चक्षुश्शब्दस्य विष्णुपरत्वे च मयटो वैयर्थ्यम् ..
पूर्वपक्षे चक्षुर्मयत्वादि लिङ्गस्य जीवप्रापकत्वसमर्थनम्
तात्पर्यचन्द्रिका
चक्षुश्शब्दस्य विष्णुपरत्वे च मयटो वैयर्थ्यम् । न च चक्षुर्मयत्वादीनामादित्ये पर्यवसानम् । ‘‘चत्वारः पुरुषा इति बाध्व’’ इति बाध्वचिह्नितोपक्रमस्य ‘‘इति हस्माह बाध्व’’ इति बाध्वचिह्नितोपसंहारस्यैव च वाक्यस्यैकत्वात्तन्मध्यस्थादित्यशब्दस्य सूर्यपरत्वेपि तदुपरितने ‘‘एतं ह्येव बह्वृचा’’ इत्यादौ ‘‘सर्वेषु भूतेष्वेत’’ मित्यन्ते च वाक्ये बहुकृत्वश्श्रुतस्यैतच्छब्दस्य ‘‘अथैषज्योति’’रित्यादाविव वक्ष्यमाणजीवरूपचक्षुर्मयादिपरत्वात् । अर्भकौकस्त्वाच्च न विष्णोः सर्वगतता । अन्तरित्यत्र अन्तर इत्यत्र अन्तर्यामीत्यत्र च सर्वगतत्वाल्पौकस्त्वयोरविरोधो नोक्तः । तत्प्रकरणे सर्वगतत्वस्याभावेन विरोधशङ्कानुदयात् । उदये वाऽत्रत्यन्यायेनैव परिहार्यत्वात् । उपासात्रैविध्यादित्यत्र त्वन्तस्स्थत्वाद्युक्तेः प्रयोजनमात्रमुक्तम् । नत्वविरोधः । हृद्यपेक्षयेत्यत्र तु तयोरत्राविरोध उक्तेपि ‘‘अङ्गुष्ठमात्रः पुरुष’’ इत्यत्र मात्रशब्दस्यावधारणार्थत्वात्सर्वगतस्य सावधारणाङ्गुष्ठपरिमाणत्वमयुक्तमिति शङ्किते मूर्तिविशेषे व्यक्त्यात्मना सावधारणमपि तद्युक्तमिति समाधास्यते । सर्वेषु भूतेष्वित्यत्र चाल्पौकस्त्वमुच्यते । भूतादन्यत्राभावप्रतीतेः । अन्यथा भूतपदवैयर्थ्यात् । सिद्धान्तिना ‘‘सर्वभूताशयस्थित’’ इति स्मृतिसमाख्यया सर्वजीवहृदयस्थत्वस्यैव वक्तव्यत्वाच्च । पूर्वाधिकरणाक्षेपस्त्वित्थम् । तस्य सर्वभूतगतस्यैव सिद्धान्तिना सर्वगतत्वाङ्गीकारात्तदभावे तदभाव इति । यद्वा एतमेवेत्यवधारणेन विष्णोरन्यस्यैव सर्वभूतगतत्वाद्विष्णोर्भूतादन्यत्र सत्त्वेपि सर्वगतत्वायोग इति ।
न चार्भकौकस्त्वमन्तर्यामिण्यपि युक्तम् । ‘‘एषम आत्मान्तर्हृदये ज्यायान्पृथिव्या’’ इत्यादिश्रुत्या तस्यापि सर्वगतत्वेन तद्विरुद्धाल्पौकस्त्वायोगात् । न च पूर्वपक्षे ‘‘ब्रह्मततम’’मित्युक्तस्य सर्वगतत्वस्याप्यादित्यनिष्ठत्वात्तस्याप्यल्पौकस्त्वायोग इति वाच्यम् । आदित्यश्रुत्याद्यनुसारेण ततमत्वस्य सङ्कोचात् । न च ब्रह्मणि तथा । ब्रह्मत्वव्याघातात् । ब्रह्मशब्दस्य च विष्णौ मुख्यत्वेप्यल्पौकस्त्वादिलिङ्गादिहामुख्यार्थत्वात् । ज्योतिरदृश्यत्वाद्यधिकरणयोश्च