सङ्गतिं सूचयति
पञ्चवृत्यधिकरणम्
तात्पर्यचन्द्रिका
मुख्यप्राण: प्राणादिपञ्चरूपवानिति प्रतिपादनम्
।। ॐ पञ्चवृत्तिर्मनोवव्द्यपदिश्यते ॐ ।।
सङ्गतिं सूचयति ।। मुख्यप्राणप्रसङ्गसंनिधापिता इति ।। अत्र श्रुतिसमन्वयेनोक्तं ब्रह्मणःसर्वस्रष्टृत्वादिकमयुक्तं न वेति चिन्ता । तदर्थं श्रुतिरप्रमाणमुत नेति । तदर्थं प्राणादेर्मुख्यप्राणस्वरूपत्वतद्दासत्वश्रुती किं परस्परविरुद्धे उत नेति । तदर्थं श्रुतिद्वयमप्येकप्राणादिविषयमुत भिन्नप्राणादिविषयमिति ।। तदाज्ञया कर्मकारित्वादिति ।। प्राणादीनां कर्माणि
प्राणापानाविडायाञ्च पिङ्गलायाञ्च वर्ततः ।
व्यानःसन्धिषु सर्वत्र उदानो ब्रह्मनाडिगः ।
सर्वत्रैव समानस्तु समञ्चरति सर्वगः ।।
इति भारतवचानाज्ज्ञेयानि । ‘‘अतस्तदाज्ञये’’ति पूर्वपक्षभाष्ये मुख्यदासत्वे युक्तयुक्तेः, ‘‘प्राणदिपञ्चकस्य व्यक्तसद्गुणत्वान्मुख्यप्राणवृत्तित्व’’मिति न्यायविवरणे च मुख्यप्राणस्वरूपत्वे युक्तयुक्तेरुभयानुसरणाय ‘‘एवं श्रुतिद्वयस्यापि समानबलत्वा’’दिति टीकायां श्रुत्योःसाम्येनानध्यवसायपूर्वपक्षो दर्शितः ।। चेतसो व्याप्तिश्चेतनेति ।। ‘‘बहुस्मरणशक्तिस्तु चेतनेत्यभिधीयत’’ इति वचनम् । यदुक्तमुभाभ्यां ‘‘न वायु’’ इत्यादीनि ‘‘अणुश्चे’’त्यतःप्राचीनानि सूत्राण्येकमधिकरणम् । तत्र मुख्यप्राणो न वायुमात्रम् । नापि साङ्ख्यरीत्या समस्तकरणक्रिया । ‘‘एतस्माज्जायते प्राणो मन’’ इति श्रुतौ वायुकर्मशब्दाभ्यां तयोः प्राणात्पृथगुपदेशात् । किन्त्वाध्यात्मिको वायुविकारविशेषो मुख्यप्राण इति न वाय्विति सूत्रार्थ इति । तन्न । साङ्ख्यमतनिरासस्येहासङ्गतेः । किञ्च मम रीत्याऽवश्यनिरसनीयस्य पूर्वोक्तप्राणोत्पत्तिश्रुतेर्वाय्वादिपरत्वस्येह निरासेन ‘‘नानुमानमतच्छब्दा’’दित्यादेरिव च ‘‘न वायु’’इत्यस्य सूत्राक्षरानुसारेण पूर्वशेषत्वसम्भवे प्राणसंवादादिना चेतनत्वेन निर्णीतमुख्यप्राणे जडत्वाङ्गीकारेण वायुक्रियात्वपूर्वपक्षो वायुविकारत्वसिद्धान्तश्चायुक्तः । न हि जडे श्रुतिषु क्वापि मुख्यप्राणशब्दो दृष्टः । यच्चोक्तं परैः मुख्यप्राणस्य नामादीन् प्रति प्रधानत्वाच्छरीरे जीववत्स्वातन्त्र्यमिति प्राप्ते प्राणसंवादादिष्वप्रधानभूतचक्षुरादिभिः सह शासनादस्वातन्त्र्यमिति ‘‘चक्षु’’रिति सूत्रार्थ इति । तन्न । पूर्वसूत्रे वायुविकारत्वेन