एतेन ‘‘सूर्यआत्मे’’ति सौरमन्त्रोदाहरणात्
विष्णो: अन्यत्र सर्वगतत्वायोग:
तात्पर्यचन्द्रिका
एतेन ‘‘सूर्यआत्मे’’ति सौरमन्त्रोदाहरणात् सूर्यप्राप्तिरिति निरस्तम् । उक्तन्यायेन मन्त्रस्थसूर्यादिशब्दस्यापि विष्णौ मुख्यत्वात् । न चान्तरित्यादौ चन्द्रादिकतिपयगतत्वादिकमुक्तमत्र तु सर्वगतत्वमुच्यत इति भेदः । व्यधिकरणत्वात् । न हि प्रतिपाद्याभेदः शङ्कितः । किन्तु पूर्वपक्षानुदयः । न च ‘‘चन्द्रमस्येत’’मिति सजातीये चन्द्रादावुक्त्वाऽऽदित्येऽनुक्तत्वलिङ्गात्तत्प्राप्तिः । ‘‘सर्वेष्वि’’ति सर्वशब्देनादित्यस्यापि ग्रहणसम्भवेन सावकाशलिङ्गेन श्रुत्यादिबाधायोगात् । सन्तिचात्र ‘‘एतमेव ब्रह्मे’’ति ब्रह्मशब्दाद्याःश्रुतयः । ‘‘सयोतोऽश्रुतोऽगतोऽमतोऽनतोऽदृष्ट’’इत्यश्रुतत्वादिलिङ्गानि च । ब्रह्मशब्दस्य च विष्णौ मुख्यताया आनन्दमयाधिकरणे सिद्धत्वात् । ज्योतिरधिकरणे च ज्योतिषो विष्णुत्वेऽश्रुतत्वादेर्हेतूकृतत्वात् । अदृष्टत्वस्य च विष्णुधर्मतायाः ‘‘अदृश्यत्वादिगुणक’’इत्यत्र वक्ष्यमाणत्वात् । ‘‘सयोतोऽश्रुत’’ इत्यादि सन्निधाने चान्तरपुरुष इत्यन्तरत्वश्रवणात् तस्य चान्तर्याम्यधिकरणे विष्णुलिङ्गतायाः सेत्स्यमानत्वात् । न च चक्षुर्मयत्वादिना सर्वजीवानां प्राप्तिः । तस्याप्यानन्द मयाधिकरणन्यायेन प्राचुर्यार्थतया पादांत्यप्राणाधिकरणन्यायेन शतसंवत्सरत्वादेरिवान्तर्यामिविषयतया वा सम्भवात् । पशुशब्दस्य तद्विशेषच्छाग इवादित्यश्रुत्या चक्षुर्मयत्वादिजीवलिङ्गानां तद्विशेषादित्ये पर्यवसानेन सर्वजीवप्रापकाभावाच्च । न चार्भकौकस्त्वलिङ्गादन्यस्य प्राप्तिः । तस्यापि विष्णुधर्मताया अन्तस्तद्धर्मेत्यत्रोपासात्रैविध्येत्यत्र चोक्तत्वात् । हृद्यपेक्षयेत्यादौ वक्ष्यमाणत्वाच्च । वक्ष्यमाणसिद्धान्तन्यायाच्छादनेन पूर्वपक्षकरणे च तन्न्यायेनैवैतत्सिद्धान्तफलसिद्ध्यैतस्य वैयर्थ्यात् । सर्वेषु भूतेष्वित्यनेन सर्वगतत्वस्यैवोक्ततयाऽर्भकौकस्त्वाभावाच्च । अन्यथा अत्रोक्तः सर्वगतो न विष्णुश्चेत्पूर्वोक्तोपि सर्वगतो न विष्णुः स्यादित्याक्षेपायोगात् ।
प्रकाशिका
टीकोक्तं सौरमन्त्रोदाहरणरूपं प्रापकान्तरमप्याक्षिपति ।। एतेनेति ।। आशयमबुध्वा भ्रान्तस्य चोद्यं परिहरति ।। न चेति ।। अत्र तु पृथिव्यादिसर्वगतत्वम् । अतो न पौनरुक्त्यम् । प्रतिपाद्यभेदादिति भावः ।। किं त्विति ।। सर्वस्य विष्णुप्रापकत्वेनादित्यादिप्रापकाभावेन पूर्वपक्षानुदयश्चोद्यत इत्यर्थः । टीकोक्तं प्रापकान्तरमप्याक्षिपति ।। न