बाधकाभावान्मुख्यस्याश्रुतत्वादेर्विष्णुधर्मत्वेपि प्रकृतेऽर्भकौकस्त्वादि बाधकेनामुख्यस्य तस्य जीवेप्युपपत्तेः । अन्तर्यामीत्यत्र चेह विष्णुलिङ्गत्वेन निश्चितस्यान्तरत्वस्य ‘‘यःपृथिव्या अन्तर’’ इति श्रवणादन्तर्यामी विष्णुरिति वक्ष्यते । नत्वेतत्सिद्धान्तात्प्राक्तत्रान्तरत्वादीनां विष्णुधर्मत्वनिश्चयः । अत एव तत्र भाष्यकारो वक्ष्यति ‘‘सहि सर्वेषां भूतानामन्तरपुरुष’’ इत्यादिना । अन्तर इत्यन्तराधिकरणे तु चक्षुरन्तस्स्थत्वं विष्णोरिति वक्ष्यते । न चेह तत् श्रूयते । किंत्वन्तरशब्दमात्रमित्याद्यूह्यम् । तस्माद्युक्तः पूर्वपक्षोदयः ।
प्रकाशिका
ननु न ज्ञानकरणमिह चक्षुः । किन्तु ‘‘चक्षुषश्चक्षु’’रित्यादाविव विष्णुरेवेत्यत आह ।। चक्षुश्शब्दस्येति ।। ननु सुधायां चक्षुर्मयत्वादेस्सावकाशत्वमाशङ्क्य ‘‘हेत्वन्तरेण पूर्वपक्षे सत्यभ्युच्चयमात्रत्वेन तेषामुपन्यास’’ इति टीकायां च ‘‘न च तल्लिङ्गमन्तर्यामिविषयम् । तस्यापरिच्छिन्नत्वेकनाल्पौकस्त्वायोगा’’दिति चक्षुर्मयत्वादेस्सावकाशत्वमुपेत्य सौत्राल्पौकस्त्वमेव मूलयुक्तित्वेनोक्तम् । न्यायविवरणटीकायां च तथैवोक्तम् । तथाच तद्विरुध्यत इति चेन्न । अभ्युपेत्यवादेन तथोक्तावपीह वास्तवाशयेन निरवकाशत्वोक्तेः । अत एवाग्रे टीका ‘‘चक्षुर्मयत्वाद्ययोगाच्चे’’ति वक्ष्यति चैतदक्षरार्थोक्तिप्रस्तावे । प्रागुक्तं विशेषे पर्यवसानं निराह ।। न चेति ।। बाध्वो वायुः ‘‘चत्वारः पुरुषा इत्याहे’’त्युपक्रम्य शरीरपुरुषश्छन्दःपुरुषो वेदपुरुषो महापुरुष इति पुरुषचतुष्टयं निर्दिश्य क्रमेण तेषां प्रज्ञात्माकारब्रह्मादित्याख्यरसानुक्त्वांऽते ‘‘इति हस्माह बाध्व’’ इत्युपसंहारादेकवाक्यत्वम् । बाध्वचिह्नितेति बहुव्रीहिः । वाक्यस्य विशेषणम् । बह्वृचा इत्यादावित्याद्यपि बहुव्रीहिरेव । भाषितपुंस्कत्वात् ‘‘तृतीयादिषुभाषितपुंस्कं पुंवद्गालवस्ये’’ति पुंवद्भावः । तदुपरितने वाक्ये इत्यादौ अन्ते चकारान्मध्येच बहुकृत्वश्श्रुतस्येति वा व्याख्येयम् ।।
अथैष इति ।। संज्ञाधिकरणमुक्तमानन्दमयाधिकरणे तत्र यथैतच्छब्दस्य ‘‘एतेन सहस्रदक्षिणेन यजेते’’ति वक्ष्यमाणयागपरत्वं न तु प्रकृतज्योतिष्टोमपरत्वं तद्वदित्यर्थः । ननु संज्ञाभेदात्तत्र तथात्वमुपेतमिति चेदिहापि वाक्यभेदात्तथास्त्विति भावः । अर्भकौकस्त्वादिति सौत्रं प्रापकान्तरमप्याह ।। अर्भकेति ।। सर्वेषु भूतेष्विति श्रुतावित्यर्थः । सर्वगतता द्युपृथिव्यादिसर्वगततेत्यर्थः । ननूक्तमत्राल्पौकस्त्वं तत्र तत्र समर्थितमिति तत्राह ।। अन्तरित्यत्रेति ।। ‘‘पुरुष एवेदं सर्व’’मित्यादिना सर्वगतत्वधर्मस्तत्राप्यस्तीत्यत आह ।। उदयेवेति ।। अत एव सङ्क्षेपभाष्ये ‘‘अन्तरःखव’’दित्यन्तर्नये व्योमवदित्युक्त्याऽत्र त्यन्यायेनैवाविरोध उक्तः ।। अन्तस्स्थत्वादीति ।। बहिस्स्थत्वसर्वगतत्वोक्तेरित्यादिपदार्थः । इह तु तयोर्विरोधात्सर्वगतस्य हरेरल्पौकस्त्वं न युक्तमिति प्राप्ते व्योमवदित्यंशेन समावेशस्समर्थित इति भावः । तयोः सर्वगतत्वाल्पौकस्त्वयोः ।। व्यक्त्यात्मनेति ।। सर्वगतत्वस्य शक्त्यात्मनावस्थानेऽल्पौकस्त्वमात्रस्य व्यक्ततया तदभिप्रायेणाङ्गुष्ठमात्रत्वोक्तिरिति वक्ष्यत इत्यर्थः । तथाचाधिकाशङ्कया तस्योत्थितिरित्यर्थः ।
ननु हृदि विद्यमानावकाशस्याङ्गुष्ठमात्रत्वेन तदपेक्षया तन्मात्रत्वोक्तिरुपचारेणेति सूत्रे भाष्यादौ च प्रतीयते । सत्यम् । पक्षान्तरमुपेत्यैवैतत् । अत एव तत्र टीकायां ‘‘भगवन्मूर्तिविशेषस्य व्यक्त्या तन्मात्रपरिमाणत्वा’’दित्युक्तमिति भावः । सूत्रमपि हृदि व्यक्तरूपापेक्षयेति व्याख्येयम् । ननूक्तमर्भकौकस्त्वमेवात्र न श्रूयते । अन्यथा पूर्वाक्षेपायोगादिति । तत्राह ।। सर्वेष्विति ।। नन्ववधारणाभावात्कथमेतदित्यतो भूतपदोपादानादेव अन्यथा सर्वेष्वित्येव ब्रूयादिति भावेनाह ।। अन्यथेति ।। सिद्धान्तिनेति ।। अत एव दहराधिकरणे ‘‘अल्पश्रुतेरिति चेत्तदुक्त’’मित्यत्राल्पस्थानमाशङ्क्योक्तपरिहारस्मारणं क्रियते । अत्र तत्वप्रदीपे च सर्वजीवहृदयसुषिराणां अल्पत्वादित्युक्तमिति भावः । नन्वेवमल्पौकस्त्वस्यान्यगतत्वे विष्णोः प्रागुक्तसर्वगतत्वस्याक्षेपो भाष्यादावयुक्त इत्युक्तमित्यतस्तत्साधयति ।। पूर्वेति ।। सत्यं न साक्षादाक्षेपः । अवधारणद्वारा तु सेत्स्यतीति भावः ।। विष्णोः सर्वगतत्वायोग इति ।। किं त्वादित्यस्य वा सर्वजीवानां वा ततममित्युक्तसर्वगतत्वम् । एकप्रकरणत्वादिति वाक्यशेषः । तेनादित्यनिष्ठत्वेनोक्तिर्युक्तेति बोध्यम् । एतेन ‘‘तद्यदि विष्णोरन्यस्य स्यात् ’’इत्यादिटीका विवृता ध्येया ।
