिषदामपि ग्रहणात्तेषामप्यपरविद्यात्वोक्तेः- ऋग्वेदादतिरविद्याया अपरविद्यात्वस्य सुप्रसिद्धत्वात् ।

न च न्यायसुधा परिमलकारैः-

ऋगाद्या अपरा विद्या यदा विष्णोर्न वाचका: ।

ता एव परमा विद्या यदा विष्णोस्तु वाचका: "

इति परमश्रुतिव्याख्यानावसरे " ऋगाद्या " इत्यस्य उपनिषदतिरिक्तमन्त्र- ब्राह्मणात्मकवेदभागमात्रपरत्वं वक्तव्यम्; उपनिषदामपरवस्तुबोधकत्वाभावेनापरत्वस्यासंभवात् । अत एव आरण्यकमावर्तयेत्, आरण्यकमावर्तयेदिति । मन्त्रब्राह्मणव्यतिरेकेणोपनिषदामेवावर्तनविधानमुपपद्यते । तथा श्रीमदाचार्योदाहृतम् 'आरण्यकेष्वृते विष्णुं नैवान्यत्किचिदुच्यते ' इत्यादिस्मृतिवचनं चोपपद्यते । "इत्युपपादनादपरत्वासमानाधिकरण--परत्वविशिष्टविद्यात्वमुप- निषदामेवोच्यते । अतो नाऽप्रसिद्धिरिति वाच्यम् ।

मुण्डकोपनिषदि ' तत्रापरा ऋग्वेदो यजुर्वेद ' इत्यादिना ऋग्वेद ब्राह्मणपरिव्राजकन्यायेन पदगृहीतानामुपनिषदामपरत्वकथनात्तद्विरोधः । ' ऋग्वेदो यजुर्वेद ' इत्यत्रापि ऋग्वेदपदस्य ' ऋगादया अपरा विद्या ' इत्यत्र परिमलाचार्योपदर्शितदिशा उपनिषदतिरिक्तमन्त्रब्राह्मणपरत्वाङ्गीकारे " ब्राह्मणपरिव्राजकन्यायश्चागतिकागतिः " इति न्यायसुधोपदर्शितयुक्ति- विरोध इतिचेन्न ।

परिमलाचार्यैरुपनिषदां ' ऋगादया अपरा विद्ये ' ति वाक्यव्यारव्याना वसरेऽपरविद्यात्वं निषिद्धं सुधानुसारेण । - 'तत्रापरा ऋग्वेदो यजुर्वेद ' इत्यादि मुण्डकव्याख्यानावसरे अपरविद्यात्वं विहितम् । न च तेषां महात्मन व्याहतभाषित्वं संभावितम् । अतः विहितमपरत्वमन्यत्, निषिद्धमपरत्वं चान्यदित्यङ्गीकार्यम् । तत्र निषिद्धमपरत्वं कर्भादिरूपापरवस्तुबाधकत्वम्, विहितमपरत्वं च विद्यान्तरावधिकापकर्षाश्रयत्वरूपम् ।

इत्थं चोपनिषदामप्यवरत्वोक्तेः अपरत्वा समानाधिकरणपरत्वस्य तत्रा- संभवात्तादृशविद्याया एवाप्रसिद्धत्वाद्विभागानुपपत्तिस्तदवस्यैवेति चेन्न ।परं जैमिनिर्मुख्यत्वा " दिति सूत्रभाष्ये शंकराचार्यैः " स एनान् ब्रह्म गमयती " ' परं हि त्यत्र ब्रह्मशब्दालम्बनं किं परं ब्रह्मोतापरं ब्रह्मेति विचारे ' ब्रह्म ब्रह्मशब्दस्य मुख्यमालम्बनम् गौणमपरम् । मुख्यगौणयोश्च मुख्ये संप्रत्ययो भवति " इति वाक्ये ।

