तमेवं विद्वानमृत इह भवति

ज्ञानस्येश्वरप्रसादद्वारैव मुक्तिहेतुत्वम् ।

मुक्तिस्तु अज्ञानतत्कार्यदुःखनिवृत्तिरूपा स्वरूपसुखानुभवरूपा नित्यलोकावाप्तिरूपा विष्ण्वाख्येश्वरापरोक्षज्ञानजन्यात्तत्प्रसादादेव भवति ।

न च "

"तमेवं विद्वानमृत इह भवति "

" नान्यः पन्था विद्यते अयनाय " इति " तमेवं विदित्वा अतिमृत्युमेति ", इत्यादौ मोक्षज्ञानयोरव्यवहितपूर्वापरीभावकथनात् नान्य इत्यवधारणेन ज्ञानातिरिक्तमोक्षसाधनीभूतस्य पथः निषिद्धत्वाच्च न प्रसादसापेक्षत्वं मोक्षस्येति वाच्यम् । " एष पन्था" इति श्रुतौ " तमेवैकं जानथ आत्मानमन्यावाचो विमुञ्चथ अमृतस्यैव सेतुः " इति श्रुतौ च ज्ञानविषयस्य आत्मनः मोक्षहेतुत्वोक्तेः " नान्य " इति श्रुतौ ज्ञानविषयात्परमात्मनोऽन्यः पन्था न विद्यते इत्यर्थोपपत्तेश्च । गीतायां " मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि " इति ' मच्चित्तः' इति भगवज्ज्ञानिनमुद्दिश्य " मत्प्रसादात्तरिष्यसी " ति भगवत्प्रसादार्धानाऽनर्थनिवृत्तिमत्वकथनात् ।

" तेषामहं समुद्धर्ता मृत्युसंसारसागरात्

भवामि न चिरात्पार्थ मय्यावेशितचेतसाम् " इति ज्ञानिनां मोक्षदातृत्वस्य श्रीकृष्णेन ' अहं समुद्धर्ता ' इत्यात्मन एव प्रोक्तत्वात् ।

" तत्प्रसादात्परां शान्ति स्थानं प्राप्स्यसि शाश्वतम् इति वाक्येन सकार्याविद्यानिवृत्तिरूपपरमशान्तेः मधुसूदनसरस्वतीप्रदर्शितायाः भगवत्प्रसादाधीनत्वोक्तेः । नित्यभगवल्लोकरूपशाश्वतस्थानप्राप्तिस्वरूपमुक्तेश्च भगवत्प्रसादाधीनत्वकथनात् " शान्ति निर्वाणपरमां मत्संस्थामधिगच्छति " सर्वसंसारनिवृत्तिरूपायाः मोक्षपर्यन्तायाः शान्त्याः भगवदधीनत्वोक्तेश्च त्वाप्रत्ययेन प्रारब्धकर्मभोगातिरिक्तव्यवधाननिषेधवत् उपदर्शितप्रमाणबलेन ईश्वरप्रसादातिरिक्तव्यवधानस्यैव निषेधोपपत्तेः ।

तथा च यथा " ददामि बुद्धियोगं तं येन मामुपयान्ति ते " इति कृष्णस्य ज्ञानदातृत्वमुक्तं तथा ' मुकुन्दः ' इति नाम्नैव मोक्षदातृत्वमुक्तम् । 'शान्तिद: ', ' सुखद: ' 'सुप्रसादः ' इति नामभिः अज्ञाननिवृत्तिरूपशान्तिप्रदत्वं, स्वरूपसुखानुभवप्रदातृत्वं तदपि प्रसादद्वारेति स्फुटीकृतम् ।

एवं स्थिते यदुक्तं " साक्षाद् बन्धनिवृत्तिद्वारा ज्ञानस्य मोक्षसाधनत्वं न त्वदृष्टविधया ईश्वरप्रसादद्वारा " इति ततुच्छतरम् । साक्षात् पदेन द्वारानपेक्षत्वमुक्त्वा बन्धनिवृत्तिद्वारामोक्षसाधनत्वकथनस्य व्याहतत्वात् । अद्वैतिभिःअविद्यास्तमयो मोक्षः " इत्युक्तत्वेन बन्धनिवृत्तेरेव मोक्षरूपतया तस्याः मोक्षद्वारत्वकथनायोगाच्च ।