ननु सर्वभूतगतस्यान्यत्वे ‘‘सयोऽतोऽश्रुतोऽगत’’ इत्यश्रुतत्वादिकमपि तस्यैवेति प्रागुक्तकर्णादिविदूरत्वमपि तस्यैवेति ज्योतिस्सूत्रमप्याक्षेप्तुं शक्यते । न च सन्निहिताक्षेपं विना व्यवहिताक्षेपो न युक्त इति वाच्यम् । उत्तरनयभाष्यादौ जन्मादिसूत्राक्षेपस्य दर्शयिष्यमाणत्वात् । पूर्वपादांत्यनयेन सङ्गत्यावश्यकत्वनिर्बन्धाभावाच्च । एवं चाश्रुतत्वादिविष्णुलिङ्गश्रवणाद्विष्णुरेवात्रोच्यत इति प्रागुक्तशङ्कापि नोदेष्यति । आक्षेपश्च ऋजुर्भवतीति चेन्न । सूत्रोपात्ताल्पौकस्त्वमुखेनैवाक्षेपस्योचितत्वात् । श्रुतिसङ्गतिप्रदर्शनार्थत्वात् । साक्षात्समन्वीयमानलिङ्गमुखेनाक्षेपसम्भवे व्यवहिताश्रुतत्वादिमुखेनाक्षेपायोगाच्चेति तात्पर्यात् । यद्वा अत्रेव तत्र निरवकाशादित्यादिलिङ्गाभावाद्विष्णौ मुख्यस्याश्रुतत्वादेरादित्ये गौणतास्वीकारेण तदाक्षेपे हेत्वभावात्सन्निहितमेवाक्षिप्तम् । अत एवाग्रे ज्योतिरदृश्यत्वादीत्यादिना तदाक्षेपप्रकारासम्भवप्रकारं वक्ष्यति ।
ननु पूर्वपक्षे हृदयनिहितत्वरूपार्भकौकस्त्वस्य क्वाप्यन्यत्र श्रुत्यन्तरे अपि विष्णावसंमततया निरवकाशेन तेन विचरणरूपाश्रुतत्वादेर्गौणत्वाश्रयणेन ज्योतिरादिसूत्रमप्याक्षेप्यं स्यात् । अत एवाग्रेतनं ‘‘बाधकाभावा’’दित्येतदसदिति चेन्न । तत्राश्रुतत्वादीनामनेकेषां बाधादप्येकस्य हृदयस्थत्वस्य कथञ्चिद्विष्णौ गौणतया वर्णनीयत्वात् । अश्रुतत्वामतत्वादिरूपविष्णुधर्मसंदष्टत्वाच्च । अक्षराधिकरणटीकायां वक्ष्यमाणरीत्या तत्र प्रधानश्रुतविचरणरूपाश्रुतत्वादेर्गौणत्ववर्णनायोगाच्च । अत्र त्वादित्यप्रापकाणां बहुत्वेन तत्सध्रीचीनस्यार्भकौकस्त्वस्य मुख्यत्वसम्भवे त्यागायोगाच्चरमश्रुताश्रुतत्वादेर्गौणत्वसम्भवाद्बाधकाभावादित्येतदप्येतदभिप्रायं नेयम् । केचित्तु सर्वेषु भूतेष्वित्यत्र हृदयस्थत्वाश्रवणान्न तदाक्षेप इत्याहुः । तत्पक्षे उपासात्रैविध्यादित्यादिना गतत्वशङ्कासमाधानादिकं कथमिति चिन्त्यम् । लिङ्गं पूर्वन्यायेन सावकाशमित्याशङ्क्य निराह ।। न चेति ।। इत्यादिश्रुत्येति ।। एतेन ‘‘तस्यापरिच्छिन्नत्वेन सर्वेषु भूतेष्वित्युक्ताल्पौकस्त्वायोगादि’’ति टीकोपपादिता । ननु ‘‘एषम आत्मान्तर्हृदयेऽणीयान्व्रीहेर्वा यवाद्वे’’त्यणीयस्त्वमपि श्रूयत इति चेन्न । द्वयोर्विरोधेनाणीयस्त्वस्य जीवधर्मत्वादिना कथञ्चिन्नेयत्वादिति भावेनोक्तं तद्विरुद्धाल्पौ कस्त्वायोगादिति ।। आदित्यनिष्ठत्वादिति ।। एतच्च प्रागेव विवृतमस्माभिः । ननु ब्रह्मणोपि सर्वगतत्वं सङ्कोच्यात्र प्रतिपाद्यत्वमुपेयतामित्यत आह ।। न चेति ।।
