एतेन विश्वदेवशब्दो गणविशेषपर इति निरस्तम्
मध्यमप्राणत्वं वायोरेवेति पूर्वपक्ष:
तात्पर्यचन्द्रिका
एतेन विश्वदेवशब्दो गणविशेषपर इति निरस्तम् । गुणातिशयासिद्धेः । भूतभव्येशानत्वानानुगुण्याच्च । ‘‘योयं मध्यमः प्राण’’ इति श्रुत्यन्तरोक्तं मध्यमत्वं तु न परस्मिन् शक्यशङ्कम् । ‘‘अयं वाव शिशुर्योऽयं मध्यमः प्राणस्तस्य प्राणः स्थूणे’’त्युत्तरवाक्ये तस्य शिशुत्वब्रह्माश्रितत्वाद्युक्तेः ।
अवान्तरेश्वरत्वेन तस्येश्वरवचो भवेत् ।
अतो मध्यमतामाहुस्तस्य वेदेषु वेदिनः ।। इति स्मृतेश्च ।
तत्समाख्यानादिहापि ‘‘मध्ये वामनमासीन’’मिति सर्वोत्तमत्वरूपकाष्ठात्वविरोधिमध्यस्थत्वमेवोच्यते । ‘‘तदन्तरेण सर्वा अन्यादेवता’’ इतिवत् । नतु मध्यदेशस्थत्वम् । यद्यपि विष्णोरपि ‘‘अन्तर्यामी’’त्यत्र सर्वनियामकता ‘‘दहर’’ इत्यत्र सर्वजिज्ञास्यत्वरूपसर्वोपास्यता चोक्ता । न च तत्रोक्तजिज्ञास्यत्वमिह पूर्वपक्ष आक्षिप्यत इति शङ्क्यम् । उपास्यत्वस्य वाय्वेकनिष्ठत्वस्याद्याप्यसिद्ध्याऽन्योन्याश्रयात् । तथापि वायोर्यत् श्रुत्यन्तरसिद्धं प्राणनियामकत्वं देवोपास्यत्वं च तदेवेह भाति । न तु ब्रह्मधर्मभूतं सर्वनियामकत्वं सर्वोपास्यत्वं च । न हि ‘‘आग्नेयं चतुर्धा करोती’’त्यादावाग्नेयादिशब्दैरैन्द्राग्नादिधीः । न च ब्रह्मणः सर्वोपास्यत्वाङ्गीकारे तदाक्षेपायोगः । मुमुक्षुभिर्ब्रह्मैव जिज्ञास्यमित्यवधारणस्यैवाक्षेपात् । अत एव टीकायां ‘‘किं विष्णुजिज्ञासानियमेने’’त्युक्तम् । तदेतदभिप्रेत्योक्तं न्यायविवरणे ‘‘ऊर्ध्वं प्राणमुन्नयतीत्यादिलिङ्गानां प्राणादन्यत्रावकाशराहित्य’’मिति । वामनशब्दस्तु वायावेव युक्तः । न तु ब्रह्मणि । तत्राल्पमात्रपरिमाणत्वादिरूपवामनत्वायोगात् । ‘‘अन्यभावव्यावृत्ते’’रित्यादौ सर्वगतस्यापि ब्रह्मणोऽणुत्वाद्युक्तावपि ‘‘अङ्गुष्ठमात्र’’ इतीशाने श्रुतस्य मात्रशब्दार्थस्याधिकपरिमाणराहित्यस्यायोगाच्चेति ।
प्रकाशिका
एतेनेत्युक्तं विशदयति ।। गुणेति ।। गणपरत्वं नेत्यत्र युक्तयन्तरमाह ।। भूतेति ।। क्रममुल्लङ्घ्य प्रसङ्गादागतमृचो वायुपरत्वं लिङ्गैक्यं च समर्थ्य ‘‘योयं मध्यमः प्राण’’ इत्येतदपि वायुपरमिति साधयति ।। योयमिति ।। वाजसनेये तृतीयेध्याये ‘‘अथातो व्रतमीमांसे’’त्युपक्रम्याधीते पञ्चमे ब्राह्मणेऽभिहितस्यैव ‘‘अथेममेव नाप्नोद्योयं मध्यमः प्राण’’ इत्यस्य