एवं ब्रह्मान्यस्य सर्वस्य व्युत्क्रमेण लये ..

आत्माधिकरणम्

तात्पर्यचन्द्रिका

ब्रह्मणो न विनाश इति निरूपणम्

ॐ नात्मा श्रुतेर्नित्यत्वाच्च ताभ्यः ॐ ।।

एवं ब्रह्मान्यस्य सर्वस्य व्युत्क्रमेण लये श्रुत्योक्ते तर्हि ब्रह्मणोऽपि तथैव सोऽस्त्विति शङ्कोदयात्सङ्गतिः । अत्र पूर्वोक्तं ब्रह्मणस्सर्वस्रष्टृत्वादिकं ब्रह्मणो लयश्रुतिविरुद्धं न वेति चिन्ता । तदर्थं ‘‘स इदं सर्वं विलाप्यान्तस्तमसि निलीन’’ इति ब्रह्मणो लयश्रुतिः किं देहनाशरूपविनाशपरा उतापिहितत्वपरेति । तदर्थं निलीनशब्दस्य विनाशरूपार्थत्यागेनापिहितत्वपरत्वे किं ज्ञापकं नास्त्युतास्तीति । असम्भवस्त्वित्यत्र ब्रह्मणोऽनुत्पत्तिरुक्ता । अत्र त्वविनाश इति भेदः । न्यायविवरणोक्तां लयश्रुत्यनुग्राहिकां पूर्वपक्षयुक्तिमाह ।। चेतनत्वादिति ।। असम्भवस्त्वित्यधिकरणन्यायेन गतार्थत्वं निरस्यति ।। न च वक्तव्यमिति ।।

अन्ये तु चराचरेत्यधिकरणे चैत्रो जात इति व्यपदेशाज्जातकर्मादिविधानाच्च प्रतिशरीरं जीव उत्पद्यत इति प्राप्ते प्रतिशरीरं जीवोत्पत्तौ शास्त्रोक्तस्वर्गादिफलायोगाज्जन्मव्यपदेशो जायमानस्थावरजङ्गमात्मकशरीरसम्बन्धाद्भाक्तो गौण इति सिद्धान्तः । नात्मेत्यधिकरणे तु ‘‘सर्व एत आत्मानो व्युच्चरन्ती’’त्यादिश्रुत्या वियदादिवत्प्रतिसर्गं ब्रह्मणो जीव उत्पद्यत इति प्राप्ते तत्सृष्ट्वा तदेवानुप्राविश’’दित्यादिश्रुत्या सृष्टानुप्रविष्टब्रह्मरूपस्य जीवस्य नित्यब्रह्मभेदायोगात्कृतहानादिप्रसङ्गाच्च नोत्पत्तिरिति सिद्धान्त इत्याहुः । तन्न । द्वितीयसिद्धान्तेन दण्डापूपनयहतस्याद्यपूर्वपक्षस्यानुदयात् । तद्व्यपदेश इति सूत्रस्थस्य ‘‘विज्ञानमनसी’’ इति पूर्वसूत्रप्रकृतविज्ञानमनःक्रमपरामर्शितच्छब्दस्या प्रकृतजीवजन्मविषयत्वायोगाच्च । त्वद्रीत्या देहात्मभेदसाधकेन ‘‘एक आत्मनः शरीरे भावा’’दित्यधिकरणेनाद्यस्य गतार्थत्वाच्च । चैत्रो जात इत्यादेस्त्वन्मते गौरोऽहमित्यादिवदध्यासत्त्वेन सूत्रे गौणत्वोक्तययोगाच्च । द्वितीये ‘‘तत्सृष्ट्वा तदेवानुप्राविश’’दिति श्रुत्या सृष्टानुप्रवेश विशिष्टस्यैव जीवत्वेन तस्य नित्यत्वोक्तययोगाच्च । चिन्मात्रानादित्वं तु ‘‘असम्भवस्त्वि’’त्यनेनैव सिद्धम् । सिद्धान्तेऽपि साद्यन्तःकरणावच्छिन्नस्य कर्तुस्सादित्वेन कृतहान्याद्यापातस्यापरिहाराच्च । द्युभ्वाद्यधिकरणन्यायेन सौत्रात्मशब्दस्य परमात्मन्येव मुख्यत्वेन द्वितीयस्य भाष्योक्तरीत्याऽवश्यं विचार्य ब्रह्मलयविषयताया एवोचितत्वाच्च । न कर्मेत्यत्र संसारानादित्वस्योक्तत्वेन द्वितीयस्य तेन गतार्थत्वाच्च । एतेन ‘‘नात्मे’’त्यस्य जीवानुत्पत्तिपरतां वदतां केषाञ्चित्पक्षोऽपि निरस्तः ।।