अ. सुधाकृता च (१२० पत्रे ) " न चात्र सूत्रम् ' अथातो गुणपूर्ण ब्रह्मजिज्ञासे ' ति । केवलमत्रब्रह्मशब्दप्रयोगान्निर्विशेषं ब्रह्मैव जिज्ञास्यमिति प्रतीयतेइत्यादिना सविशेषस्यापरत्वं निर्विशेषस्य परत्वं च स्वयं परिकल्प्य केवलस्य निरुपपदस्य ब्रह्मशब्दस्य परब्रह्मपरत्वमुक्तम् । निषिद्धं न्यायसुधाकारोपदर्शितं निरुपपदसूत्रशब्दस्य मुख्यभूतब्रह्मसूत्रपरत्वमिति तु तेषां व्याहतभाषणस्वभावानुगुणमेवेत्यन्यदेतत् । तथाच निरुपपदानां शब्दानां स्वप्रतिपाद्यार्थीवधिकापकर्षानाश्रयस्वार्थबोधकत्वमित्यविवादमेव ।

इत्थं च " तत्कर्म हरितोषं यत्सा विद्या तन्मतिर्यया " इत्यत्र निरुपपदकर्मशब्दस्य मुख्यं कर्मेत्यर्थः । विद्याशब्दस्यापि मुख्यविद्येत्यर्थः । तेन च मुख्यकर्मणः हरिप्रीतिहेतुकर्मत्वं लक्षणम् । मुख्यविद्यायाः परविद्यायाः हरिमति हेतुविद्यात्वं लक्षणमित्युक्तं भवति । मतिशब्दस्य " आत्मा वारे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्य " इति श्रुत्यनुसारेण " श्रुणुयाद्यावदज्ञानं मतिर्यावदयुक्तते " तिस्मृत्यनुसारेण मननमर्थः । मननं च वेदार्थनिर्णायकयुक्त्यनुसन्धानमित्यविप्रतिपन्नम् । तथा च हरिविशेष्यकश्रौतपदशक्तितात्पर्यवि- षयत्वप्रकारकानुमितिजनकयुक्त्यनुसन्धानप्रयोजकशास्त्रं परविद्याशब्दार्थः । ब्रह्मविद्या-ब्रह्मसूत्रशब्दयोरप्ययमेवार्थः ।

तथा ' शारीरकमीमांसे ' त्यत्र शारीरकपदेन -" शारीरौ तावुभौ ज्ञेयौ जीवश्च परमस्तथा । अनादिबन्धनस्त्वेको नित्यमुक्तस्तथाऽपर " इति नारदपुराणानुसारेण सर्वजीवनियामकतया सर्वजीवहृदयस्थत्वेऽपि पूर्णसुखरूपं परब्रह्मैवोच्यते । तस्यैव " प्राणो ब्रह्म कं ब्रह्मे " ति कशब्दप्रतिपाद्यत्वात् ब्रह्ममीमांसा--शारीरकमीमांसाशब्दयोरेकार्थत्वं बोध्यम् ।

इत्थं च " शारीरको जीवः तमधिकृत्य कृतोऽयं ग्रन्थः शारीरक " इति व्याख्यानं तदुपपादनपरा अ. सुधाऽपि परास्ता वेदितव्या; " जन्माद्यस्य यतः " " भेदव्यपदेशाच्चान्य " इत्यादिसूत्रैः सर्वत्र जीवभिन्न ब्रह्मण एव मीमांसितत्वस्यानुपदमेवापदर्शितत्वात् ।

