अत्र विष्णोर्जगत्कर्तृत्वादिकं युक्तिविरुद्धमुत नेति चिन्ता

पूर्वपक्षत्रयनिरूपणम्

तात्पर्यचन्द्रिका

अत्र विष्णोर्जगत्कर्तृत्वादिकं युक्तिविरुद्धमुत नेति चिन्ता । तदर्थं ब्रह्मासर्वकर्तृजीवाभिन्नमुत नेति । तदर्थं ‘‘परेऽव्यये सर्व एकीभवन्ती’’ति श्रुतिः किं स्वरूपैक्यपरत्वेन मुख्यार्था उत स्थानाद्यैक्यालम्बनत्वेनोपचरितार्थेति । तदर्थं वाक्यशेषे दृष्टान्तितं नदीसमुद्रैक्यं किं स्वरूपैक्यं किं वा स्थानाद्यैक्यमिति । ननु ‘‘न ह्यन्यस्यान्यत्वं युज्यत’’ इति भाष्ये पूर्वं भिन्नस्य पश्चादभिन्नत्वाभावः पूर्वपक्षयुक्तित्वेनोक्तः । ‘‘नान्यदन्यत्वमापन्नं क्वचिद्दृष्टं कथंचने’’त्यनुव्याख्याने तु सिद्धान्तयुक्तित्वेन । तत्कथमिति चेदुच्यते । अत्र त्रयः पूर्वपक्षाः सम्भवन्ति । तत्र ‘‘एकीभवन्ती’’ति ब्रह्मणस्तावन्मुक्ताभेदः श्रूयते । न च तावतैव ब्रह्मणोऽसर्वकर्तृत्वं सिध्यति । संसारिण इव मुक्तस्य सर्वकर्तृत्वे प्रत्यक्षादिविरोधाभावात् । पूर्वमसतोऽपि जीवे सर्वकर्तृत्वस्य मुक्तेरिव ज्ञानेनोदयसम्भवाच्च मुक्ताभिन्नस्यापि ब्रह्मणः कथञ्चित्कारणत्वसम्भवात् । ‘‘जगद्य्वापारवर्ज’’मित्यत्र त्वत्रत्यसिद्धान्तन्यायेन भेदे सिद्धेऽपि मुक्तस्य सत्यकामत्वात्सर्वकर्तृत्वमिति शङ्कानिरासान्नात्रत्यपूर्वपक्षदशायां तत्रत्यसिद्धान्तेन मुक्तस्यासर्वकर्तृत्वसिद्धिः । तस्मादसर्वकर्तृत्वेन प्रत्यक्षसिद्धसंसार्यभेदाद्ब्रह्मणोऽपि तथात्वमिति वक्तुं मुक्तावभेदेन संसारेऽप्यभेदः साध्यः । ‘‘एकीभवन्ती’’त्यभूततद्भावार्थच्विप्रत्ययस्तु ‘‘न ह्यन्यस्ये’’ति युक्तिविरोधाद्भेदभ्रमनिवृत्तेरभूततद्भावाभिप्रायः । ‘‘तत्त्वमसी’’तीदानीमप्यभेदश्रुतेः च्विप्रत्ययोऽस्वरस इति तु न । भाष्यविरोधात् ‘‘पृथगुपदेशा’’दित्यनेन गतार्थत्वापाताच्चेत्येकः पूर्वः पक्षः । एतं पक्षमाश्रित्य मुक्तावभेदेन पूर्वमभेदं वक्तुं ‘‘न ही’’त्यादि पूर्वपक्षभाष्यं प्रवृत्तम् । द्वितीयस्तु च्विप्रत्ययस्वारस्यात्पूर्वं भेदः । मुक्तौ त्वभेदः । ‘‘न ह्यन्यस्ये’’ति युक्तिस्तु च्विप्रत्ययरूपश्रुतिबाधितेति । एतत्पक्षदूषणाय पूर्वं सिद्धेन भेदेन पश्चादपि भेदं साधयितुं ‘‘नान्यदन्यत्व’’मित्यादिसिद्धान्तानुव्याख्यानं प्रवृत्तमिति न भाष्यानुव्याख्यानयोस्तट्टीकयोर्वा विरोधः । तृतीयस्तु पूर्वं भेदाभेदौ । मुक्तौ तु केवलाभेदः । एवं च च्विप्रत्ययो युक्तः । पूर्वं केवलाभेदाभावात् । ‘‘न ह्यन्यस्ये’’त्यादियुक्तिविरोधश्च न । पूर्वमप्यभेदस्य सत्त्वात् । एतं वा पक्षमाश्रित्य भाष्यानुव्याख्याने प्रवृत्ते । तत्र भाष्ये च्विप्रत्ययेन पूर्वं भेदस्य सिद्धत्वात्पूर्वपक्षानुपयुक्तत्वाच्चाभेद एव साधितः । अनुव्याख्यानेऽपि पूर्वं भिन्नाभिन्नस्यापि पश्चात्केवलाभेदो नास्तीति भावेन ‘‘नान्यदन्यत्व’’मित्युक्तम् । अत्र च पक्षत्रये प्रत्येकं पुनः पक्षत्रयं सम्भवति । एकपदलक्षणयैव विरोधपरिहारात् चिन्मात्राच्चिन्मात्रस्य भेदाप्रसक्तयैव विरोधपरिहारात् चिन्मात्राच्चिन्मात्रस्य भेदा प्रसक्तयैक्योपदेशवैयर्थ्याच्चैकपदलक्षणाया एकत्रैव विशिष्टरूपत्यागेन ब्रह्मणः प्रत्यक्षसिद्धासर्वकर्तृजीवसालक्षण्येन वा जीवस्य श्रुतिसिद्धसर्वकर्तृब्रह्मसालक्षण्येन वा मिथ्यावादिरीत्या पदद्वयलक्षणया उभयत्रापि विशिष्टरूपत्यागेन चिन्मात्रैक्येन वेति । तत्राद्ये लक्षणस्यासम्भवः । द्वितीयेऽतिव्याप्तिः । सदापि शुद्धाभेद इति पक्षे संसारिणि मुक्तावेवाभेद इति पक्षे मुक्तेः पूर्वं भेदाभेदाविति पक्षेऽपि मुक्तेऽभेदांशमादाय संसारिणि चातिव्याप्तेः । तृतीयेऽपि सत्यं कर्तृत्वमसम्भवि । असत्यं तु प्रधानादावतिव्याप्तम् । सिद्धान्तिनोऽनिष्टं च । एतदेव पक्षत्रयमभिप्रेत्य टीकायां ‘‘जगत्कारणत्वादीश्वरैकनिष्ठं न सम्भवती’’त्युक्तम् । एवं च ‘‘उभयगतविरुद्धधर्मत्यागेने’’ति टीकावाक्य उपरितनो वा शब्दोऽनुषंजनीयः । (यद्वा तत्राद्यद्वितीययोः ‘‘उभयगतविरुद्धधर्मत्यागेने’’ति टीकायां ब्रह्मणः सर्वकर्तृत्वं जीवस्य तु तन्नेति व्यवस्थात्याग एवाभिप्रेतः । न तु मिथ्यावादिरीत्योभयत्र विशिष्टरूपत्यागः । तृतीये तु ‘‘जीवस्येश्वरसालक्षण्यग्रहणेन वेश्वरस्य जीवसालक्षण्यग्रहणेन वे’’ति टीकायामन्यतरपरिशेषमात्रमभिप्रेतम् । न त्वेकगतधर्मत्यागः ।) पूर्वपक्षोपसंहारटीकायां ‘‘परमार्थत इत्युक्तिरपि तात्विकाभेदेनाव्यवस्था चेत्काल्पनिकभेदेन व्यवस्था किं न स्यादिति शङ्कायां परमार्थतो ब्रह्मैव कारणं न तु जीव इति सिद्धान्तहानिरिति समाधातुम् । न तु मिथ्यावादिप्रक्रियया व्यवहारतो ब्रह्मैव कर्तृ न जीव इति व्यवस्थासिद्धावपि परमार्थतः सा न सिध्यतीति वक्तुम् । प्रस्तुतानुपयोगित्वात् । सुधायां तु प्रत्यक्षस्य प्राबल्याद्ब्रह्मणः प्रत्यक्षसिद्धा सर्वकर्तृजीवसालक्षण्यमेव वक्तव्यमित्यसम्भव एव निर्धारितः ।

