पूर्वं देहादेः कर्तोक्तः
मांसाधिकरणम्
तात्पर्यचन्द्रिका
।। ॐ मांसादिभौमं यथाशब्दमितरयोश्च ॐ ।।
पूर्वं देहादेः कर्तोक्तः । इहोपादानमुच्यत इति सङ्गतिः । अत्र श्रुतिसमन्वयेनोक्तं ब्रह्मणः सर्वस्रष्टृत्वादिकमयुक्तमुत युक्तमिति चिन्ता । तदर्थं श्रुतिरप्रमाणं न वेति । तदर्थं देहादेर्भूतत्रयात्मकत्वश्रुतिरप्रमाणं न वेति । तदर्थं मांसादेस्तर्पकत्वयुक्तयनुगृहीतयाऽऽप्यत्वादिश्रुत्या बाधिता न वेति । तदर्थं भूतत्रयात्मकत्वेऽप्याप्यत्वादिश्रुत्यादिकं तत्तद्भूतस्य विशेषसंयोगेन नोपपद्यत उतोपपद्यत इति ।। नोक्तदोष इति ।। पुनर्विशेषोक्तययोग इत्युक्तदोषो नेत्यर्थः । यदुक्तं परेषां भाष्ये उत्तरसूत्रविषयप्रदर्शनाय मांसादिसर्वभौतिकं त्रिवृत्कृतभूतकार्यमिति मांसादीति सूत्रेणोक्त्वा यदि सर्वं त्रिवृत्कृतभूतकार्यं तर्हि कथं तैजसमिदमाप्यमिदमिति व्यवस्थेत्याशङ्क्य भूयस्त्वाव्द्यवस्थेति समाधातुं वैशेष्यादित्युत्तरसूत्रमिति । तन्न । मांसादेस्त्रिवृत्कृतभूतकार्यत्वात्सूत्रेण विनापि भूतानां भौतेन त्रिवृत्कृतत्वमात्रेण मांसादेरपि तेन त्रिवृत्कृतभूतकार्यत्वेनाव्यवस्थाशङ्काया भूयस्त्वेन व्यवस्थेति समाधेश्च सम्भवेन मांसादिसूत्रस्य निष्फलत्वात् । भामत्यां तु ‘‘अन्नमयं हि सोम्य मनस्तेजोमयी वा’’ गिति श्रुत्यक्तं मनसःपार्थिवत्वं वाचस्तैजसत्वञ्चायुक्तम् । काणादैर्मनसो नित्यत्वोक्तेः । साङ्ख्यैश्चाहङ्कारिकत्वोक्तेरिति शङ्कानिरासार्थं मांसादीति सूत्रम् । तत्र च वाङ्मनसे इति वक्तव्ये मांसाद्यभिधानं सिद्धेन सह साध्यस्योपादाने दृष्टान्तलाभाय । यथा मांसादि भौमाद्येवं वाङ्मनसे अपि तैजसभौमे इति । काणादादिमतं तु श्रुत्यादिविरुद्धमित्युक्तम् । तन्न । साङ्ख्यादिस्मृत्यविरोधोक्तेरिहासङ्गतेः । किञ्च सौत्रेण भौमशब्देन तैजसत्वाद्युपलक्षणे ‘‘यथाशब्दमितरयो’’रिति व्यर्थम् । ‘‘मांसादी’’त्यादि शब्दोक्तलोहितमज्जारूपदृष्टान्तगताप्यतैजसत्वयोरपि भौमशब्देनैव लाभात् । अनुपलक्षणे च ‘‘मांसादी’’ त्यादिशब्दोक्तवाग्भूदार्ष्टान्तिकस्य तैजसत्वं सिध्येदिति यत्किञ्चिदेतत् । केचित्तु ‘‘अनेन जीवनेति श्रुतेर्जीवविशेष हिरण्यगर्भकर्तृकं नामरूपव्याकरणमिति पूर्वपक्षयन्ति । तन्न । जीवशब्दमात्रेण हिरण्यगर्भाप्राप्तेरिति । परोक्तं पूर्वमेव दूषितम् ।। छ ।। मांसाधिकरणम् ।। १३ ।।
इति श्रीमद्ब्रह्मण्यतीर्थपूज्यपादानां शिष्येण व्यासयतिना विरचितायां श्रीमद्ब्रह्माष्यटीकाविवृतौ तात्पर्यचन्द्रिकायां द्वितीयाध्यायस्य चतुर्थः पादः ।। अध्यायश्च सम्पूर्णः ।।
