यदुक्तमुभाभ्यां ईश्वरः सस्ये पर्जन्य इव साधारणकारणम्
परमतपरीक्षा
तात्पर्यचन्द्रिका
यदुक्तमुभाभ्यां ईश्वरः सस्ये पर्जन्य इव साधारणकारणम् । कर्माणि तु बीजानीवासाधारणकारणानि । बीजशक्तिवैचित्र्याद्धि व्रीहियवादिसस्यवैचित्र्यम् । तस्मान्नेश्वरस्य वैषम्यादीत्याद्यसूत्रार्थ इति । तन्न । असाधारणकारणस्यापि कर्मणः ‘‘एष ह्येव साधुकर्म कारयती’’त्यादि श्रुत्या ‘‘पुण्यपापादिकं विष्णुः कारये’’दित्यादिस्मृत्या चेश्वरकारितत्वेन वैषम्याद्यनिस्तारात् । न चाबाध उपचरितार्थत्वं बहुश्रुत्यादेर्युक्तम् । उक्तं हि ‘‘परात्तु तच्छते’’रित्यत्र भामत्यामपि ‘‘एष ह्येव साधुकर्म कारयतीत्येवमादयस्तावच्छतयः सर्वव्यापारेषु जन्तूनामीश्वरपरतन्त्र तामाहुः । तदसति बाधकेन प्रशंसामात्रपरतया व्याख्यातुमुचित’’मिति ।
एतेन यत्कैश्चिदुक्तं ‘‘जीव ईश्वरदत्तया साधारण्या स्वातन्त्र्यशक्तया स्वयमेव शुभाशुभयोः प्रवर्तते । ईशस्त्वशुभ उपेक्षते । शुभे त्वनुमन्यत इति न वैषम्यादि । तदुक्तं
आदावीश्वरदत्तयैव पुरुषः स्वातन्त्र्यशक्तया स्वयं
तत्तज्ज्ञानचिकीर्षणप्रयतनान्युत्पादयन् वर्तते ।
तत्रोपेक्ष्य ततोऽनुमन्य विदधत्तन्निग्रहानुग्रहौ
तत्तत्कर्मफलं प्रयच्छति ततः सर्वस्य पुंसो हरिः ।।
इतीति । तन्न । शुभाशुभप्रवृत्तिहेतुस्वातन्त्र्यदानप्रयुक्तवैषम्याद्यनिस्तारात् । ‘‘य आत्मानमन्तरो यमयति एष ह्येव साधुकर्म कारयति न ऋते त्वत्क्रियते किं च नारे’’ इत्यादिश्रुत्या
यथा दारुमयीं योषां नरः स्थिरसमाहितः ।
भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ।।
इत्यादिस्मृत्या च विरोधाच्च । ईशप्रेरणं विना प्रवृत्तौ च कथं जीवस्येश्वरशरीरत्वम् । कथं च जीवस्य स्वाहिते स्वयमेव प्रवृत्तिः । हितभ्रांत्या चेद्भ्रांतेरपीश्वरकर्तृकत्वेन वैषम्यादि दुर्वारम् । किञ्चेश्वरस्य शक्तस्याप्युपेक्षायां निर्घृणत्वादि दुर्वारम् । अशक्तत्वे तु ‘‘आत्मनि चैवं विचित्राश्च हि सर्वोपेता च तद्दर्शना’’दित्यादिसूत्रैः ‘‘परास्य शक्ति’’रित्यादिश्रुतिभिश्च विरोधः । एतेनैवेश्वरेच्छा अस्त्वित्येवं सामान्याकारा । न तु विशेषाकारा ततो न वैषम्यादीति तार्किककल्पनाप्यपास्ता । यस्य कस्यापि यत्किञ्चिदस्त्वित्येवमाकारत्वे हि कदाचिदीश्वरस्य दुःखं सुकृतादिमतो नरकादिकं च स्यात् । नापि मदिष्टमस्त्वित्येवमाकारा । तदिच्छास्वरूपस्याद्याप्यनिरूपणात् । तस्य तस्य तत्तत्कर्मानुसारेण सुखाद्यस्त्वित्येवमाकारत्वे च कर्मण ईशानधीनत्वे श्रुत्यादिविरोधः । अधीनत्वे च वैषम्यादि दुर्वारम् । तस्मादनादियोग्यतानङ्गीकारे वैषम्यादि दुर्वारम् ।