प्रकाशिका

विषयसंशयटीकां व्यनक्ति ।। अत्र विष्णोरिति ।। इति श्रुतिरिति ।।  गताः कलाः पञ्चदशप्रतिष्ठादेवाश्च सर्वे प्रतिदेवतासु । कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकीभवन्ति । यथा नद्यस्स्यंदमानास्समुद्रायणास्समुद्रं प्राप्यास्तं गच्छन्ति नामरूपे विहाय । तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्य’’मित्याथर्वणश्रुतिरित्यर्थः । यदि स्वरूपैक्यं वाक्यशेषाभिमतं तदा तदनुरोधेन पूर्ववाक्यार्थवर्णनात्तत्सिद्धासर्वकर्तृजीवाभिन्नत्वरूपयुक्तिविरुद्धं विष्णुजगत्कर्तृत्वमिति तत्प्रतिपादकश्रुत्यप्रामाण्यम् । यदि तु स्थानैक्यं तदा तादृशजीवाभेदाभावेन हेतोरसिद्धतया न युक्तिविरुद्धं सर्वकर्तृत्वमिति नाप्रामाण्यमिति भावः । पक्षभेदेन भाष्यटीकां योजयितुं विरोधमुद्घाटयति ।। नन्विति ।। तत्कथमिति चेदिति ।। भाष्यरीत्या प्रागभेदस्यानुमतत्वेन प्रागसिद्धेन भेदेन जीवो नान्यकालेऽपि ब्रह्मणैक्यमापत्स्यते प्राक्ततोऽत्यन्तभिन्नत्वात् यदेवं तदेवं यथा घटः पटेनेति साधनायोगात्तदनुरोधेन प्राग्भेदेंऽगीकृते तेनैव हेतुना मुक्तावप्यभेदो नेति पूर्वपक्षानुदय इति भावः । ‘‘प्रागभिन्नस्यैव जीवस्य ब्रह्मणैक्यमनेनोच्यत उत भिन्नस्याथ भिन्नाभिन्नस्ये’’ति सुधावाक्यं हृदि कृत्वाऽऽह ।। अत्र त्रय इति ।। आद्यं विवृणोति ।। तत्रेति ।। मुक्तेति ।। ‘‘गताः कला’’ इत्युपक्रमात् ‘‘परेऽव्यय’’ इति श्रवणाच्चेति भावः ।। मुक्तेरिति ।। आनन्दानुभवरूपायाः प्रागसत्या यथोदय इत्यर्थः । ‘‘बलमानन्द ओजश्च सहोज्ञानमनाकुलम् ।