चेति ।। आदित्यादन्यश्चेत्सर्वगतोऽत्राभिमतस्तदाऽऽदित्ये एतमित्यपि श्रूयेतेति भावः ।। सावकाशेति ।। अनुक्तत्वलिङ्गेनेत्यर्थः । आद्यपदेनान्तरपुरुष इति पुरुषशब्दादिर्ग्राह्यः । श्रुत्यादीनां विष्णौ गतत्वमुपपादयति ।। ब्रह्मशब्दस्येति ।। आनन्दमयाधिकरण इति ।। प्रागुक्ताशयोऽनुसन्धेयः । पुरुषशब्दस्य च गायत्र्यधिकरणे मुख्यत्वस्योक्तत्वादित्यपि ध्येयम् । लिङ्गानिच वैष्णवानीत्याह ।। ज्योतिरधिकरण इति ।। हृदय आहितं यदित्यत्र ज्योतिरग्निर्विष्णुर्वेति विशये प्रसिद्धेरग्निरिति प्राप्ते कर्णादि विचरणाभिधानाद्विष्णुरेवेति चरणपदेन कर्णादिविचरणरूपाश्रुतत्वादेर्ज्योतिषो विष्णुत्वे हेतूकरणादसिद्धस्य तत्त्वायोगात्तत्रैव मुख्यानीत्यर्थः । ‘‘अदृश्यत्वादिगुणकोधर्मोक्ते’’रित्यत्र ‘‘यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुश्श्रोत्र’’मित्यादावदृश्यत्वादिगुणको विष्णुरन्योवेति विशये ‘‘अक्षरात्परतः पर’’ इति परावधित्वेनोक्ताक्षरशब्देन ‘‘यया तदक्षरमधिगम्यत’’ इत्यक्षरसामानाधिकरण्यादन्य इति प्राप्ते ‘‘अथ परायया तदक्षर’’मिति परविद्याविषयत्वोक्तेरदृश्यत्वादिगुणकमक्षरं विष्णुरेवेति वक्ष्यमाणत्वादित्यर्थः । ‘‘अन्तर्याम्यधिदैवादि’’ष्वित्यत्र ‘‘यःपृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेदे’’त्यादौ पृथिव्यादिगतत्वेन श्रुतः किं विष्णुरन्योवेति विशये पृथिव्यादिशरीरकत्वस्याशरीरे विष्णावयोगादन्य इति प्राप्ते पृथिव्याद्यविदितत्वान्तरत्वादिधर्मोपदेशाद्विष्णुरेवेत्यन्तरत्वस्य विष्णुलिङ्गतायास्साधयिष्यमाणत्वादित्यर्थः । एवमादित्यकोटिकपूर्वपक्षमाक्षिप्य जीवकोटिकमप्याक्षिपति ।। न चेति ।। परमतदूषणप्रस्तावे सुधायामुक्तं ‘‘मनोमयत्वादीनामानन्दमयाधिकरणन्यायेन सावकाशत्वा’’दिति वाक्यं हृदि कृत्वाह ।। प्राचुर्येति ।। पूर्णज्ञानत्वादिरूपार्थतयेत्यर्थः । चक्षुःकरणकसम्बन्धमेव मयडर्थमाश्रित्याह ।। पादांत्येति ।। पशुशब्दस्येति ।। षष्ठे ‘‘पशुचोदनाया अनियमोऽविशेषा’’दित्यन्तिमेऽधिकरणे ‘‘अग्नीषोमीयं पशुमालभेते’’त्यत्र किं यः कश्चित्पशुरालब्धव्य उत च्छाग एवेति संशये ‘‘छागस्य वपाया मेदसोनुब्रूही’’ति मन्त्रस्य चोदितार्थप्रकाशनार्थतया पारतन्त्र्याद्भिन्नवाक्यतया ‘‘तेजोवैघृत’’मिति घृतार्थवादवैलक्षण्याच्च मन्त्रगतछागशब्दस्य पशुमात्रे यौगिकत्वेन वा पाक्षिकानुवादत्वेन वोपपत्तेः पशुशब्दाविशेषकत्वादालम्भनचोदनायास्सामान्यपर्यवसानसम्भवेन यःकश्चन पशुरिति प्राप्ते