अद्वैतमते निर्दुष्टदृश्यत्वनिर्वचनासम्भवः
प्रपंचमिथ्यात्वानुमाने दृश्यत्वहेतोर्निर्दुष्टनिर्वचनासंभवसमर्थनम्
अद्वैतमते निर्दुष्टदृश्यत्वनिर्वचनासम्भवः
यच्चोक्तम्-“ यंत्र दृक्तादात्म्यस्य निर्दुष्टस्य दृश्यत्वम् ” इति तदसङ्गतमेव । दृक्तादात्म्यस्य दृश्यत्वकथनेन दृश्यत्वं किं रूपमिति शङ्काया अनिवारणात् । कथंचित् दृक्तादात्म्यस्य दृश्यत्वरूपत्वमिति तात्पर्य कल्पनेऽपि तस्य निर्दुष्टत्वासम्भवात् दृक्तादात्म्यं हि दृगध्यस्तत्वमेव । तच्च दृगधिष्ठानकभ्रमविषयत्वं; त्वन्मते पुनः भ्रमविषयत्वं, भ्रमाध्यस्तत्वम् । तच्च भ्रमाधिष्ठानकभ्रमविषयत्वमित्यनवस्थादुष्टत्वात् एवंविधदृश्यत्वस्य । किञ्च आत्मा वा रे द्रष्टव्यः " इत्यत्र दर्शनविषयत्वं ब्रह्मणो बोध्यते । तच्च दर्शनाध्यस्तत्वमेव वक्तव्यम् । अन्यस्य विषयत्वस्य त्वयाऽ नङ्गीकारात्; तथा च ब्रह्मणोऽपि मिथ्यात्वापत्तिः । ब्रह्मणि दृश्यत्वस्य व्यभिचारो वा स्यात् । यदि च ब्रह्मणः दृग्विषयत्वं नाध्यस्तत्वरूपं किन्तु विषयत्वमखण्डधर्म इति स्वीक्रियते तदा जगतोऽपि अध्यस्तत्वातिरिक्तेन विषयत्वेनैव दृश्यत्वव्यवहारोपपत्तौ कुतो दृगध्यस्तत्वं कुतस्तरां तेन मिथ्यात्वमिति सुधियो विभावयन्तु । किञ्च तत्र तत्र मिथ्यात्वस्य सत्तादात्म्ये पर्यवसानाभिधानात् सत्तादात्म्ये दृक्तादात्म्ये च सदेव सौम्येति श्रुतेरेव प्रमाणतयोपन्यासाच्च तयोरविशष्टत्वेन हेतुसाध्या वैशिष्ट्यमेवेति दिक् ।
। इति अद्वैतमते दृश्यत्वनिरुक्त्त्यसम्भवः ।