नन्वेवं ब्रह्मसूत्राणां परविद्यात्वोपपादनेऽपि तेषां केवलपरविद्यात्वेन परावरत्वासंभवात्सामान्यधर्माभावेन अपरत्वासमानाधिकरणपरत्ववद्विद्यात्वरूपधर्मस्य सामान्यधर्मव्याप्यत्वाभावेन कथं विभाजकधर्मत्वोपपत्तिरिति चेदित्थम् परावरशब्दो हि परा च सा अवरा चेति कर्मधारयत्वेनरूपेण परत्वसमानाधिकरणापरत्वरूप--परावरत्वबोधकः । पराः अवराः यस्याः सा इति बहुव्रीहित्वेन स्वभिन्न परविद्यात्वव्यापकापकर्षावाधित्वरूप--परावरत्वबोधकः । एतादृशपरावरत्वद्वयान्यतरवत्वं च सामान्यधर्मः । तव्याप्यत्वं चोक्तविभाजकधर्मयोद्वयोरप्य स्त्येव; बहुब्रीहिबोध्यार्थस्य ब्रह्ममीमांसायां कर्मधारयबोध्यार्थस्य ऋग्वेदादौ सत्वात् इत्यं च " द्वे विद्ये वेदितव्ये परा चैवापरा चे " त्यस्य विभागवाक्यत्वमुपपन्नतरमिति स्थितम् ।

अत्र केचित् परविद्यात्वं हि अपकर्षानाश्रयप्रमाणत्वम् । ब्रह्ममीमांसायास्तु प्रमाणसहकारित्वमेव । न प्रमाणत्वम्; चक्षुरिन्द्रियसहकार्यालोकवत् । तथा च प्रमाणत्वस्यैवाभावेन अपकर्षानाश्रयप्रमाणत्वं तु दूरनिरस्तमिति वदन्ति तत्तु अज्ञानमूलकम् ।

तथा हिं मीमांसाशास्त्रं हि परार्थानुमानरूपन्यायवाक्यरूपम् । न्यायवाक्यं तु मतभेदेन परामर्शात्मक शाब्दप्रमाकरणं परामर्शप्रयोजक शाब्दप्रमाकरणं वा भवत्येव । अन्यथा परार्थानुमानमात्रोच्छेदप्रसंग: । ब्रह्मजिज्ञासा कर्तव्येति प्रति- ज्ञावाक्येन ब्रह्मजिज्ञासाविशेष्यककर्तव्यवावच्छिन्नप्रकारताक-शाब्दबोधरूपप्रमायाः जननेन, एवमेवतत्तदवयवैः स्वस्वार्थबोधजननेन, वेदान्तसिद्धान्ते पञ्चावयवनियमाभावेन प्रतिज्ञाहेतुभ्यामेव मोक्षफलकत्वज्ञाप्यकर्तव्यतावदभिन्ना ब्रह्मजिज्ञासेति विशिष्टशाब्दप्रमासंभवेन प्रामाण्यावश्यंभावात् ।

न च ब्रह्मजिज्ञासा कर्तव्येति ज्ञानं न प्रमा । तथात्वे ब्रह्मजिज्ञासा कर्तव्या न वेति संशयस्य न कर्तव्येति विप्रतिपत्तेश्चानिवृत्तिप्रसङ्गात् । न च ब्रह्मविशेष्यकप्रमाजनकत्वं प्रामाण्यं; तच्च न ब्रह्ममीमांसाया इति वाच्यम् । ' विश्वं ' सत्यमित्यादिश्रुतीनां घटादिप्रत्यक्ष हेतुभूतचक्षुरादीनामप्रामाण्यापातात् । ब्रह्मविशेव्यक--श्रोतपदशाक्ति तात्पर्यविषयत्वप्रकारकबोधस्य ब्रह्ममीमांसाजन्यत्वेन तस्य च प्रमात्वेन, ब्रह्ममीमांसायाश्च तादृशशाब्दप्रमाकरणत्वेन ब्रह्मविषयकप्रमाजनकत्वरूप प्रामाण्यस्याप्यावश्यकत्वात् । बृहत्तन्त्रप्रमाणानुसारेण वासुदेवादिभगवत्स्वरूप- तन्माहात्म्यप्रतिपादकत्वस्याप्यपलपितुमशक्यत्वात् सा विद्या तन्मतिर्यये ' स्मृतिसिद्धयुक्त्यनुसन्धानात्मक —— मननप्रयोजकविद्यात्वस्य ब्रह्ममीमांसायामपन्होतु मशक्यत्वाच्च ; अत, ' ब्रह्ममीमांसायाः प्रामाण्यमेव नास्ति किमुतानुत्तमप्रामाण्य- मित्यादिकथनं दुराग्रहविलसितमेव ।