चोदनाप्रतिपन्नस्य सामान्यस्य प्रतिव्यक्तिसमाप्त्या छागेऽप्यवैकल्याद्रूढिप्राबल्येन योगासम्भवान्नित्याम्नातस्य पाक्षिकत्वायोगाच्च छाग एवालब्धव्य इति सिद्धान्तितम् । अत्र यथा पशुशब्दस्य तद्विशेषछागे पर्यवसानं तद्वदित्यर्थः । टीकोक्तं प्रापकान्तरमपि पराचष्टे ।। न चेति ।। अन्तरिति ।। अन्तस्स्थत्वस्यापि निहितं गुहास्विति गुहास्थत्वरूपतयाऽर्भकौकस्त्वरूपत्वादिति भावः ।। उपासेति ।। ‘‘सीमानं विदार्यैतया द्वारा प्रापद्यते’’ति हृदयस्थत्वोक्तेरिति भावः । एतेन ‘‘उपासात्रैविध्या’’दिति न्यायविवरणटीकावाक्यमन्यथापि व्याख्यातं ध्येयम् ।। हृदीति ।। तृतीयपादे ‘‘हृद्यपेक्षया तु मनुष्याधिकारत्वा’’दिति गुणसूत्रेण ‘‘अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठती’’त्यत्राङ्गुष्ठ मात्रपरिमितहृदयावकाशस्थत्वोक्तेरिति भावः । ‘‘शब्दादिभ्योन्तःप्रतिष्ठाना’’दित्यादिरादिपदार्थः । ननु वक्ष्यमाणाज्ञानेन पूर्वपक्षोस्त्वित्यत आह ।। वक्ष्यमाणेति ।। आच्छादनेन अनाविष्कारेण । तदाविष्कृत्य तद्वैलक्षण्यादिकमनुक्त्वेत्यर्थः । यद्वा आच्छादनेनानुपमर्देनेत्यर्थः । अर्भकौकस्त्वमुपेत्य न तत्पूर्वपक्षप्रापकमित्युक्तमिदानीं तदेव नास्तीत्याह ।। सर्वेष्विति ।। अन्यथेति ।। भाष्ये स इदं ब्रह्म ततममपश्यदिति पूर्वोक्तसर्वगतत्वमन्यस्येत्याक्षिप्तम् । तन्न स्यात् । अर्भकौकस्त्वस्यान्यगतत्वे प्रागुक्तसर्वगतत्वस्य विष्णुधर्मत्वाविरोधादित्यर्थः ।
पाण्डुरङ्गि
तृतीयं पक्षमनूद्य दूषयति ।। एतेनेति ।। उक्तन्यायेनेति ।। अन्तरधिकरणन्यायेनेत्यर्थः । चतुर्थं प्रत्याह ।। न चेति ।। सावकाशलिङ्गेनेति ।। आदित्येऽनुक्तत्वलिङ्गेनेत्यर्थः । अत्र लिङ्गस्य सावकाशत्वं नाम सन्दिग्धत्वं विवक्षितमिति बोध्यम् । अत एवादित्यस्यापीत्यपिशब्दः । ननु मास्तु सावकाशलिङ्गेन श्रुत्यादिबाधः । प्रकृते तु श्रुत्यादिकमेव नास्तीत्यत आह ।। संतिचेति ।। नन्वादित्येऽनुक्तत्वलिङ्गस्येव ब्रह्मश्रुत्यादेरपि सावकाशत्वात्कथं ब्रह्मश्रुत्यादिनापि तद्बाध इत्यतस्तस्या निरवकाशत्वमुपपादयति ।। ब्रह्मशब्दस्य चेति ।। न च चक्षुर्मयत्वादिनेति ।। नन्वानन्दमयोक्तस्य कोह्येवान्यादिति प्राचुर्यार्थे हेतुव्यपदेशस्य तत्प्रायपाठस्य चात्राभावेन तन्न्यायाविषयत्वात् कथं तन्न्यायेन प्राचुर्यार्थतया चक्षुर्मयत्वादेर्ब्रह्मणि सावकाशत्वमित्यरुच्याह ।। पादांत्येति ।। अन्यथेति ।। सर्वेषु भूतेष्वित्यत्राल्पस्थानस्थितत्वरूपार्भकौकस्त्वोक्तावित्यर्थः ।