चतुर्थाध्यायद्वितीयब्राह्मणे ‘‘योहवै शिशुं साधानं सप्रत्याधानं सस्थूणं सदामं वेद सप्त ह द्विषतो भ्रातृव्यानवरुणद्धि । अयं वाव शिशुर्योयं मध्यमः प्राणस्तस्येदमेवाधानमिदं प्रत्याधानं प्राणः स्थूणाऽन्नं दामे’’त्यत्र शिशुत्वप्राणशब्दितविष्ण्वाश्रयत्वोक्तेरित्यर्थः ।। स्मृतेश्चेति ।। ‘‘चक्षुरादिवत्तु तत्सहशिष्ट्यादिभ्य’’ इत्यत्र भाष्योक्तस्मृतेरित्यर्थः ।। तदन्तरेणेति ।। बह्वृचब्राह्मणे ‘‘अग्निर्वैदेवानामवमोविष्णुः परमस्तदन्तरेण सर्वाअन्यादेवता’’ इत्यत्र यथान्यदेवतानामग्नाविष्णुमध्यत्वं तथेहापीत्यर्थः । ननु नैतानि निरवकाशानि । विष्णावपि सम्भवादित्याक्षिप्य समाधत्ते ।। यद्यपीति ।। अन्योन्येति ।। वाय्वेकनिष्ठत्वे सिद्धे प्राक्तनमपि तस्यैवेति सिध्यति प्रागुक्तं न विष्णोः किं तु वायोरेवेति सिद्धौ तस्य वाय्वेकनिष्ठत्वसिद्धिरित्यर्थः ।। तदेवेहेति ।। विश्वशब्दस्य श्रुत्यन्तरानुरोधेन योग्यसर्वपरत्वादिति भावः ।
प्राणादिनियामकत्वादिधीरित्येतद्दृष्टान्तेनोपपादयति ।। नह्याग्नेयमिति ।। तृतीयस्याद्यपादे ‘‘शेषस्तु गुणसंयुक्तस्साधारणः प्रतीयेत मिथस्तेषामसम्बन्धा’’दित्यंतिमाधिकरणे दार्शपौर्णमासिकेष्वाग्नेयाग्नीषोमीयैन्द्राग्नपुरोडाशेषु ‘‘आग्नेयं चतुर्धाकरोती’’त्युदाहृत्य किमाग्नेयस्यैव चतुर्धाकरणमुत सर्वेषामिति विशये अग्नेश्चतुर्धाकरणविषयद्रव्योपलक्षणमात्रत्वेन स्वयं कार्ययोगित्वाभावात्सम्बन्धमात्रेणोपलक्षणत्वसम्भवे देवतात्वाकारानपेक्षणात् सर्वत्र ‘‘अग्निकलिभ्यां ढग्वक्तव्य’’ इति स्मरणादग्नेरिदमिति सम्बन्धमात्रेप्याग्नेयशब्दनिष्पत्तेः अग्निसम्बन्धस्य चाविशिष्टत्वात्सर्वत्र चतुर्धाकरणमिति प्राप्ते देवताभूतस्तावदिहाग्निशब्दस्तद्धितेनोपलक्षणमुपादीयते । सम्भवति तु तस्य यथाश्रुत्यैवोपलक्षणत्वं केवलाग्नेयस्यापि सत्त्वात् । अतो न शब्दानवगतेन सम्बन्धमात्रेणोपलक्षणत्वं युक्तम् । विनाकारणेन श्रुतबाधप्रसङ्गात् । अग्नीषोमीयादौ च समासादुत्पन्नस्तद्धितो द्वयोः सापेक्षयोर्देवतात्वमाह । तेन तत्रान्यसापेक्षस्याग्नेर्देवतात्वम् । न च सापेक्षितस्य तद्धितेन सामर्थ्यमस्ति । तेनाग्नेयशब्दो न शक्नोत्यग्नीषोमीयादिकमभिवदितुम् । यद्यपि सम्बन्धमात्रेऽप्यविरुद्धस्तद्धितः । तथापीह देवतार्थतैव । उपलक्षणार्थत्वात् । प्रसिद्धसम्बन्धं हि लक्षणं भवति । प्रसिद्धश्च देवतासम्बन्ध एव न