अद्वैतिनां जगन्मिथ्यात्ववादभङ्गः

अद्वैतिनां जगन्मिथ्यात्ववादभङ्गः

व्यावहारिकप्रातिभासिकयोः अविशेषसमर्थनम् । श्रीसत्यध्यानपूज्यपादमतोपन्यासः । मिथ्यात्वविचारः । मायावादिनः प्रतिवादिनस्त्रिविधाः । अद्वैतमहाचार्याणां परस्परविरोधोद्घाटनम् अद्वैतिनाम्' अपसिद्धान्तदोषकथनम् । संक्षेपशारीरकमतम् । पदार्थतत्वनिर्णयकारमतम् । सिद्धान्तमुक्तावलीकारमतम् । तत्त्वविवेककारमतम् । दृष्टिसृष्टिवादमतम् ।सुरेश्वराचार्यमतम् । परिमलकारमतम् ।

……………………………………………………………………………………………………………………………………………………………

अनित्यत्वमेव मिथ्यात्वमित्युक्तं स्यात्

तैस्तैर्वादिभिर्मानाधीनामेयसिद्धिरित्यङ्गीकृतत्वात् स्वस्वसिद्धान्तेषु प्रामाणिकत्वाभिमानो युज्यते । अद्वैतिनस्तु प्रामाणिकतमं श्रुतिस्मृतीतिहासपुराणादिषु सप्रपञ्चं वर्णितं योगिप्रत्यक्षाद्यबाधितप्रमाणैः निरन्तरं प्रमितमर्थक्रियासमर्थनमन्तानवधिककल्याणगुणोन्नद्धं सृष्ट्याद्यष्टकर्तृत्वोपेतं परमात्स्वरूमपलपन्ति । तथा तादृशमहिमोपेतेन भगवता जीवानां विमोचनाय प्रतिकल्पं सृज्यमानं महदहंकारादिकं ब्रह्माण्डं तदन्तर्गतमहीमहीधरादिकं मिथ्येति जल्पन्ति । रामायणमहाभारतादिग्रन्यैः प्रतिपादितं रामकृष्णादीनां लोकोत्तरं चरितं निवृत्ततर्षैस्त्यक्तसर्वस्वैरपि अत्यादरेण अनवरतं गीयमानं सर्वमपि मृषेत्यभ्युपगच्छन्ति । एवमेव बहुवित्तव्ययायासादिसाधनसम्भारसंपाद्यकर्मकलापस्य, ज्ञानादिसाधनस्य, स्वर्गापवर्गफलजातस्य, पापकर्मफलीभूतस्य नानाविधनरकादिदुःखभोगस्य च परमार्थसत्यत्वाभावं समर्थयन्ति । क्षुत्पिपासानिवर्तनसमर्थं प्रत्यक्षादिप्रमाणप्रमितं क्षुत्पिपासानिवृत्त्यर्थं प्रत्यहं प्रतिक्षणं यावज्जीवमुपयुज्यमानमन्नोदकादिकमर्थजातं नैव जातमिति मन्यन्ते । तत्प्रतिपादकप्रमाणानि अपि अतत्त्वावेदकत्वात् अप्रमाणानि इति उररीकुर्वन्ति । कर्तृत्वभोक्तृत्वसत्त्वादिसकलधर्मविकलं तत एव अर्थक्रियासामर्थ्यशून्यं वेदादिप्रमाणेन कदापि कथमप्यवेद्यं यत् तदेव किल पारमार्थिक वस्तुतत्त्वमिति हि मायावादिनामुद्घोषः । तदेतसर्वमुन्मत्तप्रलापसहोदरमिति स्पष्टं ज्ञायते । ननु सत्तात्रैविध्यवादिनस्तस्य मते व्यावहारिकी सत्ता प्रपचे अस्त्येव; पारमार्थिकी परब्रह्मण्येव शुक्त्यादौ तु प्रातिभासिकी। अतो नोक्तदोष इति चेत्सत्तात्रैविध्ये अङ्गीकृतेऽपि दोषतादवस्थ्यात् । तथाहि व्यावहारिकप्राति-भासिकशब्दाभ्यां व्यवहारादिविषयत्वमात्रमुच्यते अन्यद्वा । आद्ये व्यावहारिकत्वमभिधेयत्वरूपकं स्यात् । तच्च केवलान्वयित्वात् अद्वितीयादिव्यवहारविषये चिन्मात्रे, शुक्तिरूप्येप्यस्ति । द्वितीये प्रतिभासविषयत्वं नाम ज्ञेयत्वान्नान्यत् । तदपि केवलान्वयित्वात् सर्वत्र वर्तते इति वृथा विभागकल्पनम् । ननु अबाध्यत्वं पारमार्थिकत्वं