यच्चोक्तमुभाभ्यां आदिसृष्टौ कर्मैव नेति न शङ्क्यम् । अनादित्वात्संसारस्येति द्वितीयार्थ इति । तन्न । मम रीत्या सुप्रसिद्धां संसारानादितामुपेत्यापेक्षितं कर्मापीशकारितमित्यवश्यपरिहर्तव्यप्रबलशङ्कापरिहारपरत्वस्य ‘अनादित्वात्कर्मणश्चे’ति भाष्योदाहृतस्मृत्यनुसारिणः सम्भवेऽन्यपरत्वायोगात् । तृतीयस्यापि मम रीत्या न च कर्मसापेक्षत्वे स्वातन्त्र्यानुपपत्तिः । कर्मणामीशाधीनत्वेन तदुपपत्तेः । न चैवं पुनर्वैषम्याद्यापत्तिः । स्वाधीनकर्मापेक्ष्य विचित्रफलप्रदत्वस्य श्रुत्यादिषूपलभ्यमानत्वेनेष्टापत्तेरित्यवश्यपरिहार्यशङ्काद्वयनिरासकत्वसम्भवे परोक्तसंसारानादित्वोपपत्त्यादि परत्वमयुक्तम् । न हि संसारानादित्वेऽनुपपत्तिशङ्कास्ति । यद्यप्याद्यसूत्रे वैषम्यनैर्घृण्ये द्विवचननिर्दिष्टे । तथापि ‘‘स कारयेत्पुण्यमथापि पाप’’मिति विषयवाक्य उभयकारयितृत्वस्यैकवचनेन निर्देशात्तदनुसारेणेह सूत्र ‘‘उपलभ्यते चे’’त्येकवचनं यथा ‘‘आत्मनी’’ति पूर्वसूत्रे पुंल्लिङ्गेनात्मशब्देन निर्देशेऽपि ‘‘सर्वोपेते’’ति सूत्रे विषयवाक्यस्थदेवताशब्दानुसारेण स्त्रीलिङ्गं तद्वत् । परेषां त्विदमधिकरणमत्यन्तासङ्गतम् । भ्रांतत्वेन वा भ्रमाधिष्ठानत्वेन वा वैषम्यादिशङ्कानुदयात् । न हि स्वप्नेऽयं सुखयन् दुःखीति भ्रांतिमतस्तद्विषयस्य वा वैषम्याद्यस्ति । मायावित्वे चेश्वरस्य स्वमायाकल्पितकर्मादिज्ञानायोगेन तत्सापेक्षत्वोक्तययोगात् । अत एव भामत्यां ‘‘अभ्युपेत्य च सृष्टेस्तात्विकत्वमिदमुक्तम् । अनिर्वाच्या तु सृष्टि’’रित्यस्याधिकरणस्य स्वमतप्रतिकूलतोक्ता ।। छ ।। वैषम्यनैर्घृण्याधिकरणम् ।। १० ।।
प्रकाशिका
सूत्राक्षरार्थोऽतिरोहित इति तात्पर्यार्थमनुवदति ।। ईश्वर इति ।। यद्यपीदं परभाष्य एवोक्तम् । तथापि
निमित्तमात्र एवासौ सृज्यानां सर्गकर्मणि ।
प्रधानकारणीभूता यतो वै सृज्यशक्तयः ।।