प्रकाशिका

लयश्रुतीति ।। ‘‘तमसि निलीन’’ इति श्रुतीत्यग्रे व्यक्तम् ।। अपिहितत्वेति ।। अन्तर्हितत्वेत्यर्थः ।। ज्ञापकमिति ।। समाख्यादिरूपमित्यर्थः ।। इति भेद इति ।। आर्थिकपौनरुक्तयनिरासेन गतार्थत्वं निरस्यतीत्यग्रे व्यक्तम् ।। अन्ये त्विति ।। तन्मते ‘‘चराचरे’’त्यस्याधिकरणान्तरत्वात्तस्य च ‘‘नात्मे’’त्यस्य च दूषणोक्तिसौकर्याय युगपदुभयार्थमनुवदति ।। चरेति ।। चराचरेत्यारभ्यापादपरिसमाप्ति जीवविचारः । तत्र ‘‘चराचरे’’ति, ‘‘नात्मे’’ति च द्वयमपि जीवस्योत्पत्तिविनाशनिरासपरम् । चैत्रादिनामधेयं तावज्जीवात्मनो न शरीरस्य । तन्नाम्ने शरीराय श्राद्धादिकरणानुपपत्तेः । तथा च चैत्रो जातो मृत इति व्यपदेशो जीवस्यैव । तथा जातकर्मवैश्वानरेष्ट्यादिकरणमपि जीवजनननिमित्तमेवेति तदन्यथानुपपत्त्या जीव उत्पद्यत इति विज्ञायत इत्यर्थः । तद्व्यपदेशः जीवजननादिव्यपदेशः । चराचरव्यपाश्रयः जङ्गमस्थावरशरीरविषय एव मुख्यस्सन् जीवे भाक्तः गौणः । देहसंयोगादिनिमित्तकः । कुतः । तद्भावभावित्वात् । देहप्रादुर्भावतिरोभावयोर्भावेन जन्ममरणव्यपदेशभावादिति सूत्रार्थं हृदि कृत्वा गौणतायां बीजं वदन्नेव सिद्धान्तमनुवदति ।। प्रतिशरीरमिति ।। वियदादिवदिति ।। पूर्वत्र हि शरीराश्रयौ जीवस्योत्पत्तिविनाशौ नस्त इत्युक्तम् । वियदादिवत्स्वरूपेणैव स्वर्गादौ जीव उत्पद्यते । तावतापि कल्पमात्रावस्थायित्वेन स्वर्गादिभोगसम्भवादित्यर्थः । आत्मा जीवो नोत्पद्यते आकाशाद्युत्पत्तिकरणेऽस्योत्पत्तेरश्रवणात् । ‘‘अविनाशी वा ओऽयमात्मे’’त्यादिश्रुतिभ्योऽस्य नित्यत्वात् । चशब्दोक्ताजत्वाविकारत्वब्रह्मतादात्म्यादिभ्यश्चेति सूत्रार्थं हृदि कृत्वा भामत्युक्तं सिद्धान्तप्रमेयमन्वाह ।। तत्सृष्ट्वेति ।। भेदेति ।। यदि भिद्येरन् जीवास्तदा परं वियदादिवदुत्पद्येरन् । न चैवम् । भेदस्यैवौपाधिकत्वादित्यर्थः ।। दण्डापूपनयेति ।। कैमुत्यन्यायहतस्येत्यर्थः । नित्यब्रह्मभेदायोगादित्यादिना यदा स्वरूपोत्पत्तिरेव वार्यते तदा देहोत्पत्त्याश्रयोत्पत्तिशङ्कायाः क्वावकाश इत्यर्थः । यद्वा सर्गादावुत्पत्त्यभावोक्तौ मध्ये मध्ये जन्माभावः कैमुत्यसिद्ध इत्यर्थः ।। देहात्मेति ।। देहात्मभेदासिद्धौ देहोत्पत्त्याश्रयो जन्मव्यपदेशो जीवे भाक्त इत्युक्तयनुपपत्तेः । तद्भेदसिद्धौ च गृहोत्पत्तिविनाशयोर्देवदत्त इव शरीरजन्ममरणयोर्जीवे मुख्यत्वशङ्कानुदयात् । तद्भेदस्य च तृतीये एके लोकायतिकाः आत्मनो सत्त्वं मन्यन्ते । शरीरे सत्येव प्राणचेष्टाद्यात्मधर्माणां भावादिति पूर्वपक्षयित्वा ‘‘व्यतिरेकस्तद्भावभावित्वा’’दित्यत्र जीवो देहव्यतिरिक्त इत्यादिना त्वया तस्याधिकरणस्य देहात्म भेदसाधकत्वेन व्याख्यानात्तेनैवेह पूर्वपक्षस्य निरासात् ‘‘चराचरे’’ति सूत्रं व्यर्थमित्यर्थः ।।