प्रकाशिका
‘‘प्रकृतो देहः किमाप्यः किं वा पार्थिव’’ इत्यादिटीकासूचितामाह ।। पूर्वमिति ।। फलोक्तिपूर्वोत्तरपक्षटीकासूचिताश्चिंता आह ।। अत्रेति ।। आद्यचिन्ताद्वयं फलोक्तिपरटीकासूचितम् ।। भूतत्रयात्मकत्वश्रुतिरिति ।। ‘‘इमास्तिस्रो देवताः पुरुषं प्राप्ये’’त्यादिश्रुतिरित्यर्थः । एतदप्रामाण्ये हि पूर्वोक्तदिशा श्रुतिमात्राप्रामाण्यमिति तादर्थ्यमेतच्चिंताया इति भावः ।। आप्यत्वादीति ।। आप्यत्वपार्थिवत्वादिश्रुत्या भाष्याद्युक्तयेत्यर्थः । ‘‘भाष्यकृतोत्तरसूत्रशेषतया सूत्रमिदं विषयोपदर्शनपरतया व्याख्यात’’मिति भामत्युक्तं हृदि कृत्वाऽऽह ।। उत्तरसूत्रेति ।। यदि सर्वमिति ।। भूतं भौतिकं चेत्यर्थः ।। तैजसमिदमिति ।। अस्थ्यादीत्यर्थः ।। आप्यमिदमिति ।। लोहितादीत्यर्थः । सूत्रेण मांसादीति सूत्रेण विनापीत्यर्थः । भौतेन भूतसम्बन्धिनाऽत्र विकृतत्वमात्रेणेत्यर्थः । तेनेत्यस्यार्थस्त्रिवृत्कृतेत्यादि । ‘‘शङ्कानिराकरणार्थत्वमप्यस्य शक्यं वक्तु’’मित्यादिनोक्तमाह ।। भामत्यां त्विति ।। इतरयोरप्तेजसोश्च कार्यं यथाशब्दमुपेयमित्यर्थादिति भावः । ‘‘मांसादीत्यादिपदेनाप्तेजःकार्ययोर्मज्जालोहितयोर्ग्रहण’’मिति कल्पतरूक्तं हृदि कृत्वाऽऽह ।। मांसादीत्यादिशब्दोक्तेति ।। वाग्भूतेति ।। अनुपलक्षणपक्षे मांसादीत्यादिपदेन वाचो ग्रहणं कार्यम् । तथा च मांसादिभौममितरयोश्च कार्यमित्युक्त आदिपदोपात्तवाच इतरयोरित्यत्रोक्ततेजःकार्यत्वं सिध्यतीत्यर्थः । नन्वेवमितरयोरित्यत्रापामपि ग्रहणमनन्वितं स्यादिति चेत्तर्हि तदन्वयायादिपदेन प्राणस्यापि ग्रहणमस्तु । प्राण आप्यत्वानाप्यत्वविवादो नेति तदुक्तिर्व्यर्था । मनसो भौमत्वोक्तिरपि नोक्ता स्यादिति चेत्तर्हि वाङ्मनसोरेव दार्ष्टान्तिकत्वपक्षेऽपि तैजसभौमयोर्मज्जामांसयोरेव दृष्टान्ततयोपादातव्यत्वेनादिपदेन मज्जालोहितयोस्स्वशब्देन मांसस्य चेति त्रयाणामितरयोरिति भौममिति शब्दाभ्यामुक्ततेजोजलपृथिवीकार्याणां दृष्टान्ततयोपादानं कार्यम् । तदेतदभिप्रेत्याह ।। यत्किञ्चिदेतदिति ।। जीवशब्दमात्रेणेति ।। तस्य साधारण्यादिति भावः ।।
निर्दोषगुणपूर्णेन श्रीप्राणपतिनेरितः ।
यदवोचमहं तेन प्रीणातु पुरुषोत्तमः ।।
इति श्रीसुधीन्द्रगुरुपादशिष्यराघवेन्द्रयतिकृते चन्द्रिकाप्रकाशे
द्वितीयाध्यायस्य चतुर्थः पादः ।।
अध्यायश्च सम्पूर्णः ।। ग्रन्थश्चायं सम्पूर्णः ।।