तत् ब्रह्मण्येव, बाध्यत्वं व्यावहारिकत्वं तच्च प्रपञ्चे वर्तते इति चेन्न बाध्यत्वं त्रैकालिकनिषेधप्रतियोगित्वमिति हि तन्मतम् । तथा च सर्वदेशीयत्रैकालिकनिषेधप्रतियोगिनि भोजनादौ प्रवृत्त्याद्ययोगापातात् शुक्तिरजतस्यापि बाध्यत्वेन अवान्तरभेदोऽनर्थकः । अतोऽधिकस्य असत्त्वस्य शशशृङ्गेऽप्यभावेन तद्वदसत्त्वापाताच्च । ननु जगत् ब्रह्मज्ञानबाध्यं शुक्तिरजतादिकं च तदन्यज्ञानबाध्यमितिचेत्, तावता किमायातम् । फले विशेषाभावात् । तच्चोक्तं ' व्याघ्रेणोरणे नीते का हानिर्वृकेण नीते को लाभ इति । तदव्यहारकाले तत्सत्त्वं व्यावहारिकत्वमित्यभ्युपगम्यते इति न साधु । ब्रह्मव्यवहारकाले तत्सत्तायाः सद्भावात् ब्रह्मणोऽपि व्यावहारिकत्वं स्यात् । तेन शुक्तिरजतादीनामपि सत्तायाः स्वीकारात् तेषामपि व्यावहारिकत्वं स्यात् । व्यावहारिकेषु पदार्थेषु विद्यमानं भयकम्पादिजनकत्वरूपमर्थक्रियाकारित्वं प्रातिभासिकेषु विद्यते एव । ननु आपणरजतकार्यकरत्वं तत्र नास्तीति चेत् तावता किम् । जलविशेषे क्वथिता आढक्यः विक्लित्तिमत्यो भवन्ति, जलान्तरे कथितास्तु तथा न भवन्तीत्येतावता जलान्तरस्य अजलत्वं भवति अपूपादिनानाविधभक्ष्यविशेषाः गोधूमविशेषैः कर्तुं शक्यन्ते न शक्यन्ते च अन्यैरिति अन्येषां गोधूमानां गोधूमत्वानाक्रान्तत्वं भवति । एवं शुक्तिरजतादेरपि स्वस्वोचितार्थक्रियाकारित्वेन व्यावहारिकतैव स्यात् । नन्वर्थक्रियाकारित्वादेव ब्रह्मभिन्नं सर्वं मिथ्या, तदभावादेव ब्रह्मैव परमार्थः इति चेत्, ; शशविषाणस्यापि ब्रह्मतुल्यत्वेन पारमार्थिकत्वापातात् । अत एव श्रीसत्यध्यानपूज्यपादैः अखण्डब्रह्मशशविषाणयोर्न लेशतोपि वैलक्षण्यमिति डिण्डिमनादः प्रसारितः । किंञ्च सर्वमारोपितं तत्तदधिष्ठानज्ञानबाध्यमिति सर्वैरङ्गीकार्यम् । ब्रह्मण्यध्यस्तं ब्रह्मज्ञानबाध्यं भवतु । तदितरत्र अध्यस्तं तत्तदधिष्ठानज्ञान बाध्यं भवतु । तावता न हि एकं व्यवहारिकमपरं प्रातिभासिकं भवितुमर्हति । अवान्तरवैजात्यस्य कल्पकाभावात् । न कोऽपि रज्जुमालाबलीवर्दमूत्रादावारोपितसर्पाणां तत्तदधिष्ठानज्ञानानिवर्त्यानामवान्तरभेदमङगीकरोति । ननु मिथ्यात्वं नाम न सार्वत्रिकात्यन्ताभावप्रतियोगित्वं, किन्तु ब्रह्मज्ञानबाध्यत्वमेव । ब्रह्मज्ञानोत्पत्तिपर्यन्तं तदनुवृत्तेः सर्वमर्थक्रियाकारित्वञ्चोपपद्यते एवेति चेत्, बहुकालाल्पकालावस्थानमात्रेण शुक्त्यादेः शुक्तिरूप्यादेश्च वैलक्षण्यायोगात् । आकाशे तलनैल्यादिज्ञानस्य छत्रकारत्वज्ञानस्य चन्द्रप्रादेशतामतेश्च प्रामाण्यं तथात्वे स्यात् दीर्घकालावस्थायित्वात् तेषाम् । शुक्त्यादावप्येवमवान्तरभेदस्वीकारापत्तेश्च । किञ्च ब्रह्मज्ञानवाध्यत्वं शुक्तिरूप्यादौ नास्ति इति मिथ्यालक्षणस्य अव्याप्तेः ज्ञाननिवर्त्यत्वमात्रं मिथ्यात्वमिति वक्तव्यम् ।

