‘‘नेह नाने’’त्यादिना तु ब्रह्मणि भेद एव निषिद्धः

गुहां प्रविष्टौ आत्मानौ इत्यत्र द्वित्वं एकस्य युज्यते इत्युपपादनम्

तात्पर्यचन्द्रिका

‘‘नेह नाने’’त्यादिना तु ब्रह्मणि भेद एव निषिद्धः । न त्वनेकत्वसङ्ख्या । प्रत्युत ‘‘अयं वै हरयोऽयं वै दश च सहस्राणि च बहूनि चानन्तानि तदेतद्ब्रह्मापूर्वमनपरमनन्त’’ मित्यादिश्रुत्या हि सा विहिता । विरोधं तु भेदप्रतिनिधिविशेषो वारयिष्यति । किञ्च ब्रह्मण आनन्दमात्रात्मकत्वे तत्स्फुरणाभावः ज्ञानमात्रात्मकत्व आनन्दाभाव इत्युभयथापि मोक्षस्यापुमर्थत्वं स्यात् । परमतेऽपि सुखप्रकाशस्य पुमर्थत्वात् । ज्ञानानन्दोभयात्मकत्वे तु सिद्धमेकस्याप्यनेकत्वम् । एवं च यथा नवमे ‘‘मेधपतये मेधं मेधपतिभ्यां मेध’’मित्यत्र मेधपतिशब्दार्थयोरग्नीषोमयोरेकवचननिर्वाहाय देवतात्वेनैकत्वम् । देवतात्वस्य व्यासक्तत्वात् । द्विवचननिर्वाहाय देवतात्वाधिष्ठानरूपेण द्वित्वमिति द्वित्वैकत्वयोस्समुच्चयस्तथेहापि ब्रह्मणः स्वरूपेणैकत्वं रूपविशेषेण द्वित्वमिति श्रौतयोर्द्वित्वैकत्वयोः समुच्चयोऽस्तु । ‘‘इन्द्रो मायाभिः पुरुरूप ईयते यदेकमव्यक्तमनन्तरूपं एकं रूपं बहुधा यः करोति, पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः’’ । इत्यादिश्रुतिस्मृतिभिरेव समुच्चयावगतेः । तदेतदभिप्रेत्योक्तमनुव्याख्याने ‘‘द्वित्वं चैकस्य युज्यत’’ इति । न्यायविवरणे च ‘‘द्विवचनश्रुतेरपि न निरवकाशत्वम् । विष्णोरेव द्विरूपत्वा’’दिति । ‘‘न सङ्ख्योपसङ्ग्रहादपि नानाभावा’’दित्यत्र तु निर्भेदस्य ब्रह्मण आधाराधेयभावानुपपत्तिशङ्का निर्भेदत्वेऽप्यनेकत्वस्यापि सत्त्वात्तन्मात्रेणाधाराधेयभावोपपत्तिरिति समाधास्यते । न त्वत्रेवैकस्यानेकत्वानुपपत्त्या शङ्का । येन पुनरुक्तिः स्यात् । अत एव तत्र टीका ‘‘आधाराधेयत्वादिलिङ्गेनान्यत्रैव प्रसिद्धानां पञ्चजनादिशब्दाना’’मिति ।

