न जीवशक्तेरीशायत्तत्वम्
पृथगधिकरणम्
तात्पर्यचन्द्रिका
जीवब्रह्मणो: भेदसमर्थनम्
ॐ पृथगुपदेशात् ॐ ।।
न जीवशक्तेरीशायत्तत्वम् । तयोरभेदादिति पूर्वाक्षेपेण पूर्वपक्षोत्थानात्सङ्गतिः । अत्रोक्तं जीवान्यस्य ब्रह्मणो जगत्स्रष्टृत्वादिकं किं जीवब्रह्माभेदश्रुतिविरुद्धं न वेति चिन्ता । तदर्थं षडि्वधतात्पर्यलिङ्गोपेतयाऽभेदश्रुत्या बाधितत्वाद्भेदश्रुतिरप्रमाणमुतोपजीव्यसयुक्तिकभेदश्रुतिबाधितत्वादद्वैतश्रुतिर्गौणीति । तदर्थमभेदश्रुतिः किमुपजीव्याविरोधाय पदद्वयलक्षणयैक्यपरोत तदविरोधाय तत्पदमात्रस्य गौणार्थत्वेन(गौणा)भेदपरेति ।। सकलजगद्गुणसदृशगुणात्मकत्वेनेति ।। ‘‘सर्वभूतगुणैर्युक्तं देवं त्वं ज्ञातुमर्हसी’’ति भारते ‘‘गामाविश्य च भूतानि धारयाम्यहमोजसे’’त्यादि गीतासु च पृथिव्यादीनां ये धारकत्वादयो गुणास्तत्सदृशगुणात्मकत्वस्य ब्रह्मण्युक्तेरिति भावः ।।
लक्षणावृत्तौ हीत्यादि ।। परमते पदद्वये लक्षणा । मम मते तु तत्पदमात्रे गौणी । न चाल्पबाधेनैवोपपत्तौ बहुबाधोऽन्याय्य इति भावः । टीकायां सामानाधिकरण्यस्य गौणत्वोक्तेस्तु तत्पदं सर्वकर्तृत्वादिविशिष्टब्रह्मपरमेव । तत्त्वंपदयोः सामानाधिकरण्यं तु नाभेदपरम् । किं तु सादृश्यपरमिति नाभिप्रायः । सिंहस्याध्ययनमित्यादौ सामानाधिकरण्याभावेऽपि सिंहप्रातिपदिकस्यैव सदृशे गौणत्वात् । सन्न्यायरत्नावल्यां ‘‘तत्त्वमसी’’त्यत्र जगत्स्रष्टृपरामर्शिनस्तच्छब्दस्यैव त्वंशब्दवाच्ये जीवे गौणवृत्त्याश्रयणेन ‘‘तत्त्वंपदयोरुभयोरपि लक्षणाश्रयणस्य पराहतात्व’’दित्युक्तत्वाच्च । अपि तु तत्पदेनैव गौण्या वृत्त्या सादृश्ये लब्धे परस्परान्वितानेकप्रकृतिनिष्ठैकविभक्तिरूपसामानाधिकरण्यार्थस्यमुख्यस्य तत्पदशक्यतावच्छेदकेन ब्रह्मत्वेन रूपेण ब्रह्माभेदस्य जीवेऽसत्त्वेऽप्य मुख्यस्य चेतनत्वादिरूपेणाभेदस्य सत्त्वात्सामानाधिकरण्येनामुख्याभेदलाभ इत्यभिप्रायः ।
अस्ति हि सिंहश्चैत्र इत्यत्रापि चैत्रे सिंहत्वेन रूपेण सिंहाभेदाभावेऽपि शूरत्वेन तदभेदः । एतदेवाभिप्रेत्यानुव्याख्याने
अतोऽभेदवदेवैताः श्रुतयः प्रवदन्ति हि ।
पौराणानि च वाक्यानि सादृश्याभेदसंश्रयात् ।। इति ।
चेतनत्वादिसादृश्यं यद्यभेद इतीष्यते ।
अङ्गीकृतं तदस्माभिर्न स्वरूपैकता क्वचित् ।। इति चोक्तम् ।