स्वरूपाण्येव जीवस्य व्यज्यन्ते परमाद्विभोः ।। इत्यादिश्रुत्या परम प्रेमास्पदत्वादिनेदानीमीषदुपलब्धेश्चानन्दादिरूपत्वं जीवस्य सिद्धमपि व्यक्तिर्न सिद्धेति मुक्तेरिवेत्युक्तम् । कारणत्वं तु प्राक्सर्वथा न सिद्धम् । प्रत्युत तदभाव एव सिद्ध इति कथंचिदित्युक्तम् । ननु चतुर्थस्य चतुर्थे पादे नवमेऽधिकरणे मुक्ताः किं सृष्ट्यादिव्यापारवन्त उत नेति सन्देहे ‘‘सर्वान् कामानाप्त्वाऽमृतस्समभव’’दिति श्रुतेस्तेषां सत्यकामत्वेन कामितसर्वप्राप्त्युपपत्त्या सर्वशब्दसङ्कोचायोगान्मुक्तास्सृष्ट्यादिमन्त इति प्राप्ते ‘‘अस्माच्छरीरभेदादुत्क्रम्ये’’ति जीवप्रकरणात्तेषां जगत्सृष्ट्यादेरभावात् ‘‘स्वाधिकानन्दसम्प्राप्तौ सृष्ट्यादिव्यापृतिष्वपि । मुक्तानां नैव कामस्स्या’’दित्यादिना तेषां तत्र कामनानिषेधेन च सर्वशब्दसङ्कोचोपपत्तेर्न जगद्य्वापारवन्तो मुक्ता इति मुक्तानां विश्वकर्तृत्वस्य निषेत्स्यमानत्वात्कथमेतदित्यत आह ।। जगदिति ।। अत्रत्येति ।। तस्येदानीमनुत्थानात् । स्वर्गकामाधिकरणपूर्वपक्षदशायां भावाधिकरणस्येवेति भावः । उपचारे बीजमाह ।। न ह्यन्यस्येति ।। भाष्येति ।। ‘‘न ह्यन्यस्ये’’ति भाष्ये युक्तेरेवोक्तेरिति भावः । तदुपलक्षणमस्त्वित्यत आह ।। पृथगिति ।। तत्र श्रुत्यवष्टंभेनैवाभेदपूर्वपक्षकरणादिति भावः । एतेन ‘‘मुक्तजीवाभिन्नस्यापि कथंचिज्जगत्कारणत्वं निर्वोढुं शक्य’’मित्यादिटीका विवृता । ‘‘द्वितीयेत्विदमुपतिष्ठते । नान्यदिती’’ति सुधावाक्यं हृदि कृत्वाऽऽह ।। द्वितीयस्त्विति ।। च्विप्रत्ययेति ।। अत एव टीकायां ‘‘यो यथा श्रूयते स तथैवेति व्याप्ते’’रित्युक्तमिति भावः । एवं पक्षभेदेनाविरोधमुक्त्वा पक्षैक्येनापि तमाह ।। तृतीयस्त्विति ।। एतं वेति ।। अयं च पक्षः ‘‘द्वितीयनिराकरणेन तृतीयपक्षस्य निरस्तत्वा’’ दिति सुधावाक्यादवगम्यत इति भावः । ‘‘जीवाभेदो ह्युभयगतविरुद्धधर्मत्यागेन जीवस्येश्वरसालक्षण्यग्रहणेन वेश्वरस्य जीवसालक्षण्यग्रहणेन वा सम्भवती’’ति टीकां विवरीतुमाह ।। अत्र चेति ।। एकपदेति ।। जीवपरवाचिपदयोर्मध्ये इत्यर्थः ।। वैयर्थ्यादिति ।। भेदभ्रमनिरासार्थत्वात्तस्येति भावः ।। असत्यं त्विति ।। तदुक्तं सुधायां ‘‘न च काल्पनिकं लक्षणमस्त्विति वाच्यम् । अनङ्गीकारात् । प्रधानादिष्वपि सम्भवेनातिप्रसङ्गाच्चे’’ति । उक्तलक्षणदोषेषु टीकाविरोधमाशङ्क्याह ।। पूर्वपक्षेति ।। न त्विति ।।

येनोक्तातिव्याप्त्यादिदोषो न युक्तस्स्यादिति भावः ।। प्रस्तुतेति ।। ‘‘सर्वथा न जगत्करणत्वादीश्वरैकनिष्ठ’’मिति प्रस्तुतेत्यर्थः । एतेन ‘‘न ब्रह्मणो जगत्कारणत्वं वास्तवं भवती’’ति सुधावाक्यमप्युक्ताभिप्रायमिति भावः ।