प्रकाशिका

ननु श्रुत्याऽनेकत्वनिषेधान्नैवमित्यत आह ।। नेह नानेति ।। किञ्चन गुणकर्मादिकं नानाभिन्नं नेति भेदस्यैव निषेध इत्यर्थः ।। इत्यादिश्रुत्येति ।। चतुर्थबृहदारण्यकश्रुत्येत्यर्थः । आदिपदेन ‘‘युक्ता ह्यस्य हरयश्शता दशे’’ति ‘‘तस्य ह वा एतस्य परमस्य त्रीणि रूपाणि कृष्णो रामः कपिल इति तस्य ह वा एतस्य पञ्चरूपाणि शतरूपाणि सहस्ररूपाण्यमितरूपाणी’’त्यादि गृह्यते । एतेन ‘‘प्रमितत्वा’’दित्येतद्विवृतं भवति ।। भेदेति ।। घटपटयोर्भेदो द्वित्वनिर्वाहकः । इह तु भेदस्य ‘‘नेह नाने’’ति निषेधात् ‘‘अयं वै दश चे’’त्यादिनैकत्वानेकत्वयोः प्रमितत्वात्सोमकार्यनिर्वाहकेण सोमप्रतिनिधिना पूतिकेन सोमकार्यमिव भेदकार्यमविरोधः भेदप्रतिनिधिना स्वरूपसामर्थ्यापरपर्यायेण विशेषेण भविष्यतीत्यर्थः । समर्थितश्च विशेषपदार्थो मूलग्रन्थेषु तत्र तत्र । न्यायामृते द्वितीयपरिच्छेदे चेति भावः । यदप्यनुभाष्यसुधयोः ऋतं पिबन्ताविति द्विवचनविषयतया प्रकृतयोर्द्वित्वाधारयोः ‘‘यस्सेतुरित्येकवचनेन विशेषणादभेदैकत्वाधारतयाऽवगमा’’दित्यादिना प्रकृतवाक्य एव द्वित्वैकत्वयोरैकाधिकरण्यं प्रमितमित्यविरोध उक्तः तथापि तस्य स्पष्टत्वाद्वा विचारहीनवाक्यान्तरेऽपि प्रमितत्वमस्तीति भावेन वा ‘‘अयं वै हरय’’इत्यादिश्रुत्यन्तरोक्तिः । सुधायां प्रमितत्वोक्तावपि कथं निर्वाह इति शङ्कापि विरोधं त्वित्यादिना परिहृता । इदानीं ‘‘आत्मान्तरात्मेति हरिरेक एव द्विधा स्थित’’ इति भाष्यानुरोधेनात्मानाविति सौत्रपदसूचितपरिहारमाह ।। किञ्चेति ।। सिद्धमेकस्याप्यनेकत्वमिति ।। सत्यम् । कथं निर्वाह इति चेद्विशेषबलादित्येको निर्वाहः प्रागुक्तः । अन्यमपि दृष्टान्तपूर्वमाह ।। एवं चेति ।। एकस्यानेकत्वे प्रमिते सतीत्यर्थः । नवमे तृतीयपादे ‘‘मेधपतित्वं स्वामिदेवतस्य समवायात्सर्वत्र च प्रयुक्तत्वात्तस्य चान्याय्यनिगदत्वात्सर्वत्रैवाविकारस्स्या’’दिति द्वादशेऽधिकरणे चिन्तितं अग्नीषोमीये पशावध्रिगुप्रैषे ‘‘आशासानामेधपतिभ्यां मेध’’मिति क्वचिच्छाखायां श्रुतम् । क्वचित् ‘मेधपतये मेध’मिति । तत्र किमुभयोर्विकृतिष्वविकार उत द्विवचनस्य देवतापर ऊह एकवचनस्य यजमानपर ऊहोऽथवोभयोर्यजमानपर ऊहः किं वोभयोर्देवतापर ऊह इति चतुर्धा संशये मेधपतिशब्देन मेधस्य पशोस्स्वामी यजमानो देवताभूतौ चाग्नीषोमौ चेत्युभयेऽप्युच्यन्ते । तेन द्विवचनमेकवचनं चान्याय्यनिगदमित्यनूह इत्येकः पक्षः । सम्भवत्यर्थपरत्वेऽन्याय्यनिगदत्वायोगात्प्रकृतौ द्विवचनान्तो देवतावचनस्तेनासौ देवताविवृद्धावूहितव्यः एकवचनान्तस्तु यजमानवचनस्तेन तद्विवृद्धावूहितव्य इति द्वितीयः एकोऽयं मन्त्रश्शाखाप्रभेदेन किञ्चिद्भिन्नश्श्रुतस्तेन यजमानपरत्वे मेधपतये यो मेधः पशुः तमाशासाना इति सम्बन्धः । देवतापरत्वे मेधपतिभ्यामाशासाना इति । न चैकस्य वाक्यस्य वचनव्यक्तिद्वयं सम्भवतीत्युभाभ्यां यजमानस्य वा देवताया वाऽनियमेनाभिधानम् । तत्र देवतापरत्वेऽग्नीषोमयोर्द्वित्वादेकवचनमयुक्तम् । यजमानपक्षे तु द्वित्वं पत्न््नयभिप्रायत्वेनावकल्पत इति प्रकृतौ स्वामिपरावुभावपि स्वामिवशादूहितव्याविति तृतीय इति प्राप्ते मेधमाशासाना इत्युक्ते किमर्थमाशासाना इत्यपेक्षा भवति । तत्र मेधपतिभ्यामाशासाना इत्यपेक्षितार्थपूरणाय सम्बध्यते । न च यजमानायासावाशास्यते । तस्यैव हि देवताभ्यामाशास्यते । अतो देवतावचनम् । एकवचनं त्वग्नीषोमयोरुभयोर्व्यासक्तं देवतात्वम् । तेन देवतात्मनोभयोरेकत्वात्तदभिप्रायम् । द्विवचनं त्वग्नीषोमौ देवते इतिवदधिष्ठानापेक्षम् । तेन द्विवचनमधिष्ठानसङ्ख्यावशात् । एकवचनं तु देवतासङ्ख्यावशाद्विकृतिषूहितव्यमिति सिद्धान्त इति । एवं च यथा ब्रह्मणस्स्वरूपेणैकत्वेऽपि ज्ञानानन्दोभयात्मकत्वेनानेकत्वं मायिनां मते यथा च मीमांसकमते मेधपतय इत्यादेर्द्वित्वैकत्वयोर्देवतात्त्वादि रूपभेदेनोपपत्तिस्तथेहापीत्यर्थः ।

