जीवस्वरूपविचारः
जीवस्य अणुत्वसमर्थनम्
जीवस्वरूपविचारः
जीव: " वालाग्रशतभागस्य ” इत्यादिश्रुत्यनुसारेण अणुपरिमाणः तस्य ईश्वरप्रतिबिम्बत्वम् ईश्वरांशत्वं च ईश्वराधीनत्वे सति तत्सदृशत्वरूपमेव नान्यत् । अंगीकृतं चाद्वैतिभिरपि " जीवो ब्रह्मांश इव तत्तन्त्रतया न त्वंशः " इत्यादिना . जीवानामीश्वराधीनत्वरूपमेवेश्वरांशत्वमिति । नाशाप्रतियोगित्वरूपनित्यत्वेन चेतनत्वेन चेश्वरसरूपः स्वस्वरूपातिरिक्तोपाधिशून्यः असर्वगतश्च जीवः । तत्र ईश्वरसदृशत्वोपपादनाय परमात्मसरूपत्वं द्वैतग्रन्थेषूपदर्शितं तदज्ञानाच्चाद्वैतसुधाकारेण" नित्यपरमात्मस्वरूपोपाधिकः " इत्त्यन्यथानुवादविधानेन " अबद्धं पठित्वाकुचोद्यंकरोती ति” न्यायोऽवलम्बितः। बिम्बप्रतिबिम्बयोर्भेदनियमेन बिम्बस्य ईश्वरस्य सर्वगतत्वेऽपि प्रतिबिंबस्याणोजींवस्य सर्वगतत्वायोगात् तस्य सर्वगतत्वं तु बिम्बरूपेणेत्यप्यन्यथानुवाद एव । अद्वैततत्त्वसुधायाम् प्रायः द्वैतमतग्रन्थानां शब्दतोऽअर्थतश्च अन्यथानुवाद एव कृतः । ततश्चान्यथानुवादपूर्विका परीक्षा अपररीक्षैव । यच्चोक्तम् "अहमथों जीवोल्पपरिमाणान्तःकरणोपाधिकत्वात् तत्परिमाणः । व्यापकत्वं तु सर्वोपाधिविरहितसंविन्मात्रत्वेन " इति तदप्ययुक्तमेव । अहमर्थस्यानात्मत्ववादिना जीवात्मनः अहमर्थत्वकथनस्यायुक्तत्वात् । जीवब्रह्मैक्यवादिना जीवोप्यनात्मैवेति कथनमप्यशक्यम् । किंच जीवस्यान्तःकरणोपाधिकत्वे अन्तःकरणनाशाधीननाशप्रतियोगितया अन्तःकरणवन्मिथ्यात्वेन ब्रह्मस्वरूपत्वासम्भवेन जीवो ब्रह्मैव नापर इत्युक्तिविरोधः ।
श्रोत्रं चक्षुःस्पर्शनं च रसनं घ्राणमेव च ।
अधिष्ठाय मनश्चाऽयं विषयानुपसेवते ।।
इति गीतायां जीवस्य मनोरूपान्तःकरणेन सह शरीरस्थितिकथनेन श्रोत्रादीनामिव अन्तःकरणस्याऽपि जीवोपाधित्वायोगात् कर्तृकरणयोर्भिन्नत्वनियमेन कर्तुर्जीवस्य अन्तःकरणादत्यन्तभिन्नस्य अन्तःकरणोपाधिकत्वासम्भवाच्च न हि कुठारेण करणेन दारु छिन्दन् पुरुषः कुठारोपाधिक इत्युच्यते । परीक्षकेण लौकिकेनान्येन वा "व्यापकत्वं तु सर्वोपाधिविरहितसंविन्मात्रत्वेनेत्यप्ययुक्तम् निरुपाधिकसंविद्रूपाणामानन्त्येन तत्र जीवसंविदामणुत्वेन सर्वोपाधिविरहितसंविन्मात्रत्वेनाऽपि जीवस्य सर्वगतत्वायोगात् ।
। इति जीवस्वरूपविचारः ।