ततश्च ज्ञानपदं व्यर्थं स्थात् । व्यावर्त्यस्य अप्रसिद्धेः न हि ब्रह्मान्यत् किञ्चित् ज्ञानान्यनिवर्त्यं त्वन्मते संभवति । तथा चेत्तत्रैव अव्याप्तेः । तस्य लक्ष्यत्वं नाङ्गीक्रियते चेत् सदद्वैतभङ्गापत्तिः । उत्तरज्ञाननिवर्त्यपूर्वज्ञानादौ अतिव्याप्तेश्च ।

मुद्गरपातादिनिवर्त्ये च घटादावव्याप्तेश्चाज्ञानत्वेन ज्ञाननिवर्त्यत्वविवक्षायामप्ययं दोषः । अधिष्ठासाक्षात्कारत्वेन निवर्त्ये शुक्तिरजतादौ च ज्ञानत्वेन ज्ञाननिवर्त्यत्वाभावात् साध्यविकलता । ज्ञानत्वव्याप्यधर्मेण ज्ञाननिवर्त्यत्वविवक्षायां ज्ञानत्वव्याप्येन स्मृतित्वेन ज्ञाननिवर्त्ये संस्कारे अतिव्याप्तिः । न च संस्कारादेर्न स्मृतित्वेन स्मृतिनिवर्त्यता, किंतु योग्योत्तरात्मविशेषगुणत्वेन, अन्यथा इच्छादेः संस्काराद्यनिवर्तकत्वापत्तेः इति वाच्यम्; एवमपीच्छाद्यनिवर्त्यस्मृतिमात्रनिवर्त्ये संस्कारे अतिव्याप्त्यनिवारणात्, इच्छाऽनिवर्त्यसंस्कारस्थले संस्कारस्य इव तन्निवर्त्यसंस्कारस्थलेऽपि तस्य सत्त्वावश्यंभावेन तत्र अतिव्याप्तितादवस्थ्याच्च । न च अनुभवत्वव्याप्यधर्मेण तन्निवर्त्यत्वं विवक्षितम्, स्मृतौ च अनुभवत्वव्याप्यधर्मस्य अभावात् न तन्निवर्त्यसंस्कारातिव्याप्तिः इति वाच्यम्; यत्र प्रमोत्तरमुत्पन्नस्य भ्रमस्य प्रमाजन्यस्मृतिप्रर्यन्तं बाधो न जातः, प्रथमप्रमाजनितस्मृतिविषयबाधश्च दृश्यतें तत्राव्याप्तेः । न च भ्रमोत्तरप्रमानिवर्त्यत्वं विवक्षितम् प्रमात्वं च यथार्थज्ञानत्वमेव; न त्वनधिगतत्वगर्भं येन यथार्थस्मृतिविषये अव्याप्तितादवस्थ्यं स्यादिति वाच्यम् । तत्त्वज्ञानसंस्कारनिवर्त्याज्ञानसंस्कारेऽव्याप्तेः । न च अज्ञानसंस्कारस्यापि तत्त्वज्ञाननिवर्त्यत्वमेव स्वीक्रियते अतो न तत्र अव्याप्तिरिति वाच्यम् । अज्ञानस्य इव अज्ञानसंस्कारस्य अज्ञानत्वाभावेन ज्ञाननिवर्त्यत्वानुपपत्तेः । ज्ञानाज्ञानयोरेव निवर्त्यनिवर्तकभावसत्त्वात् । न च अज्ञानसंस्कारस्याप्यज्ञानोपादनतया तत्त्वज्ञानेन स्वोपादानाज्ञाननिवृतौ स्वस्यापि तद्वारा तन्निवर्त्यत्वमविकलमिति वाच्यम् । अज्ञानसंस्कारनिवृत्तौ कर्तव्यायां अज्ञाननिवृत्तेस्तत्त्वज्ञानत्वे मानाभावत् । न च स्वोपादानाज्ञाननिवर्तकज्ञाननिवर्त्यत्वं विवक्षितम्;अतो न संस्कारादावव्याप्तिरिति