इदमप्यत्रानुसन्धेयम् — “ वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगा- द्यतयः शुद्धसत्त्वाः । ते ब्रह्मलोकेऽषु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे "इति परविद्याज्ञानफलवर्णनप्रसङ्गे मोक्षहेतुभूतनिश्चयः फलवेन सूचितः । स च प्रमाणानां प्रावल्यदौर्बल्यनिश्चयाधीनः । उपक्रमोपसंहारादीनां श्रुत्यादीनां च प्रावल्यदौर्बल्यानिश्चये वेदतात्पर्यानिश्चयेन तत्त्वानश्चयायोगात् । प्राबल्यदौर्बल्य- निश्चयश्च परत्वापरत्वरूपोत्कर्षापकर्षनिश्चयाधीनः । यद्यप्युत्कर्षः अपौरुषेयत्व प्रयुक्तः अनुग्राहकत्वप्रयुक्तश्चेति द्वेधा संभवति । तत्रापौरुषेयत्वप्रयुक्तोत्कर्षस्तु न प्राबल्यदौर्बल्य निर्णयायोपयुज्यते । उपक्रमादीनां सर्वेषामप्यपौरुषेयत्वेन तस्य प्रबल दुर्बलोभयसाधारण्येनप्रावल्यदौर्बल्यानिश्चायकत्वात् । तथापि अनुग्राहकत्वप्रयोज्य परत्वरूपोत्कर्ष एव प्राबल्यप्रयोजको निरपवादः । अत एव श्रीमदाचार्यैः श्रुति मूलतये " त्यनेन श्रुतिव्याख्यानत्वरूपनिर्णायकत्वेन परमप्रामाण्यमुप- र्शितम् । श्रीमन्न्यायसुधाकारैरपि "संभवति त्वस्य परत्वमनुग्राहकत्वा " दित्यादिना तदेवोपपादितम् ।

तथा च व्याख्यानत्वानुग्राहकत्वनिर्णायकत्वरूपाऽनतिभिन्नार्थरूप धर्मप्रयोज्योत्कर्षरूपं परत्वमेव प्राबल्यप्रयोजकम् । प्राबल्यं च प्रमाणान्तरनिष्ठार्थान्तरपरत्वप्रयोजकविरोधप्रतियोगित्वरूपम् । तथा च श्रुतिसूत्रयोर्विरोधे किं सूत्रविरोधेन श्रुतीनामर्थान्तरपरत्वमुत श्रुतिविरोधेन सूत्राणामर्थान्तरपत्वं वाच्यमिति संशयपरिहारार्थमेव ब्रह्मसूत्राणां ऋगादिनिर्णेयग्रन्थापेक्षया परत्व मुक्तम् । तादृशपरत्वे च " वेदोक्तरूपोऽनुपचारतश्चे " ति श्रुतौ तच्छब्दव्या - ख्यानात्, श्रौतपदशक्तितात्पर्यविषयत्वावशिष्टाक्षराधिगतिकरणत्वस्य वेदानुग्राहकत्वस्य प्रयोजकत्वमुक्तम् । एतदभिप्रेत्यब्रह्मवैवर्ते

ब्रह्मसूत्रानुसारेण वेदाद्यं सर्वमेव हि ।

योज्यं न ब्रह्मसूत्राणि दृश्यमानार्थतोऽन्यथे " ति

ब्रह्मसूत्राणां प्राबल्यं निर्णेयानां सर्वेषां वेदादीनां ब्रह्मसूत्रविरोधप्रयुक्तार्थान्तरपरत्वरूपं दौर्बल्यं चोपवर्णितम् । व्याख्यानशब्देन व्याख्येयतदितर-सजातीय ग्रन्थाध्ययनाप्रयोज्य व्याख्यानत्वं विवक्षितम् । तच्चोपसंहारादिरूप- वेदैकदेशात्मकव्याख्याननिष्ठं स्वतःसर्वज्ञेश्वरकृतव्याख्याननिष्ठं च; अत नानीश्वरकृतव्याख्यानेषु स्वव्याख्येयापेक्षया प्राबल्यादिशङ्कावकाशः ।