अध्यासत्वेनेति ।। अत एव भामत्यां ‘‘एतच्च लौकिक व्यपदेशस्याभ्रान्तिमूलत्वमभ्युपेत्याधिकरणम् । उक्ता त्वध्यासभाष्ये भ्रान्तिमूलकते’’त्युक्तमिति भावः । द्वितीये नात्मेत्यत्र । जीवशब्देन किं प्रवेशविशिष्टश्चिन्मात्रं वेति विकल्प्य क्रमेण निराह ।। अनुप्रवेशविशिष्टस्येति ।। सिद्धान्तेऽपि अपरिहाराच्चेत्यन्वयः । उक्तत्वेन त्वयैवेत्यर्थः । मतान्तरे तु सर्वशब्दानामाकाशादिशरीरकब्रह्मवाचित्वे गगनादौ व्युत्पत्तिसिद्धो व्यपदेशो न स्यादिति शङ्कानिरासार्थं ‘‘चराचरे’’ति सूत्रम् । चराचरव्यपाश्रयस्तु निखिल जङ्गमस्थावरव्यपाश्रयस्तु । तत्तच्छब्दव्यपदेशो भाक्तः वाच्यैकदेशे भज्यते । कुतः तद्भावभावित्वात् । तस्य सर्वप्रकारिणो ब्रह्मणो भावेन प्रतीति भावेन भावित्वात् । तत्पर्यवसानस्येदानीं तत्प्रतीतेरभावेन तत्र व्युत्पत्त्यभावोपपत्तेरिति वा चराचरव्यपाश्रयस्तद्व्यपदेशः चराचरभाविशब्दो ब्रह्मण्यभाक्तः मुख्य एव । कुतः । तद्भावभावित्वात् तद्भावेन ब्रह्मानुप्रवेशेन भावित्वात् । सर्वशब्दानां ब्रह्मानुप्रवेशानन्तरमेव शब्दानां तत्तद्वाचकत्वादित्यर्थ इति वा व्याख्यातम् । तत्र तद्व्यपदेश इति तच्छब्दस्याप्रकृतशब्दपरत्वायोग इत्युक्तप्रायम् । ब्रह्मणीत्यध्याहारः । भाक्तशब्दस्य प्रसिद्धगौणार्थत्वत्यागः । तद्भावभावित्वादिति हेत्वर्थस्तु प्रथमाध्यायान्ते दूषितः । अभाक्तत्वमित्येतदपि तत्रैव निरस्तमिति तदुपेक्ष्य ‘‘नात्मे’’त्यधिकरणप्रमेयं निराह ।। एतेनेति ।। न कर्माविभागादिति चेदित्यत्र संसारानादित्वस्य श्रीभाष्यादावुक्तत्वेनास्य गतार्थत्वेनेत्यर्थः ।। छ ।। आत्माधिकरणम् ।। १० ।।

चन्द्रिकाविवृतिः

ॐ नात्माश्रुतेः ।। तथैव श्रुत्यैव ।। सोऽस्तुयोस्तु ।। अपिहितत्त्वपरत्त्वे किं ज्ञापकमिति ।। ज्ञापकं च प्रकृतौ निाीनस्य प्रकृत्यादिपदार्थद्रष्टृत्त्वे सति तद्दृश्यत्त्वादि ।। स्वर्गादिफलायोगादिति ।। एतच्छरीरविनाशेनैव देवदत्तस्यापि नष्टत्त्वेन स्वर्गशरीरावच्छिन्नस्य चान्यत्वात्कर्मकर्तुः शास्त्रोक्तफां न स्यादेवेत्यर्थः ।। द्वितीयसिद्धान्तेन नित्यब्रह्मभेदायोगेन जीवस्यापि नित्यत्वरूपेण । क्रमपरामर्शितच्छब्दस्येति ।। मम रीत्येति शेषः ।। गौणत्त्वोक्त्ययोगादिति ।। अन्यथा सर्वधर्माणामध्यासाङ्गिकारेण ब्रह्मण्यध्यास इति ब्राह्मणे ब्राह्मणशब्दोऽपि गौणः स्यादिति भावः ।। सिद्धान्तेऽपि मायिसिद्धान्तेऽपि ।। द्वितीयस्य तेनेति ।। परमात्मनः सकाशात् जीवानामुत्पत्तिर्नास्त्येव किं त्वनादय एवेति प्रतिपादयतो द्वितीयाधिकरणस्येत्यर्थः ।। एतेनेति ।। द्युभ्वाद्यधिकरणन्यायेनात्मशब्दस्य परमात्मन्येवेत्याद्युक्तसम्भावितदूषणेनेत्यर्थः ।। छ ।।