वाच्यम् । अज्ञानादेरनादेर्योऽध्यासंस्तत्र चोपादानासंभवेन अव्याप्तेः । लाघवेन अज्ञानोपादानकत्वे तस्यैव लक्षणत्वापाताच्च । स्यादेतत्-ज्ञानप्रयुक्तावस्थितिसामान्यविरहप्रतियोगित्वमत्र ज्ञाननिवर्त्यत्वं विवक्षितम् अवस्थितिश्च द्वेधास्वरूपेण, कारणात्मना च । तथा च मुद्गरपातेन घटस्य स्वरूपेण अवस्थितिविरहेऽपि कारणात्मना अवस्थितिविरहाभावात् ब्रह्मज्ञानप्रयुक्त एव स इति नातीतघटादावव्याप्तिः । अत एव उत्तरज्ञाननिवर्त्ये पूर्वज्ञाने न सिद्धसाधनम् । न वा वियदादौ ब्रह्मज्ञाननाश्यत्वेऽपि तद्वदेव मिथ्यात्वासिद्धया अर्थान्तरम् इति चेन्न । यदुक्तं ज्ञानप्रयुक्तावस्थितिसामान्यविरहप्रतियोगित्वं ज्ञाननिवर्त्यत्वमिति तत्र अवस्थितिसामान्यं वा विशेष्यते विरहो वा आद्ये अवस्थितिसामान्यं कारणात्मना अवस्थितिः कारणमिति यावत् । ज्ञानप्रयुक्तव्यतिरेकप्रतियोगिकारणकत्वमित्यर्थः स्यात् । तत्र चोत्तर-ज्ञानप्रयुक्तव्यतिरेकप्रतियोगिपूर्वज्ञानजन्यसंस्कारादौ सिद्धसाधनम्। अनाद्यविद्यादौ च बाधः । कारणशब्देन च अविद्योक्तौ च अविद्याकारणकत्वमेव स्यात् शेषवैय्यर्थ्यात् । अनाद्यविद्यादौ बाधश्च । न द्वितीयः, घटाद्यवस्थितिसामान्यविरहस्य ज्ञानप्रयुक्तत्वं न संभवति । विनष्टघटाद्यवस्थितिविशेषद्वयविरहद्वयस्य ज्ञानप्रयुक्तत्वाभावात् । स्वरूपेण अवस्थितिविरहस्य ज्ञानयुप्रक्तत्वाभावात् विशेषाभावातिरिक्तसामान्याभावस्य त्वया अनङ्गीकाराच्च । ज्ञानप्रयुक्तविरहाप्रतियोग्यवस्थायामवस्थात्वस्य अतिप्रसङ्गेन प्रतियोगितानवच्छेदकत्वाच्च । शुक्तिरजतादेरवस्थित्यङ्गीकारे स्वरूपेण निषेधोक्त्ययोगाच्च । रूप्यादेः स्वरूपेणैव निषेध इति त्वदभ्युगतपक्षे रूप्यादेरत्यन्तासत्त्वस्य आपादितत्वेन रूप्याद्यभावोऽपि शशविषाणाद्यभाव इव ज्ञानाप्रयुक्त इति दृष्टान्तस्य साध्यवैकल्यमेव । पक्षे बाधश्च । यच्चोक्तं ज्ञानत्वव्याप्येत्यादि तदपि न; तव मते मननत्वादिना ज्ञानत्वव्याप्यधर्मेण मनननिवर्त्ये अर्थगतसंशयविशेषे अतिव्याप्तेः । तादृशसंशयः निवर्तकत्वेनैव मननस्य सप्रयोजनत्वोक्तेश्च । एतदुपरि लघुचन्द्रिकादिषु कृता अद्वैतसिद्धिमण्डनाभासाः न्यायामृतमाधुरी-न्यायामृतसौरभ-न्यायामृतसौगन्ध्य-द्वैतधुमण्यादौ साकल्येन पूर्वमेव निरस्ताः । ग्रन्थविस्तरभयात् तदनुवादः नेह प्रतन्यते ।

