अद्वैतमतेऽपि प्रत्यक्षस्यागमबाधकत्वम्

अद्वैतमतेऽपि प्रत्यक्षस्याद्वैतागमबाधकत्वान्गीकारसमर्थनं

अद्वैतमतेऽपि प्रत्यक्षस्यागमबाधकत्वम्  

यजमानःप्रस्तरः ” “ आदित्यो यूपः " इत्यादिवेदवाक्यानां प्रत्यक्षविरोधेन अर्थान्तरपरत्वरूपबाधः जैमिनितन्त्रप्रदर्शितः सर्वतन्त्रसम्मतश्च ।ननु यजमानः प्रस्तर " इत्यादिवाक्यानामन्यशेषत्वादमुख्यार्थत्वेऽपि तत्त्वमस्यादिवाक्यानामनन्यशेषत्वान्नामुख्यार्थत्वमितिचेन्न । यतः अन्यशेषत्वं नामुख्यार्थत्वे प्रयोजकम् न वा अनन्यशेषत्वं मुख्यार्थत्वे प्रयोजकम्, "सोमन यजेते "त्यस्य अनन्यशेषत्वेऽपि सोमविशिष्टयागरूपामुख्यार्थबोधकत्वस्य पूर्वमीमांसायां साधितत्वात् । किन्तु मानान्तराविरुद्धत्वमेव मुख्यार्थतायां प्रधानं प्रयोजकम् । तथा च प्रकृते अन्यशेषत्वाऽनन्यशेषत्वविचारोऽनवसरग्रस्त एव ।

तत्र तात्पर्यविषयभूतार्थबोधकत्वं मुख्यार्थत्वं न शक्यार्थबोधकत्व- मित्यादिकथनं तु भावाऽनवबोधविलसितम् । प्रमाणान्तराविरुद्धार्थ एव हि प्रमाणानां तात्पर्यमुपक्रमादयः निश्चाययन्ति न तु प्रमाणान्तरविरुद्धे । अत एव यजमानः प्रस्तर इत्यत्र किं प्रस्तरयजमानाभेदे तात्पर्यं उत प्रस्तरयजमान कार्यकार्यभेदे इति विचारे प्रत्यक्षप्रमाणविरुद्धत्वादेव न प्रस्तरयजमानाभेदे तात्पर्यं किन्नाम प्रत्यक्षाविरुद्धे अर्थान्तर एव अतएव तात्पर्यानुपपत्त्या यजमानपदस्य यजमान कार्यकारिणि लक्षणाङ्गीकार इति तत्त्वम् । अत एव शङ्कराचार्यैः " प्रत्यक्षादिविरोधः स्यादित्यैक्यं तयोः परित्यक्ते " इत्यादिना प्रत्यक्षविरोधादेवसर्वज्ञत्वविशिष्टाल्पज्ञत्वविशिष्टैक्ये तत्त्वमस्यादिवाक्यानां तात्पर्यपरित्याग उक्तः । यच्चोक्तम् अ० सुधायाम् देहात्मप्रत्यक्षस्याप्यागमबाधकत्वापत्त्या न प्रत्यक्षस्यागमबाधकत्व " मिति तदयुक्तम् देहात्मप्रत्यक्षस्य मम देह इति प्रबलप्रत्यक्ष- बाधितत्वेनाप्रामाण्यज्ञानास्कन्दिततया आगमबाधकत्वाऽसम्भवेऽपि परीक्षितप्रत्यक्षस्यागमबाधकत्वाऽवश्यम्भावात् । एतदभिप्रायेणैव नाहं सर्वज्ञ इत्यादि परीक्षितप्रबलप्रत्यक्ष विरोधात्तत्त्वमसीत्यादिवाक्यानां सर्वज्ञत्वविशिष्टाल्पज्ञत्वविशिष्टैक्यतात्पर्यकत्वपरित्यागः शङ्कराचार्यैः कृतः इत्यलम् ।

इति अद्वैतमतेऽपि प्रत्यक्षस्यागमबाधकत्वसमर्थनम् ।