ज्ञाननिवर्त्यस्य सत्यत्वाविरोधित्वसमर्थनम्
ज्ञाननिवर्त्यत्वस्य सत्यत्वविरोधित्वाभावसमर्थनम्
ज्ञाननिवर्त्यस्य सत्यत्वाविरोधित्वसमर्थनम्
अज्ञानस्य बन्धस्य च ज्ञाननिवर्त्यत्वकथनात् सत्यत्वसिद्धिः । तथा च अज्ञानं बन्धो वा सत्यः - सद्वैलक्षण्याभाववान् सत्त्वाभावाभाववान्-निवर्त्यत्वात् यत्र सत्यत्वाभावः-सद्वैलक्षण्यं--तत्र निवर्त्यत्वाभावः यथा शशविषाणे । न चासिद्धिः " तरति शोकमात्मवित् " इत्यादिश्रुत्या पक्षे हेतु सिद्धेः सर्वसम्प्रतिपन्नत्वात् । अत एव गौडपादप्रभृतिभिः जगतः उत्पत्तिनाशाङ्गीकारे सत्यत्वापत्तिभिया जगतः असत्त्वं सिद्धवत्कृत्वा असत्त्वेन उत्पत्तिनाशराहित्यं जगतोऽभिहितं शशविषाण-दृष्टान्तेन । ततश्च यथा शशविषाणस्य असत्त्वरूपमेव सद्विलक्षणत्वं न तु असद्विलक्षणत्वविशिष्टं सद्विलक्षणत्वं तथा जगतोऽपीत्यपि समर्थितम् । एतच्च गौड- पादकारिकातद्भाष्यप्रदर्शनेन स्फुटीक्रियते । तथा हि-
न निरोधो नचोत्पत्तिः बद्धो न च साधकः ।
न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता " ॥ इति । (गौडपादकारिका) कथमुत्पत्तिप्रलयोरभाव इत्युच्यते द्वैतस्यासत्त्वात् । ' यत्र हि द्वैतमिव भवति ' " य इह नानेव पश्यति ' ' आत्मैवेदं सर्वम् ' ' ब्रह्मैवेदं सर्वम् ' 'एकमेवाद्वितीयम् " इदं सर्वं यदयमात्मा ' इत्यादिनानाश्रुतिभ्यो द्वैतस्यासत्त्वं सिद्धम् । सतो हयुत्पत्तिः प्रलयो वा स्यान्नासतः शशविषाणादेः" इति । ( शाङ्करभाष्यम् ) ततश्च यत्र असत्त्वम्-सद्विलक्षणत्वम् शशविषाणादौ तत्र प्रलयाभावः- निवर्त्यत्वाभावः इति व्याप्तिः सिध्यति अधिकंतुचन्द्रिकामण्डनकारप्रणीताद्वैतखण्डने द्रष्ट्रयम् ।
इति ज्ञाननिवर्त्यत्वस्य सत्यत्वविरोधित्वनिरासः ।