ननु तत्र जीवसालक्षण्यमेव भाति । तत्कथमित्यत आह ।। सुधायां त्विति ।।

चन्द्रिकाविवृतिः

अत्र त्रयः पक्षा इति ।। इदं च पक्षत्रयं, एवं वदन् पृष्टव्यः ।। किं जीवेशयोः पूर्वं पश्चाच्चाभेद उत पूर्वं भेदाभेदौ पश्चादभेदः, अथ पूर्वं भेदः पश्चादभेद इति विकल्प्य सुधायामेव सूचितम् । ननु मुक्तजीवस्य जगत्कर्तृत्वं जगद्य्वापारवर्जमित्यादौ निराकृतमित्यत आह ।। जगद्य्वापारवर्जमित्यत्र त्विति ।। ननु मुक्तेः पूर्वमपि ऐक्याङ्गीकारे एकाभवन्तीति च्विप्रत्ययविरोध इत्यत आह ।। एकाभवन्तीति ।। ननु पूर्वमप्यभेदसिद्धौ अभेदोपदेशवैय्यर्थ्यमित्यत आह ।। भेदभ्रमेति ।। भाष्यविरोधात् न ह्यन्यस्येत्यादियुक्तिविरोधप्रतिपादकभाष्यविरोधात् । तथा च च्विप्रत्ययास्वारस्य-श्रुतिविरोधादि भिन्नप्रतिपादनीयमित्यर्थः ।। पृथगुपदेशेति ।। तत्रापि तत्त्वमसीत्यादि श्रुतिविचारात् ।। पूर्वं भिन्नस्य कथमुत्तरत्राभेद इत्यत आह ।। न ह्यन्यस्येति ।। आद्यपक्षे न ह्यन्यस्येत्यादिभाष्यस्वारस्यमनुरुध्य च्विप्रत्ययास्वारस्यमङ्गीकृतम् । द्वितीयपक्षे च्विप्रत्ययस्वारस्यमनुरुध्य न ह्यन्यस्येत्यादिभाष्योक्त-युक्तेराभासत्वमङ्गीकृतमिदानीं च्विप्रत्ययभाष्योभयस्वारस्यानुरोधेन पक्षान्तरमाह ।। तृतीयस्त्विति ।। केवलभेदाभावादिति ।। च्विप्रत्ययेन केवाभेद एवोच्यत इति भावः ।। पूर्वमप्यभेदस्येति ।। तथा च पूर्वमत्यंतभिन्नस्यैवान्यभावो नास्तीति भाष्याभिप्रायः । न तु भिन्नाभिन्नस्यापि अन्यभावो न भवतीति ।। ननु पूर्वपक्षे भेदाभेदस्याभिप्रेतत्वे भाष्ये पूर्वं संसारदशायां अभेदसाधकयुक्तिवत् भेदसाधकयुक्तिरप्युप-न्यसनीया स्यात् । अनुव्याख्याने च भिन्नत्वेऽभेदो नोपपद्यत इति या युक्तिरुक्ता साप्ययुक्ता स्यादित्यत आह ।। तत्र भाष्ये च्विप्रत्ययेनेति ।। तत्राद्य इति ।। त्रिष्वपि पूर्वपक्षेषु प्रत्येकमपि आद्ये ब्रह्मणः प्रत्यक्षसिद्धासर्वकर्तृजीवसालक्षण्यपक्षे इत्यर्थः । तथा च ब्रह्मणोऽपि सर्वकर्तृत्वाभावप्राप्त्याऽसम्भव इति भावः ।। एवमुत्तरत्रापि द्वितीये तृतीयेऽपि इति पदयोरपीश्वरसालक्षण्यचिन्मात्रपक्षपरतया योजना कर्तव्या ।

ईश्वरसाक्षण्यं जीवस्येति पक्षे पूर्वपक्षरीतित्रयानुसारेण क्रमेणातिव्याप्तिमुपपादयति ।। सदापि शुद्धाभेद इत्यादिना ।। सत्यं कर्तृत्वमिति ।। चिन्मात्रे तदतिरिक्तं सत्यस्य कर्तृत्वस्याभावादिति भावः । ननु पदद्वयाक्षणयेत्यादिचिन्मात्रविषयः पक्षः टीकायां नोक्तमतो विरोध इत्यत आह ।। एवं चोभयगतेति ।। ननु टीकायां न परमार्थतो जगत्कर्तृत्वं ब्रह्मण इत्युक्तया व्यवहारतः जगत्कर्तृत्वं ब्रह्मण्यङ्गीकृत-मिवाभाति । भवद्भिश्च पक्षत्रयेऽपि जगत्कर्तृत्वस्य ब्रह्मण्यनङ्गीकृतत्वेनान्यत्रातिव्याप्त्या दूषणमुक्तम् । तथा च कथं जगत्कर्तृत्वाङ्गीकारो ब्रह्मणि युक्त इत्यत आह ।। टीकायां परमार्थत इति ।। प्रस्तुतेति ।। जगत्कारणत्वक्षणेऽतिव्याप्त्यादावनुपयोगादित्यर्थः ।।