किञ्च 'न त्वदृष्टविधये' ति वाक्यस्य न त्वदृष्टत्वेन रूपेणेत्यर्थो वाच्यः । अनुव्यवसायदृश्यस्य ज्ञानस्य न केऽप्यदृष्टत्वं वा अदृष्टत्वेन रूपेण कारणत्वं वा मन्यन्ते; येन तन्निषेधः प्रसक्तप्रतिषेधः स्यात् । अप्रसक्तप्रतिषेधः उन्मत्तप्रलापश्चेति प्रायोऽनर्थान्तरमेव । इत्थं चोपदर्शितप्रमाणैः ज्ञानस्य भगवत्प्रसादद्वारा सकार्या- विद्यानिवृत्तिरूपशान्तिहेतुत्वस्य निर्वाणहेतुत्वस्य चोक्तत्वात् नेश्वरप्रसादद्वारेत्यपि निरस्तम् ।

एतेन " यस्यप्रसादात्परमातिरूपादस्मात्संसारान्मुच्यते नापरेणे " ति प्रसादस्याज्ञाननिवृत्तिमोक्षोपयोगित्वं सत्यं प्रतिपादयति । तत्र प्रसादो नामा- वरणनिवृत्तिमात्रमित्यादीनि असुधावचनानि (१४२ ) परास्तानि । आवरण- निवृत्तेरज्ञान निवृत्त्यतिरिक्ताया अभावेनाज्ञाननिवृत्तिरूपमाक्षेप्रयोजकप्रसादस्यावरण निवृत्तिरूपत्वकथनायोगात् ।

यच्चाम्रेडितम् - " ईश्वरोऽप्यविद्योपधानेन प्राप्तात्मलाभोऽविद्योपहितः नित्यो- पाधिकत्वादीश्वरभावस्य सत्यंपीश्वरप्रसादे नाविद्योपाधिप्रयुक्तबन्धविनाशः । अविद्याया निवृत्तौ त्वीश्वरभावोऽपि तस्य निवर्तते इति कस्येच्छया कस्य बन्धः, कस्य वा मोक्षः। अतो ज्ञानस्यैवाज्ञाननिवृत्तिद्वारा मोक्षसाधनत्वं स्वकिर्तव्य "-मिति ( १४६--१४७) तत्तु नास्तिकानामवैदिकदार्शनिकानामेव गोष्ट्यां शोभते; न वैदिकास्तिकपरिषदि । यतः " उताऽनृतत्वस्येशान: " " अमृतस्यैष सेतुः " " तदा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम् " " मुक्तोपसृप्यव्यपदेशात् " 'मुक्तानां परमा गतिः' इत्यादिश्रुतिसूत्रवचनेषु ईश्वरस्य मुक्तनियामकत्वं मुक्तप्राप्यत्वं च प्रतिपाद्यते । मुक्तशब्दस्य च ' अविद्यारागद्वेषादिदोषमुक्ता' इत्यर्थः शंकराचार्यैरप्युक्तः । तथा चाविद्यादिदोषमुक्तैः प्राप्यत्वेन श्रुत्याद्युक्तस्येश्वरस्याविद्योपधानेन प्राप्तात्मलाभत्वमविद्यानिवृत्तौ निवर्तमानत्वं वा वक्तुं निस्त्रपो महोन्मत्तो वा प्रभवेन्नापरः ।

यदप्युक्तम्- " नचान्धकारनिवृत्तिः प्रदीपाधीना कस्यापि प्रसादमपेक्षते; येन ज्ञानमपि प्रसादद्वारैव मोक्षसाधनं स्या " दिति तदप्यनीश्वरवादिगोष्ठीनिष्ठं प्रलापमात्रम् । यतःपयोम्बुवच्चेत्तत्राऽपि " इति सूत्रे तद्भाष्ये चअचेतनं स्वभावेनैव पुरुषार्थसिद्धये प्रवतिष्यत इति नैतत्साधूच्यते । सर्वत्रैवेश्वरापेक्षत्वमापद्यमानं न पराणुद्यत " इति वचनेन प्रदीपस्यान्धकार निवर्तनशाक्तिः तमसः आवरणशक्तिश्वेश्वराधीनैव " योऽग्नौ तिष्ठन् " "यस्तेजसि तिष्ठन् " " यस्तमसि तिष्ठन् " इत्यादिना एतेषां वचनानामुपलक्षणत्वेन ज्ञाननिष्ठा अज्ञाननिवर्तनशक्ति : अज्ञाननिष्ठा आवरणशक्तिश्वेश्वराधीनैवेति ज्ञेयं वैदिकैरिति घोषयामः । अतः युक्तमुक्तम् " अज्ञानां ज्ञानदो विष्णुर्ज्ञानिनां मोक्षदश्च सः | आनन्ददश्च मुक्तानां स एवैको जनार्दन " इति ।

इति ज्ञानस्येश्वरप्रसादद्वारा मुक्तिहेतुत्वसमर्थनम् ।