सम्बन्धमात्रम् । अतो देवतात्वमेवोपलक्षणम् । तच्चाग्नीषोमीयादौ नास्तीत्याग्नेयस्यैव चतुर्धाकरणमिति सिद्धांतितम् । तत्र यथाग्नेयशब्देनैंद्राग्नादिधीर्न भवति तथेत्यर्थः । नन्वेवं भाष्योक्तजिज्ञासासूत्राक्षेपो न युक्तस्स्यादित्याशङ्क्य तदाक्षेपप्रकारमाह ।। न चेति ।। लिङ्गानामनवकाशत्वमुक्त्वा श्रुतिविरोधं निराह ।। वामनेति ।। द्वितीयसूत्रव्यावर्त्यहेतुमाह ।। अन्यभावेति ।। आदिपदेन ‘‘अल्पश्रुतेः अर्भकौकस्त्वा’’दित्येतद्गृह्यते ।। मात्र इतीति ।। एतेन वायोरपि ‘‘अणुश्चे’’त्यणुत्वस्य वक्ष्यमाणत्वादतिसूक्ष्मे तस्मिन्नङ्गुष्ठमितत्वमयुक्तमिति निरस्तम् । अधिकपरिमाणराहित्यपरत्वेन तत्परिमाणविधावतात्पर्यादिति । पञ्चम्यन्तहेतूनामीशानो वायुरेवेति साध्येनान्वयः ।
चन्द्रिकाबिन्दुः
एतेनेति ।। विश्वेदेवशब्दस्य गणविशेषपरत्वे ऋचस्सर्वदेवविषयत्वेन भिन्नविषयत्वात् समाख्यात्वं नोपपद्यत इति हृदयम् ।। अनानुगुण्यादिति ।। गणविशेषमात्रोपास्यत्वस्येति शेषः । दूषणसौकर्यात् पूर्वमेव वायुशब्दविषयविचारं कृत्वा मध्यमशब्दविषयविचारमिदानीं करोति ।। योऽयमिति ।। तदन्तरेणेति ।। अग्निर्देवानामवमो विष्णुः परमस्तदन्तरेण सर्वा अन्या देवता इति वाक्ये सर्वेषां देवानामन्तरत्वं, न मध्यदेशस्थत्वमात्रं किन्तु सर्वोत्तमकाष्ठायां पूर्वावधित्वमेवेत्यर्थः ।। न ह्याग्नेयमिति ।। देवतातद्धितान्तस्याग्नेयशब्दस्य प्रसिद्धाग्नेयपरत्वमेव न चेन्द्राग्निपरत्वम् । तत्राग्निसम्बन्धमात्रावयवत्वेऽपि अग्नेर्देवतात्वाभावात् । तस्या व्यासज्यवृत्तित्वाङ्गीकारेण समुदायस्यैव देवतात्वादिति भावः । वामनशब्दाच्छादनेन पूर्वपक्षो न भातीत्याह ।। वामनशब्दस्त्विति ।।
पाण्डुरङ्गि
मध्यमत्वस्येशानस्य वायुत्वसाधकत्वं टीकायामुक्तं मध्यमदेशस्थत्वरूपस्य मध्यमत्वस्य सर्वगते विष्णावपि सम्भवादयुक्तम् । अतस्तदुपपादयति ।। योयं मध्यमः प्राण इति ।। अन्योन्याश्रयादिति ।। उपास्यत्वस्य वाय्वेकनिष्ठत्वे सिद्धे जिज्ञास्यत्वादेराक्षेपसिद्धिः तदाक्षेपसिद्धौ चोपास्यत्वस्य वाय्वेकनिष्ठत्वसिद्धिरित्यन्योन्याश्रयादित्यर्थः । ननु देवोपास्यत्वमिव सर्वोपास्यत्वं भासत एवेत्यत आह ।। न हीति ।। अत एवेति ।। मुमुक्षुभिर्ब्रह्मैव जिज्ञास्यमित्यवधारणाक्षेपस्य टीकाभिप्रेतत्वादेवेत्यर्थः । सिद्धान्तसाधकवामनश्रुतेः सावकाशत्वमाह ।। वामनशब्दस्त्विति ।