व्यासप्रणीतस्य ब्रह्मतर्कस्यापि वेदाङ्गत्वम्
व्यासप्रणीतब्रह्मतर्कस्य वेदाङ्गत्वसमर्थनम्
व्यासप्रणीतस्य ब्रह्मतर्कस्यापि वेदाङ्गत्वम्
यदुक्तं "वेदाङ्गेषु शिक्षादीनां षण्णामेवान्तर्भावः न ब्रह्मतर्कस्य (न्तापि ) । इति तदपि हेयम् ।
" पुराणन्यायमीमांसा धर्मशास्त्राङ्गमिश्रिताः ।
वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥ "
इति चतुर्दशविद्यास्थानान्युक्तानि तत्र विद्याशब्दस्य ज्ञानबोधकत्वेन स्थानशब्दस्य निग्रहस्थानमित्यत्रेव हेतुबोधकत्वेन विद्यास्थानानीत्यस्य ज्ञानसाधनार्थकत्वात् ज्ञानसाधनानि चतुर्दशसंख्याकानीति लभ्यते तेषामेव ज्ञानसाधनानां धर्मस्थानत्वमप्यनेनैव वाक्येनोच्यते तदा तु स्थानपदस्य शास्त्रयोनित्वादित्यत्र योनिपदस्येव प्रमासाधनबोधकत्वं मन्तव्यम् । एवंविधव्यवस्थास्वीकार एव " वेदप्रणिहितो धर्मः " " वेदोऽखिलो धर्ममूलं " " चोदनालक्षणोऽर्थो धर्म " इत्यादिवाक्यान्युपपद्यन्ते । तत्र केनोपनिषदि चतुदर्शविद्यास्थानानां" वेदाः सर्वाङ्गानि सत्यमायतनम् ” इति त्रिष्वन्तर्भाव उक्तः । तत्र वेदपदेन चतुर्णाम् सत्यपदेन मीमांसायाः अङ्गपदेन शिक्षादिषडङ्गानां ग्रहणे आहत्य एकादशविद्यायतनानामेव ग्रहणं स्यात् । सर्वांगानीत्यत्र सर्वपदवैय्यर्थ्यं च स्यात् । अतः अङ्गपदेन उपाङ्गान्यपि ग्राह्याणि इत्यभिप्रायेण शंकराचार्यैः सर्वसिद्धान्तसग्रहे
मीमांसान्यायशास्त्रं च पुराणं स्मृतिरित्यपि ।
चत्वार्येतान्युपाङ्गानि बहिरङ्गानि तानि वै ॥
चतुर्दशसु विद्यासु मीमांसैव गरीयसी "
इत्यादि वाक्यैः पुराणादीनामुपाङ्गत्वमुपदर्शितम् । चरणव्यूहे च न्यायशास्त्रादीनामुपाङ्गत्वमुक्तम् । एवंचाङ्गशब्देन पुराणन्याययोर्ग्रहणसिद्धौ वाकोवाक्यमिति छान्दोग्योपनिषत्प्रदर्शितं तर्कशास्त्रं व्यासप्रणीतपुराणपदसमभिव्याहारात् व्यासप्रणीतमेवग्राह्यं न तु व्याससूत्रप्रतिषिद्धमक्षपादादिप्रणीतं न्यायशास्त्रम् । तच्च इतरस्यानुपलम्भात् सर्वज्ञाचार्य प्रदर्शितं ब्रह्मतर्कशास्त्रमेव ब्रह्ममीमांसानुकूलं नान्यत् बाधकाभावात् साधकसद्भावात् अबाधितार्थकत्वेन प्रामाण्याऽवश्यम्भावाच्चेति ।
। इति ब्रह्म तर्कस्यवेदाङ्गत्वसमर्थनम् ।