यद्यपि तच्छब्दस्य तत्सदृशेऽर्थे सति तस्य गौणार्थतावच्छेदकेन सादृश्येनैव रूपेण त्वंपदार्थजीवाभेदो मुख्य एव । तथापि शक्यतावच्छेदकेन ब्रह्मत्वेन रूपेणाभेदो न मुख्य इति द्रष्टव्यम् ।। न हि लिङ्गानीति ।। यद्यपि लिङ्गानि मानांतराविरोधे मुख्यार्थे तात्पर्यबोधकान्येव । तथापि प्रकृते मानान्तरविरोधात् मुख्यार्थे तात्पर्यं परेणैव त्यक्तम् । अमुख्यार्थमध्ये गौणेन तात्पर्यम् । किन्तु लाक्षणिक एवेत्यत्र तु लिङ्गानि न शक्तानीति भावः । अत्राभेदश्रुतेरर्थान्तराणि उपजीव्यप्रमाणविरोधः परकीयार्थे तात्पर्यलिङ्गविघटनं स्वमते तत्समर्थनं भेदे बहुप्रमाणानि च भाष्यकारादिभिरन्यत्रोक्तानि । तत्सङ्ग्रहश्च न्यायामृते जीवेश्वरभेदप्रकरणेऽस्माभिः कृतो द्रष्टव्यः ।।
प्रकाशिका
अभेदादिति ।। मिथ्याभेदेन तदायत्तत्वं तु न युक्तम् । सर्वज्ञस्येश्वरस्य भेदभ्रान्तेरयोगेन नियमनायोगादिति भावः । विरोधस्फोरणाय जीवान्यस्येत्युक्तम् । पूर्वोक्तं जगत्स्रष्टृत्वादिकमित्यर्थः । ब्रह्मशब्देन निर्दिष्टजीवान्यस्यैव जन्मादिसूत्रे स्रष्टृत्वाद्युक्तेरिति भावः । ‘‘षडि्वधतात्पर्ये’’त्यादि टीकासूचितामाह ।। षडि्वधेति ।। ‘‘विरुद्धधर्माधिकरणत्वयुक्तियुक्तत्वेने’’ति ‘‘उपजीव्यप्रमाणविरुद्धं चे’’ति च टीकासूचितां कोटिमाह ।। उपजीव्येति ।। ‘‘तत्त्वंपदवाच्यार्थपरित्यागेने’’त्यादि टीकासूचितामाह ।। पदद्वयेति ।। तत्पदमात्रस्येति ।। ‘‘असिपदमात्रस्य गौणार्थत्ववर्णन’’मिति टीका तु व्याकरिष्यत इति न तद्विरोध इति भावः । टीकाक्षरार्थमाह ।। सकलेति ।। सन्न्यायरत्नावल्यामिति ।। ‘‘तथापि तु चिदानन्दपूर्वास्तत्सदृशा गुणा’’ इत्यनुव्याख्यानव्याख्यावसर इत्यर्थः । तर्हि को भावष्टीकाया इत्यत आह ।। अपि त्विति ।। एवमाशयेन टीकोक्तौ बीजमाह ।। एतदेवेति ।। श्रुतयः अहं ब्रह्मास्मीत्यादयः । ‘‘अहं हरिस्सर्वमिदं जनार्दन’’ इत्यादिपौराणवाक्यानीत्यर्थः । ‘‘सामानाधिकरण्यममुख्य’’मित्येतदाक्षिप्य घटयति ।। यद्यपीति ।। तत्सदृशे तत्सदृश इत्यर्थे सतीत्यर्थः । तस्य तत्सदृशरूपार्थस्येत्यर्थः ।। अन्यत्रोक्तानीति ।। अनुव्याख्यानतत्वनिर्णयबृहदारण्यकभाष्यादावित्यर्थः ।। न्यायामृत इति ।। द्वितीयपरिच्छेदे ।। पृथगधिकरणम् ।। १४ ।।
चन्द्रिकाविवृतिः
।। ॐ पृथगुपदेशात् ॐ ।। तत्पदमात्रस्य गौणार्थत्वेनेति ।। इदं तत्प्रतिपादकस्य तत्सदृशे जीवे गौणीति स्वमताभिप्रायेण । नतु टीकाकारमतमनुरुध्येति ध्येयम् ।। स्पष्टयिष्यते चैतत् । सर्वभूतगुणैः तत्तद्भूतासाधारणधारकत्वशीतस्पर्शवत्त्वपुण्यगन्धोष्णत्वादिगुणैः । अल्पबाधेन एकतत्प्रातिपदिकमात्रस्य गौणार्थाङ्गीकाराक्षणबाधेन । नन्वेवं टीकाविरोधः परस्परान्वितानेकप्रवृत्तिनिष्ठैकविभक्तिरूपशब्द-सामानाधिकरण्यस्य प्रत्ययस्यैव गौणार्थत्वमुक्तम् । भवद्भिश्च तत्प्रातिपदिकस्य गौणार्थत्त्वमुच्यत इत्यत आह ।। टीकायां सामानाधिकरण्यस्येति ।। गौणत्वोक्तेरिति नाभिप्रायः । अपि तु इत्यभिप्राय इति योजना द्रष्टव्या ।। गौणी वृत्तिः प्रातिपदिक