एवं सति-

ऋगाद्या अपरा विद्या यदा विष्णोर्न वाचकः ।

ता एव परमा विद्या यदा विष्णोस्तु वाचका: "

इति परमसंहितावचनेन; उपनिषदां ब्रह्मसूत्राणां च परविद्यात्वं न लभ्यते न प्रतिपाद्यते इति चेत् । मास्तु; अनेन वचनेन प्रतिपादितं पृथक् प्रामाण्यम् =अधमप्रामाण्यम् । तस्योपनिषत्सु ब्रह्मसूत्रेषु चानभ्युपगमादिति श्रीमन्न्याय- सुधाचार्याणां टिप्पणीकाराणां चाशयो बोध्यः ।

पृथक् प्रामाण्यं द्वेधा; अपरवस्तुबोधकत्व विशिष्टपर वस्तुबोधकत्वरूपम् अनुग्राहकत्वासमानाधिकरणपरवस्तुबोधकत्वरूपंचेति । तत्र प्रथममुपनिषदयावृत्तं तदितरऋगादिमात्रवृत्ति । द्वितीयं चोपनिषत्सु वर्तत एव । ब्रह्मसूत्रेषु तु नोभयविधमपि पृथक् प्रामाण्यम् । अतः एवंविधविशेषसूचनार्थमेव तेषां कण्ठरवेणात्र ग्रहणं कृतमिति विवेचनीयम् ।

अ. सुधाकारास्तु न्याय चन्द्रिका भूमिकायाम्; " उपनिषदपेक्षया ब्रह्म-मीमांसाशास्त्रमुत्तम--मितिकर्तव्यतात्वेऽपि ब्रह्ममीमांसायाः " इति वाक्येन; अ. सुधाभूमिकायां च " उपनिषदर्थनिर्णायकतामात्रेण उत्तमशास्त्रत्वेत्वद्वैतिनो न विप्रतिपद्यन्ते " इति वाक्येन ब्रह्ममीमांसाया उपनिषदपेक्षया उत्तमत्वं स्वयं वर्णयित्वाब्रह्ममीमांसाया एवानुग्राहिकाया उत्तमत्वे तु विप्रतिपद्यन्त " इति स्वव्याघातमविगणय्य किमपि कथयन्ति । तत्तेषां भूषणमेव ।

एवमेव " क्वचित्सूत्राणां गुणत्वोल्लेखस्तु; असन्दिग्धवेदवाक्यापेक्षयेति तत्त्व " मिति तेषां कथनमपि व्याहतमेव । विषयवाक्यतया सन्दिग्धार्थकानन्दमय श्रुत्यपेक्षया " आनन्दमयोऽभ्यासा " दिति सूत्रस्य गौणताया अद्वैतिभिरङ्गीकारात् अ. सुधाकारास्तु केषु चिग्रन्थेषु " अथातो ब्रह्मजिज्ञासे " त्यत्र अब्रह्मजिज्ञासेतिं पदच्छेदं विधाय " तद्विजिज्ञासस्व तब्ब्रह्मे " ति श्रुतिविरोधं शांकरभाष्यादिविरोधमप्यविंगणय्य यथेच्छं सूत्रार्थं वर्णयन्ति । तत्कृते चनमस्तेषामपूर्वं व्याख्यान कौशलायेत्येवोत्तरम् ' विदुषां नोत्तरं वाच्यमिति प्राभाकरगुरूक्तेः । इत्यलमेतेन ।

