स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति
श्रुत्यर्थविचारः
श्रुतीनामद्वैतपरत्वाभाव समर्थनम्
“स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति "
( मुण्ड ३-२-९) इति वाक्येन ब्रह्मज्ञानिनो ब्रह्मभावप्राप्तिकथनात् जीवब्रह्मणोरैक्यसिद्धिरिति न च वाच्यम् । अस्यां श्रुतौ ब्रह्मभावप्राप्तेरकथनात् 'ब्रह्म भवति ' इति ब्रह्मप्राप्तेरेव श्रवणात् ब्रह्म भवति इत्यस्य ब्रह्म प्राप्नोतीत्येवार्थः न तु ब्रह्मभावं (ब्रह्मत्वं) प्राप्नोतीत्यर्थः । ब्रह्मपदोत्तरं भावार्थकप्रत्ययाभावात् प्राप्यप्राप्तृभावस्य (गन्तृगन्तव्यत्वस्य) च भेदव्याप्तत्वादनया श्रुत्या भेदस्यैव सिद्धेः ।
न च परब्रह्मप्राप्तेः ‘परात्परं पुरुषमुपैति दिव्यम्. ( मु. ३।२।८) इति पूर्ववाक्येनैवोक्तत्वात् उत्तरेण ब्रह्म वेद ब्रह्मैव भवति' इति वाक्येनाप्युक्तौ "पुनरुक्ततापत्त्या न ब्रह्मप्राप्तिरस्य वाक्यस्यार्थः । किन्तु ब्रह्मपदस्य ब्रह्मत्वरूपार्थे लक्षणया ब्रह्मत्वप्राप्त्याश्रय इत्यर्थ एवोचित इति वाच्यम् । दार्ध्यार्थित्वेन पुनरुक्तिदोषाभावात् तथाहि ब्रह्मज्ञानिनो ब्रह्मप्राप्तिभवत्येव । न तु क्लेशानामन्यतमेन देवादिना च विनितो ब्रह्मविद्रपि अन्यां गतिं गच्छति न ब्रह्मैवेति शङ्कानिवारणार्थं ब्रह्मविदः ब्रह्मप्राप्तिर्भवत्येवेति-'परात्परं पुरुषमुपैति दिव्यम् ' इति पूर्ववाक्योक्तफलं नियमेन भवत्येवेति दार्ध्यार्थत्वात् न पौनरुक्त्यदोष:।
शङ्कराचार्यैरप्येवमेव व्याख्यातम् ।
किंच ब्रह्मज्ञानिनो ब्रह्मभावो भवति (ज्ञानी ब्रह्मैव भवति ) इत्यद्वैतिनां मते ' नास्याब्रह्मवित्कुले भवति तरति शोकं तरति पाप्मानं गुहाग्रन्थिभ्यो विमुक्तोऽमृतो भवति' इत्त्युत्तरवाक्ये अस्य ज्ञानिनः कुले अब्रह्मवित् न भवतीति ज्ञा निकुलादीनां कथनमयुक्तमेवेति नेदं वाक्यं जीवस्य ब्रह्मत्वप्राप्तिकथनद्वारा ब्रह्माभेदबोधकं किंतु शंकराचार्यो दिशा ब्रह्मप्राप्तिद्वारा प्राप्यप्राप्तृभावेन भेदबोधकमेवेति । अथवा परमं ब्रह्म वेद ब्रह्मैव भवति इति वाक्ये ज्ञेयस्य ब्रह्मणः । परमत्वविशेषणेन परब्रह्मज्ञानी ब्रह्मैव भवति पूर्ण एव भवति न तु परब्रह्म भवति इति परब्रह्मज्ञानिनः परब्रह्माभेदनिषेधकं वाक्यमिदमिति दिक् ।
। इति श्रुत्यर्थविचारः ।