ननु तत्र वचनद्वयेन द्वित्वमेकत्वं चावगतमित्यत आह ।। इन्द्र इति ।। तदेतदिति ।। प्राचीनमिदं चेति मतद्वयमभिप्रेत्येत्यर्थः । अन्त्यपक्षं मूलारूढं करोति ।। न्यायविवरणे चेति ।। एतेन ‘‘द्विवचनं द्विरूपत्वाभिप्रायेणे’’ति टीका न्यायविवरणमूलेति सूचितम् । नन्वत्रैव भगवति द्वित्वस्य व्युत्पाद्यत्वेऽत्रैव चतुर्थपादे ‘‘न सङ्ख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्चे’’ति तृतीयाधिकरणे

यस्मिन्पञ्चपञ्चजना आकाशश्च प्रतिष्ठितः ।

तमेव मन्य आत्मानं विद्वान्ब्रह्मामृतोऽमृतम् ।।

इति वाक्ये पञ्चपञ्चेति वीप्सया प्रतिशरीरं पञ्चत्वसङ्ख्याविशिष्टतया जनशब्देनोक्तः किं विष्णुरन्यो वेति संशये पञ्चजनशब्दस्य बहुत्वसङ्ख्याविशिष्टवस्तुवाचित्वाद्बहुत्वस्येश्वरे विरुद्धत्वाच्चान्य इति प्राप्ते स्वगतभेदशून्यस्यापि नानारूपत्वेन बहुत्वसङ्ख्योपसङ्ग्रहाविरोधाद्विष्णुरेवेति सिद्धान्तितत्वेन तेन गतार्थमिदमित्यत आह ।। न सङ्ख्येति ।। तत्र न बहुत्वानुपपत्तिः पूर्वपक्षयुक्तिः । किन्तु यस्मिन्निति सप्तम्या निर्दिष्टस्य तमेवेति वाक्यशेषबलेन विष्णुत्वात्तदाधेयतयोक्तानां पञ्चजनाकाशशब्दोक्तानां न विष्णुत्वम् । एकस्यैवाधाराधेयभावायोगादिति प्राप्ते अत्र सिद्धेनानेकत्वेन तत्समाधानं तत्र करिष्यते । अत एव तत्र टीका ‘‘न ह्येकस्यैवाधाराधेयभावो युज्यत’’ इत्यादि । न त्वनेकत्वं व्युत्पाद्यते । येन पौनरुक्त्यमित्यर्थः । एतेन न्यायविवरणटीकायामानन्दमयनयेन गतार्थत्वाशङ्कादि तु दिक्प्रदर्शनपरमिति भावः ।

चन्द्रिकाबिन्दुः

अनेकत्वसंख्यायां न निषेध इत्युपपाद्य प्रमितत्वमुपपादयति ।। प्रत्युतेति ।। एकस्यापि विशेषबलेनानेकसङ्ख्याश्रयत्वं परेणाप्यङ्गीकर्तव्यमित्यभिप्रायेणाह ।। किञ्चेति ।। मेधपतय इति ।। मेधपतिशब्दो देवतापरः । न सङ्ख्याधिकरणेन गतार्थत्वं त्रेधा परिहर्तुमाह ।। न सङ्ख्येति ।।

पाण्डुरङ्गि

नन्वेवं वस्तुगत्याऽनेकत्वसङ्ख्याभ्युपगमे वस्तुगत्याऽऽनन्दादिसम्बन्धोऽभ्युपेयः आनन्दं ब्रह्मण इति सम्बन्धव्यवहारस्य तत्रापि सत्त्वात् । यदि सम्बन्धाभावेऽपि विशेषबलाद्व्यवहारमात्रं तर्हि प्रकृतेऽप्यनेकत्वसङ्ख्याभावेऽपि विशेषबलादेव व्यवहार इति समानमित्यपरितोषादाह ।। किञ्चेति ।। व्यासक्तत्वात् । व्यासज्यवृत्तित्वादित्यर्थः । ननु न सङ्ख्योपसङ्ग्रहादपीत्यधिकरणे एकस्यानेकत्वानुपपत्तिशङ्काया रूपबहुत्वाभिप्रायेणपरिहृतत्वादत्रापि तत्प्रतिपादने पौनरुक्त्यमित्यत आह ।। नेति ।।