तस्मात् प्रसक्तानुप्रसक्तविवेकेन अनित्यत्वमेव मिथ्यात्वमित्युक्तं स्यात् । ततश्च सिद्धसाधनमंशे बाधश्च बाधेताम् अपसिद्धान्तश्च स्यात्

किंच मायावादिप्रतिवादिनस्त्रिविधाः श्रुतिस्मृत्यादिबलेन पदार्थव्यवस्थापकाः वैदिका; प्राधान्येन हेतुमवलम्ब्य तथा कुर्वाणाः कणादाक्षपादादयो हैतुकाः प्रत्यक्षैकशरणाः चार्वाकादयः पाखण्डाश्चेति । तैः सत्यस्यापि प्रपञ्चस्य विनाशित्वमङ्गीकृतमिति तैः सह तेषां विप्रतिपत्तिश्च न स्यात् । अपि च तद्दर्शनाचार्यैः-

" तत्त्वमस्यादिवाक्यार्थसम्यग्धीजन्ममात्रतः ।

अविद्यासहकार्येण नासीदस्ति भविष्यति

इत्यादिना त्रैकालिकनिषेधप्रतियोगित्वरूपस्यैव मिथ्यात्वस्य अङ्गीकारात् अपसिद्धान्तो दुष्परिहरः । ननु अन्यैः ब्रह्मातिरिक्तानां गगनादीनां कतिपयपदार्थानां नित्यता स्वीकृता । मिथ्यावादिना च आत्मान्यत्वावच्छेदेन तदनित्यता साध्यते । अतो न विप्रतिपत्त्यनुपपत्तिः इति चेत् यो हि आत्मान्यत्वावच्छेदेन नित्यतां ब्रूयात् तं प्रति एतादृशं साध्यस्य साधनीयत्वात् । ननु एवं कथं पृथिवी इतरेभ्यों भिद्यते पृथिवीत्वादिति केवलव्यतिरेकिणः प्रवृत्तिः । तत्रापि घटादिषु इतर भेदस्य प्रत्यक्षतः सिद्धत्वेऽपि पृथिवीत्वाच्छिन्ने तदभावात् न सिद्धसाधनं साध्याप्रसिद्धिर्वेति उपपादितं तार्किकैः । तत्खण्डनस्याप्येवं कर्तुं शक्यत्वात् इति चेत् अनेन स्वपक्षसमर्थनस्य वा तदाक्षेपनिरसनस्य वा अकरणात् । न हि पराङ्गदग्धमिति स्वाङ्गदाहदुःखं कदापि विनिवर्तते । अत एव च प्रेक्षावन्तः विमतिविषयतावच्छेदकमसत्प्रातिभासिकान्यत्वे सति ब्रह्मान्यत्वादिकं बाधसिद्धसाधनादिदोषपरिहाराय पक्षतावच्छेदकमाहुः । किञ्च ब्रह्मान्यत्वावच्छेदेन ज्ञानविनाश्यत्वसाधनं मुद्गरप्रहारादिना नाशितेषु घटेषु साध्याभावनिश्चयादंशे बाधितं चेति यत्किश्चिदेतत् ।

इति जगन्मिथ्यात्ववादभङ्गः ।