जडतया निर्णीतमुख्यप्राणे जीववत्कर्तृत्वशङ्कानुदयात् । प्राणसंवादादिना मुख्यप्राणस्योक्तजडत्वाक्षेपे च चक्षुरादीनामपि तेनैव तदाक्षेपसम्भावनात् । सिद्धान्ते चक्षुरादिसाहचर्येणाचेतनत्वसिद्धौ सौत्रादिपदेनाचेतनत्वोक्तिरिति त्वन्मतहानेः । अनुपकारकत्वाशङ्कायाश्च स्पष्टेन दृष्टशास्त्रविरोधेनानुदयात् । दृश्यते ह्यन्वयव्यतिरेकाभ्याञ्चक्षुरादे रूपादिज्ञानमिव प्राणस्य शरीरधारणाद्युपकारः । श्रूयते च प्राणसंवादादिषु । अकरणत्वशङ्कायाश्च सिद्धान्तप्रतिकूलत्वं च । सिद्धान्तयिष्यते चोत्तरसूत्रेऽकरणत्वम् ।
यत्तु कैश्चिदुक्तं प्राणो वायुविकारश्चेत्किमग्न्यादिवद्भूतान्तरमिति शङ्कानिरासार्थञ्चक्षुरिति सूत्रमिति । तन्न । प्रत्यक्षादिविरोधेन प्राणे भूतान्तरत्वशङ्कानुदयात् । विशेषहेत्वभावेनाग्न्यादिविकारस्य चक्षुरादेरपि तथात्वशङ्कानिरासापाताच्च । यच्चोक्तं परैः चक्षुरादिभिः सहशासनेन करणञ्चेत्प्राणस्तर्हि चक्षुरादिविषयरूपादिवदस्यापि विषयान्तरं वाच्यम् । न च तच्छक्यम् । करणैकादशत्वव्याकोपदोष इति शङ्कानिरासार्थं सूत्रमकरणत्वादिति । प्राणस्याकरणत्वान्नायं दोषः । तथा हि दर्शयति ‘‘तत्प्राण उत्क्रान्ते पद्यते’’ त्यादिका श्रुतिः प्राणनिमित्तां शरीरस्थितिमित्यकरणत्वादिति सूत्रार्थ इति । तन्न । शरीरस्य कर्मेन्द्रियादीनाञ्चोपकरणत्वेऽपि विषयाभावेन कार्यमात्रस्य शरीरकर्मेन्द्रियादाविव प्राणेऽपि प्रत्यक्षादिसिद्धत्वेन शङ्कानुदयात् । ‘‘तथा हि दर्शयती’’त्यस्य मम मत इव ‘‘अकरणत्वाच्च न दोष’’ इति पूर्वोक्तार्थपरत्वाभावेनास्वारस्याच्च । यत्तु कैश्चिदुक्तं अकरणत्वादक्रियत्वाज्जीवं प्रत्युपकाररूपक्रियाविशेषराहित्याद्योदोषः प्राप्नोति स नास्ति । तथा हि दर्शयति श्रुतिस्तत्प्राण इत्यादिकोपकारविशेषं शरीरधारणादिकमित्यकरणत्वादिति सूत्रार्थ इति । तन्न । स्फुटप्रत्यक्षादिविरोधेन चक्षुरादाविवानुपकारकत्वशङ्कानुदयस्योक्तत्वात् । पूर्वसूत्रस्थचक्षुरादिशब्दसन्निधानाद्बहुव्रीहितः कर्मधारयस्य बलवत्त्वाच्चाकरणत्वशब्देन प्रसिद्धकरणत्वाभावस्यैव प्रतीतौ बहुव्रीह्याद्याश्रयणेनोपकाररूपक्रियाविशेषराहित्यपरत्वकल्पनायोगाच्च । सिद्धान्तसूत्रस्थाकरणत्वहेतोः स्वतः प्राप्तसिद्धान्तहेतुत्वत्यागेन व्यवहितान्वयेन च पूर्वपक्षहेतुत्वकल्पनायोगाच्च । यच्चोक्तं परैः इतश्च मुख्यप्राणः कार्यविशेषवान् । यतः स उच्छ्वासादिव्यापारयुक्तप्राणाणानादिपञ्चवृत्तिर्व्यपदिश्यते । यथा मनोयोगशास्त्रे प्रमाणविपर्ययविकल्पनिद्रास्मृतय इति पञ्चवृत्तीति पञ्चेति सूत्रार्थ इति । तन्न । सूत्रे चशब्दाभावेन हेत्वन्तरत्वस्यास्वरसत्वात् । ‘‘तथा हि दर्शयती’’ति पूर्वसूत्रभागेनैवास्यापि कार्यविशेषस्य वक्तुं शक्यत्वेनास्य वैयर्थ्याच्च । मम रीत्या श्रौतदार्ष्टान्तिकस्य ‘‘यथा ह वै नमः पञ्चधे’’ ति श्रुत्युक्तदृष्टान्तस्य च सम्भवे ‘‘एतेन योगःप्रत्युक्त’’ इत्यत्र निराकृतयोगशास्त्रोक्तदृष्टान्तोक्तययोगाच्च । केचित्तु यथा कामादयो मनसो वृत्तिविशेषाः न तत्वान्तरं तथा प्राणापानादयः प्राणस्य वृत्तिविशेषाः न तत्वान्तरमिति पञ्चेति सूत्रार्थ इत्याहुः । तन्न । प्राणस्य प्राण वृत्तित्वायोगात् । ‘‘कामःसङ्कल्पो विचिकित्साश्रद्धाऽश्रद्धाश्रीर्धीर्भीरित्येतत्सर्वं मन एवे’’ ति श्रुत्या कामादीनामधिकत्वेन पञ्चवृत्तित्वेन मनसो दृष्टान्तत्वायोगाच्च ।।
प्रकाशिका
पूर्वोत्तरपक्षटीकासूचितचिन्ता आह ।। अत्रेति ।। प्राणादीनां कर्माणीति ।। यद्यपि ‘‘प्राणापाना’’विति स्मृतौ प्राणादीनां स्थानान्येव प्रतीयन्ते न तु कर्माणि तथापि तत्वप्रदीपे प्राणादीनां व्यापारानुक्त्वा ‘‘प्राणापाना’’विति वाक्यस्य पठितत्वात् ‘‘समं चरती’’ति समानव्यापारोक्तयैव प्राणादीनां प्राणनादिव्यापारस्य शब्दनिरुक्तयैव लाभेन प्राणादिकर्मप्रतिपादकत्वमस्येत्यभिप्रेत्य प्राणेति वाक्योक्तिः ।। इति भारतेति ।। द्वितीयस्कन्धद्वितीयाध्यायतात्पर्योक्तभारतवचनमेतत् । एतेन ‘‘हृदि प्राण’’ इत्याद्यमरोक्तिर्नादरणीयेति सूचितम् ।। इति वचनमिति ।। चतुर्थस्कन्धतात्पर्ये ।। नामादीनिति ।। नामवाक्चित्तादीञ्छान्दोग्याम्नातान् प्रतीत्यर्थः । चक्षुरादेरिव प्राणस्य जीवान् प्रत्युपकर्तृत्वाभावादकरणत्वशङ्काऽत्रेत्यत आह ।। दृश्यते हीति ।। श्रुतिसिद्धश्चेत्याह ।। श्रूयते चेति ।। ‘‘तत्प्राणे प्रपन्न उदतिष्ठ’’दित्यादिश्रुतेरिति भावः । सिद्धान्तप्रतिकूलत्वं चेत्युक्तं व्यनक्ति ।। सिद्धान्तयिष्यते चेति ।। नायं दोष इति ।। विषयांतरकल्पनादोष इत्यर्थः । ननु प्राणस्य जीवोपकरणत्वे केनचिदुपकाररूपकार्येण भाव्यमित्यत आह ।। तथा हीति ।। कार्यमात्रस्येति ।। कार्यसामान्यस्य