इत्यादिपराशरस्मृतिमुदाहृत्य ‘‘सृज्यानां देवादीनां कर्मशक्तिरेव देवादिवैचित्र्यहेतु’’ रित्यादि वदतो रामानुजभाष्यकृतोऽप्यनुमतत्वादुभाभ्यामुक्तमित्युक्तम् । उपचरितार्थत्वं प्रशंसार्थत्वम् । ननु भामत्यामेतदाशङ्क्य ‘‘जन्मजन्म यदभ्यस्तं दानमध्ययनं तपः । तेनैवाभ्यासयोगेन तच्चैवाभ्यस्यते पुन’’रित्याद्युदाहृत्य कर्मानादित्वेन समाहितमिति चेन्न । पूर्वकर्मणोऽप्यन्यथाकरणशक्तिमत्त्वेन ‘‘स्वभावमन्यथाकर्तुं यश्शक्तोऽप्यनुवर्तत’’ इत्यादिनाऽस्मदुक्तसमाधेरेवानुसर्तव्यत्वादिति भावः ।। साधारण्येति ।। सदसत्प्रवृत्तिसाधारण्येत्यर्थः । एतच्च ‘‘कर्ता शास्त्रार्थवत्त्वा’’दित्यत्र विवरिष्यते । एतेनेत्युक्तमेव व्यनक्ति ।। शुभाशुभप्रवृत्तीति ।। स्मृत्या चेति ।। श्रुतौ स्मृतौ च सर्वत्र पारतन्त्र्यस्यैव जीवे प्रतीतेरिति भावः । यदप्यशुभ उपेक्षत इति तदपि नेत्याह ।। किं चेति ।। ‘‘न कर्माविभागा’’दिति सूत्रार्थं प्रत्याचष्टे ।। यच्चेति ।। सृष्टेः प्राक्कर्म न विद्यते । कुतः । अविभागात् । ‘‘सदेव सोम्येदमग्र आसीदेकमेवाद्वितीय’’मित्यविभागश्रवणात् । सृष्टेरूर्ध्वमीश्वरः कर्मापेक्षः प्रवर्तताम् । प्राक्त्वविभागादेकरूपैव सृष्टिस्स्यादिति शङ्कार्थः ।। तृतीयस्यापीति ।। परमत एव तृतीयत्वम् । मतान्तरे तु पूर्वेणैकयोगत्वात् । अनादित्वं कथमित्यवतार्य ‘‘उपपद्यते संसारानादित्वम् । अन्यथा कृतहानाकृताभ्यागमप्रसङ्गात् । उपलभ्यते च तदनादित्वं धाता यथापूर्वमित्यादा’’वित्युक्तं परैः । तत्प्रत्याख्याति ।। ममेति ।। परोक्तेति ।। मायावाद्युक्तेत्यर्थः ।। ज्ञानायोगेनेति ।। मायाविनो मायिकादर्शनादिति भावः ।। छ ।। वैषम्यनैर्घृण्याधिकरणम् ।। १० ।।
चन्द्रिकाविवृतिः
उपचरितार्थत्वमिति ।। विष्णोः कर्मकारयितृत्वाभावेऽपि तदुक्तिः केवलं विष्णुप्रशंसामात्रपरेत्येवंरूपेणेति शेषः ।। शुभाशुभप्रवृत्तीति ।। शुभाशुभप्रवृत्तिहेतुभूतं यत्स्वातन्त्र्यं तद्दानेत्यर्थः ।। ईश्वरस्य तत्तजीवकर्तृककर्मण्यपि कर्तृत्त्वानङ्गीकारो हि पूर्वपक्षिणा कृतस्तत्र दूषणमाह ।। यमात्मानमन्तरो यमयतीत्यादिना ।। कथं जीवस्येति ।। ईश्वरदत्तस्वातन्त्र्यवत्त्वे जीवस्यस्वाहितप्रवृत्तिर्न स्यात् ।। न ह्यन्यदत्तस्वातन्त्र्योऽपि पुमान् पराधीनस्वातन्त्र्यवत्स्वाहिते प्रवर्तते इति युज्यत इति भावः ।। तदिच्छास्वरूपस्येति ।। इच्छाविषयो हीष्टः । अद्यापीच्छाप्रकार एव न निरूपित इति मदिष्टमस्त्वित्यादि-प्रकारा इच्छेति वक्तुं न युक्तमिति भावः ।। भ्रान्तत्वेनेति ।। ब्रह्मणीति शेषः ।। तद्विषयस्य भ्रमाधिष्ठानस्य ।। अत एव मायाविन ईश्वरस्य मायिककर्मादिज्ञानयोगेन तत्सापेक्षत्त्वोक्त्ययोगादेवेत्यर्थः ।।