स्वरूपाभेदवादे परेव्यये सर्व एकीभवन्तीति च्विप्रत्ययायोगः
अद्वैतमते "परे व्यये सर्व एकीभवन्ति" इति च्विप्रत्ययानुपपतिसमर्थनम्
स्वरूपाभेदवादे परेव्यये सर्व एकीभवन्तीति च्विप्रत्ययायोगः
। यच्चोक्तम् “ स्वरूपैक्यं हि अद्वैताभिमतमौपाधिकभेदानिवृत्युपलक्षितसंविन्मात्रत्वम् न तु द्वयोरैक्यम्, तत्र संविन्मात्रस्य नित्यसिद्धत्वेऽपि तदुपलक्षणोपाधिकभेदनिवृत्तेरखण्डाकारसाक्षात्कारात्पूर्वमसिद्धत्वात् तदनन्तरमेव सिद्धत्वाच्च नाभूततद्भाभावार्थच्चिप्रत्ययायोगः” इति तदयुक्तम्, स्वरूपैक्यमित्यस्य जीवस्वरूपेश्वरस्वरूपयोरैक्यमित्येवाक्षरलभ्योऽर्थः प्रतियोग्यनुयोगिसापेक्षत्वनियमादैक्यस्य, तथा च संविन्मात्रत्वमित्यादेरयमेवार्थो वाच्यः; सति चैवं नतु द्वयोरैक्यमितिकथनमसङ्गतम् । किंच भेदनिवृत्त्युपलक्षितत्वं हि पूर्वोपदर्शितरीत्या त्वन्मते साक्षात्परम्परया वा भेदानिवृत्तिज्ञाप्यभेदवत्त्वमेव । तथा च भिन्नसंविन्मात्रत्वमित्यर्थः स्यात्; स च सर्वाद्वैतवादेऽनिष्ट एव । अपि च अत्र भेदनिवृत्तिः न भेदध्वंसः त्वन्मते भेदस्य मिथ्यात्वात्, किन्तु त्रैकालिकनिषेधरूपोऽत्यन्ताभाव एव तस्य चाखण्डसाक्षात्कारात्पूर्वमपि सिद्धत्वेन अभूततद्भावार्थकच्चिप्रत्ययायोगस्तदवस्थ एव, महाकाशादयो महाकाशीभवन्ती- त्यादिदृष्टान्तप्रदर्शनमत्यन्तायुक्तम्; केनाऽप्यभ्रान्तेन महाकाशो महाकाशीभवतीत्यप्रयोगात् । बद्धो मुक्तीभवतीति प्रयोगस्तु ये बन्धस्य सत्यत्वं मन्यन्ते अत एव बन्धध्वंसं च स्वीकुर्वन्ति तन्मते ईश्वरसाक्षात्कारात्पूर्वं बन्धध्वंसाभावात् युज्यते ।
अद्वैतमते बन्धस्य मिथ्यात्वेन बन्धात्यन्ताभावस्य नित्यसिद्धत्वात् एकीभवन्तीति दार्ष्ट्रान्तिक इव च्विप्रत्ययायोगः स्फुट एव । वस्तुतस्तु " कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकीभवन्ति " इत्यत्र कर्मादीनां जडानां विज्ञानमयात्मनां च ब्रह्मणा मुख्यैक्यस्याद्वैतमते कथमप्यसम्भवेन गौणैक्यपरत्वमेव वर्णनीयामिति ध्येयम् ।
। इति अद्वैतमते सर्व एकीभवन्तीति च्विप्रत्ययायोगसमर्थनम् ।