शरीरधारणादिरूपस्येत्यर्थः ।। पूर्वोक्तार्थेति ।। मुख्यप्राणस्याकरणत्वाज्जीवप्रयोज्यत्वदोषो नेत्येतदर्थपरत्वमिव त्वन्मतेऽकरणत्वाद्विषयान्तरकल्पनादोषो नेत्येतदर्थाप्रतिपादकत्वादित्यर्थः । अकरणत्वादित्यत्र ‘‘करणं क्रिये’’त्यादितद्भाष्योक्तमर्थमन्वाह ।। अकरणत्वादक्रियत्वादिति ।। तस्यैव विवरणं जीवं प्रतीत्यादि । यो दोषः चक्षुरादिवज्जीवोपकरणविशेष एव । न तु भूतांतरमिति प्रागुक्तप्रमेयभङ्गरूपो दोष इत्यर्थः ।। कर्मधारयस्येति ।। अकरणत्वादित्यत्र न करणमकरणमित्येवंरूपेणेत्यर्थः । तत्र हेतुः पूर्वसूत्रस्थेत्यादि । बहुव्रीह्यादीत्यादिपदेन करणशब्स्य क्रियारूपार्थपरत्वं ग्राह्यम् ।। व्यवहितेति ।। दोषपदान्वयेन चेत्यर्थः । भाष्योक्तार्थमन्वाह ।। इतश्चेति ।। मुख्यप्राणस्तावत्प्राणापानव्यानोदानसमानरूपपञ्चवृत्तिमान् । प्राणादयश्चोच्छ्वासनिश्वासवीर्यवत्कर्मकरणोर्ध्वनयनसमनयनादिरूपव्यापारवन्त इत्युच्छ्वासादिव्यापारयुक्तपञ्चवृत्तिमान् मुख्यप्राणोऽपि कार्यविशेषवानित्यर्थः । प्रमाणं प्रमितिः । विपर्ययः मिथ्याज्ञानम् । शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः । विक्षेपसंस्कारलक्षणमनोवृत्तिर्निद्रा । स्मृतिः प्रसिद्धेति भामत्युक्तोऽर्थः ।। श्रौतेति ।। ‘‘अथ पञ्चवृत्त्यैतत्प्रवर्तत’’ इत्यादिभाष्यस्थश्रुत्युक्तदार्ष्टान्तिकस्येत्यर्थः ।। केचित्त्विति ।। यदि प्राणः प्राणापानाद्याकारेण पञ्चधाऽवस्थितो देहधारणादि कुर्यात्तर्हि प्राणापानादिकं तत्वान्तरं स्यादिति शङ्कानिरासार्थं सूत्रम् । तदर्थमन्वाह ।। यथेति ।।
चन्द्रिकाविवृतिः
।। ॐ पञ्चवृत्तिर्मनोवत् ॐ ।। तदाज्ञया कर्मकारित्वादित्यत्र किं तत्कर्मेत्यत आह ।। प्राणादीनां चेति ।। ननु प्राणादीनां मुख्यप्राणदासत्त्वस्वरूपत्त्वश्रुत्योर्विरोधमानत्वादुभयोरप्यप्रामाण्येन पूर्वपक्षो न युक्तः । भाष्यरीत्या दासत्वश्रुतेरुपोद्बाकत्त्वेन तदाज्ञया कर्मकारित्त्वादित्युक्तया स्वरूपत्त्वश्रुतेर-प्रामाण्येनैव पूर्वपक्षस्योचितत्वादित्याशङ्क्य न्यायविवरणे अनुव्याख्यानानुसारेण व्यक्ततद्गुणत्त्वाख्य-पूर्वपक्षयुक्तेः स्वरूपत्त्वप्रतिपादकश्रुत्युपोद्बािकायाः कथितत्त्वेन भाष्यन्यायविवरणानुसारेण टीकाकारीयः पूर्वपक्षः प्रवृत्त इत्यभिप्रेत्याह ।। अतस्तदाज्ञयेत्यादिना ।। समस्तकरणक्रियेति ।। समस्तेन्द्रियव्यापारो न मुख्यप्राण इत्यर्थः ।। सांख्यस्य तथा मतमिति भावः ।। वायुकर्मशब्दाभ्यामिति ।। यद्यप्येतस्मादिति श्रुतौ कर्मशब्दो नास्ति । तथाप्येतत्प्रकरणे किञ्चिद्दूरे पुरुष एवेदं विश्वं कर्म तप इत्याद्युत्तरवाक्ये कर्मशब्दसद्भावाभिप्रायेण वा इन्द्रियपदेनैव तद्य्वापाराख्यकर्मणः विवक्षितत्त्वादित्यभिप्रायेण वा तदुक्तिरिति सम्प्रदायः ।। अवश्यनिरसनीयशङ्कां दर्शयति ।। पुर्वोक्तप्राणोत्पत्तीति ।। प्राणशङ्कितं स्वातन्त्र्यं किं नाम कर्तृत्त्वं वा, अनुपकारकत्त्वं वा, चक्षुरादिवत्करणत्त्वाभावो वा नाद्य इत्याह ।। पूर्वसूत्रे वायुविकारित्त्वेनेति ।। पूर्वोक्तजडत्त्वाक्षेपेणैव प्रवृत्तिरित्यत आह ।। प्राणसंवादादिनेति ।। न द्वितीय इत्याह ।। अनुपकारकत्त्वाशङ्काया इति ।। तृतीयं निराह ।। अकरणत्त्वशङ्काया इति ।। स्वसिद्धान्तप्रतिकूा(त्वंचेति)त्त्वादिति ।। सिद्धान्तानुगुणत्त्वाभावादित्यर्थः । यदुत्तरत्र सिद्धान्त्यते तदन्यदेव पूर्वपक्षे शङ्कनीयं न तु तदेवेति हृदयम् ।। अग्न्यादिवदिति ।। वायोरग्निरिति श्रुत्या वायोरग्निविकारित्त्वेन भूतत्त्वं सिद्धम् । तद्ब्रह्मणोऽपि भूतत्त्वं स्यादिति भावः । अभूते अबादिविकारे चक्षुरादौ व्यभिचारदर्शनाय चक्षुरादिवदिति सूत्रमिति पराभिप्रायः । तन्निरासासम्भवादिति । चक्षुरादिदृष्टान्तेऽपि भूतान्तरत्त्वाभावसम्प्रतिपत्तिरित्यर्थः ।। उपकरणत्वे किमसाधारणविषये भवितव्यं कार्यमात्रेण भवितव्यमिति विकल्प्याद्यं निराह ।। शरीरस्येति ।। द्वितीयं निराह ।। कार्यमात्रस्य चेति ।। न करणमकरणमिति नञ्समासः कर्मधारय इत्यभिप्रेत्याह ।। कर्मधारयस्येति ।। न विद्यते करणं क्रिया यस्येति हि पराभिप्रेतोऽर्थः ।। व्यवहितान्वयेनेति ।। अकरणत्वाद्दोषः यः स नेति अकरणत्त्वादित्यस्य नञ्व्यवहितदोषपदान्वयः परपक्षे । स्वपक्षे तु नञौ वाऽन्वयः । अकरणत्त्वाद्दोषो नेति भावः । कार्यविशेषवान् जीवं प्रत्युपकारिविशेषवान् ।। न तत्वान्तरं न विजातीयं तत्वान्तरम् । प्राणस्येति ।। कथञ्चिदपानादीनां प्राणवृत्तित्वसम्भवेऽपीति शेषः ।। मनःपञ्चवृत्तित्त्वं सांख्यरीत्याङ्गीकारे दृष्टान्तत्वं युज्यत इत्याह ।। कामः सङ्कल्प इति ।। अधिकत्त्वेनेति ।। अधिकवृत्तित्वेनेत्यर्थः । अन्यत्र परभाष्यावलोकादिना ज्ञेयम् ।।