केनोपनिषदितस्यै तपो दमः कर्मेति प्रतिष्ठा " इत्युक्त्वा " वेदाः सर्वांङ्गानि सत्यमायतन " मितिं वाक्येन विद्यायतनं = विद्यास्थानं प्रमाण- शास्त्रं वर्णितम् । तत्र आथर्वणोपनिषदि वेदानां वेदाङ्गानां चापराविद्यात्वं वर्ण- यित्वा सत्यशब्दबोध्यस्य ' अथ परे 'ति परविद्याशब्देनोल्लेखं विधाय " परोक्ष्य लोकान् कर्मचिता " नित्यादिना ब्रह्मविद्याऽधिकारिणं च वर्णयित्वा ' तस्मा अधिकारिणे गुरुणा तत्त्वतः ब्रह्मविद्या प्रोक्ते " ति वर्णितम् । श्रीमदानन्दतीर्थभगवत्पादप्रभृतिभिः सर्वैरपि भाष्यकारैः ब्रह्ममीमांसाध्ययनाधिकारिस्वरूपप्रदर्शनाय ' परीक्ष्य लोकान् कर्मचिता ' निति श्रुतिरेवोपन्यस्ता । अत एतद्वाक्योपदर्शितोऽधिकारी ब्रह्ममीमांसाध्ययनाधिकारी एव विवक्षितः । तस्मै प्रोक्ता ब्रह्मविद्या ब्रह्ममीमांसाशास्त्ररूपैव । ' तत्त्वत' इति विशेषणेन तस्याः अपकर्षाऽनधिकरणविद्यात्वरूपं परत्वमेव बोध्यते । अतएव तस्या: " येनाक्षरं पुरुषं वेद सत्य " मिति सत्यशब्देनोल्लेख इति कथनमपि नाप्रासङ्गिकम् । सत्यशब्दार्थत्वं च ब्रह्ममीमांसायाः

निर्णीयते यतः सम्यगिदं सत्यमिति स्फुटम् ।

श्रुतिस्मृत्युदितं सर्वं व्यक्तं मीमांसयैतया ॥

सत्यमित्युच्यते तस्मान्मीमांसा ब्रह्मनिश्चया " इति शब्दनिर्णयवचनेन समर्थितं भाष्यकारैः । एतेन

" सत्यं सत्यं पुनः सत्यमुद्धृत्यभुजमुच्यते ॥

वेदशास्त्रात्परं नास्ति न दैवं केशवात्परम् ॥

इत्यादिवचनान्यपि व्याख्यातानि । तत्र वेदशास्त्रशब्दः षष्ठीतत्पुरुषरूपः । अन्यथा शास्त्रशब्दवैय्यर्थ्यं स्यात् । वेदशब्देन च परमात्मप्रतिपादकसकलानिर्णेयग्रन्यजातमुच्यते । षष्ठी । निर्णायकत्वरूपसम्बन्धमाचष्टे । तेन वेदपुराणेतिहाससकलप्रन्थार्थ- निर्णायकं ब्रह्ममीमांसाशास्त्रं वेदशास्त्रशब्देन प्रतिपाद्यते । तस्यैव सकलशास्त्रोत्तमत्वम् । परं नास्तीत्यनेन उत्तमशास्त्रनिषेधद्वारा तदुत्तमत्वं बोध्यते इति ।

अतः ब्रह्मसूत्राणां प्रतीयमानार्थभिन्नार्थपरत्वकल्पनं वेद विरुद्धं वेदव्यासवि- रुद्धं च । तत एव वेद-वेदव्यासमतविरुद्धं सूत्रभाष्यं हेयमिति प्रदर्शयितुमेव श्रुत्यादिसिद्धं ब्रह्मसूत्राणां परविद्यात्वं प्रथमत उपपादित--मनुव्याख्यान-सुधा-त- ट्टिप्पण्यादाविति परमार्थः ।

इति परापरविद्यानिर्णयः तत्प्रयोजनं च ।