एव वक्तव्या न तु प्रत्यये सामानाधिकरण्यरूपे । सिंहो देवदत्त इत्यादौ सादृश्यार्थाङ्गीकारेण गौण्युपपादनसम्भवेऽपि सिंहस्याध्ययनमित्यत्र सामानाधिकरण्या-भावेन गौण्यभावप्रसङ्गात् । यदि च तत्र सिंहप्रातिपदिकस्यैव देवदत्ते गौणी वृत्तिरङ्गीक्रियते तर्हि सर्वत्रापि प्रातिपदिकस्यैव गौणीवृत्तिरङ्गीक्रियतां वैचित्र्ये कारणाभावादित्यभिप्रेत्याह ।। सिंहस्याध्य-यनमित्यादाविति ।। ननु तत्प्रातिपदिकस्यैव तत्सदृशे जीवे गौणी वृत्तिरङ्गीकृता चेत् टीकाया-मेकविभक्तिरूपसामानाधिकरण्यस्याभेदरूपमुख्यार्थसम्भवेन गौणत्ववर्णनमयुक्तम् । तत्प्रातिपदिकोक्तस्य ब्रह्मसदृशस्य जीवस्य त्वंप्रातिपदिकोक्तेन जीवेनैवाभेदसम्भवादित्याशङ्क्य तत्पदशक्यतावच्छेदक-ब्रह्मत्त्वरूपेण भेदः, तत्पदशक्यतावच्छेदकातिरिक्तरूपेणाभेदः कुत्र दृष्ट इत्यत आह ।। अस्ति हीति ।।
अत्र स्वामिनः । एकविभक्तिरूपसामानाधिकरण्यमेव गौणमिति टीकाकाराणामभिप्रेतं न तु चन्द्रिकाकारोक्तम् । ननु तत्प्रातिपदिकस्थप्रत्ययस्य सादृश्यार्थत्वे तत्सदृश इत्यर्थः स्याज्जीवे तत्सदृशभेदप्रतीतिः कथमभेदार्थकप्रत्ययस्य सादृश्यार्थकत्वे सदृशाभेदबोधकान्तराभावात् तत्प्रातिपदिकस्य गौणीवृत्यङ्गीकारेण, तत्सदृशपरत्वे तु तत्सादृश्याभेदस्तत्प्रातिपदिकस्थप्रत्ययेन भविष्यति तस्मादभेदार्थप्रत्ययस्य सादृश्यार्थत्वं अयुक्तम् । कथं टीकाकाराभिप्रेतमित्युच्यत इति चेन्न ।। एकविभक्तिरूपप्रत्ययस्य सादृश्यार्थत्वेऽपि सदृशाभेदप्रत्ययस्य जीवे तत्त्वंपदसमभिव्याहारमात्रेणोपपत्तेः ।। न चैवं सर्वत्र पूर्वोत्तरपदसमभिव्याहारेणैवाभेदलाभे सामानाधिकरण्यस्य तत्राशक्तिरपि न स्वीकार्येति वाच्यम् ।। उत्सर्गतः अभेदे शक्तस्य क्वचिद्बाधकेन सादृश्यार्थस्वीकारेण सर्वत्राभेदार्थ-कत्त्वपरित्यागायोगात्समभिव्याहारस्यापि क्वचिदेवाभेदार्थाङ्गीकारात् । अन्यथोत्सर्गापवादभङ्गप्रसङ्गात् । ननु सामानाधिकरण्यरूपप्रत्ययस्य गौणीवृत्यङ्गीकारे सिंहस्याध्ययनमित्यादौ गौण्यभावप्रसङ्गः । तत्र सामानाधिकरण्याभावात् । तस्मात्सर्वसाधारण्यार्थप्रातिपदिकस्यैव गौणी वृत्तिरङ्गीकार्येति चेन्न ।। सामानाधिकरण्यस्यैव प्रत्ययरूपस्य गौणीवृत्तिरित्युत्सर्गः । क्वचित्सिंहस्याध्ययनमित्यादौ सामानाधिकरण्याभावेन प्रातिपदिकगौणीवृत्त्यङ्गीकारे न विरुद्धः । अपवादस्योत्सर्गबन्धुत्वात् ।। अत एव सुधा, तत्त्वंपदद्वयं मुख्यार्थमेव सामानाधिकरण्यमात्रं गौणमित्यादिका ।। अत एव च टीका तत्त्वंपदमुख्यार्थमङ्गीकृत्येत्यादिका ।। तस्मात्तत्पदस्य गौणीवृत्तिर्न टीकाकाराभिप्रेतेत्याहुः ।। जीवेश्वरभेदप्रकरणे द्वितीयपरिच्छेदे ।।