एतेन ननु यथा पूर्वपक्षे किञ्चिदादित्यवाक्यं किञ्चिज्जीववाक्यमित्युभयप्रापकसत्त्वाद्वाक्यभेद आश्रीयते तथा पूर्वप्रकरणं पूर्वोक्तरीत्याऽनेकश्रुतिलिङ्गोपेतत्वेन ब्रह्मपरम् । ‘‘चत्वारः पुरुषा’’ इत्यादि त्वन्यपरमित्यस्तु । अत्रोक्तबाधकानामर्भकौकस्त्वादित्यश्रुत्यादीनां तत्राभावादिति निरस्तम् । ब्रह्मततममिति पूर्ववाक्यमसङ्कुचितसर्वगतत्वपरं चेद्भूतेष्वेतमेवेत्यवधारणविरोधेन न ब्रह्म प्रतिपादयितुमलं सङ्कुचिततत्परं चेत्तस्य ब्रह्मत्वव्याघातेन न तत्प्रतिपादयितुं शक्तमित्युभयथा तस्य ब्रह्मपरत्वायोगात् । प्रकृतवाक्यभेद इव पूर्वोत्तरप्रकरणभेदे ज्ञापकाभावादादित्यश्रुत्याद्यनुसारेण ब्रह्मशब्दाश्रुतत्वादिलिङ्गानामन्यथात्वमिव पूर्वत्राप्यन्यथयितुं शक्यत्वेन सर्वत्रादित्यपरत्वे पूर्वपक्षिणं प्रति प्रबलबाधकाभावात् । अत एव टीकायां ‘‘एकप्रकरणत्वा’’दित्युक्तमिति । नन्वत्र ब्रह्मशब्दादयोऽपि ब्रह्मत्वसाधकास्सन्तीत्युक्तमित्यत्राह ।। ब्रह्मशब्दस्य चेति ।। एतेन ‘‘ब्रह्मशब्दस्य जीवेपि सम्भवा’’दिति टीका विवृता । अश्रुतत्वादेर्गतिमाह ।। ज्योतिरिति ।। एतेन न तदाक्षेप इति सूचितम् । बाधकाभावादिति ।। उक्ताभिप्रायमेतत् । यदप्यन्तरत्वं विष्णुलिङ्गमिति तत्राह ।। अन्तर्यामीति ।। नन्वन्तर उपपत्तेरित्यत्रान्तरत्वं विष्णुलिङ्गतया सिद्धमित्यत आह ।। अन्तरेति ।। तत्र ‘‘य एषोन्तरक्षिणि पुरुष’’ इति चक्षुरन्तस्स्थत्वं श्रूयते नत्विह तथेत्यर्थः । नन्वथापि ‘‘अन्योन्तर आत्माऽऽनन्दमय’’ इत्यत्रान्तरत्वस्य विष्णुधर्मत्वं सिद्धमिति चेन्न । तत्र देहदेहिभावेनान्तस्स्थत्वमुच्यते । ‘‘बहिष्ठो देहवद्विष्णुरन्तस्स्थो देहिवत्स्मृत’’ इति तद्भाष्योक्तेः । न चेह तथा श्रूयते । किन्तु सर्वजीवान्तरत्वम् । उक्तं च ‘‘अन्तस्स्थस्सर्वजीवानां पूर्णत्वात्पुरुषाभिध’’ इत्यैतरेयभाष्ये । नन्वेवमपि ‘‘अन्यभावव्यावृत्ते’’रिति सूत्रेऽक्षरनयेऽणुत्वमहत्त्वयोरविरोधो वक्ष्यते । अणुत्वमहत्त्वे एवाल्पौकस्त्वसर्वगतत्वे । अत एव वैशेषिकाधिकरणे
महतोल्पत्वमपि हि व्योमवत्प्राह वेदवित् ।
यद्यल्पदेशसंस्थानं न सर्वत्रापि नो भवेत् ।।
इत्यादिना व्योमवच्चेति सूत्रांशं मनसि निधाय व्योमदृष्टान्तेनात्रोक्तमल्पौकस्त्वरूपमणुत्वं विष्णावुपपादितम् । न च तत्र प्राकृतस्थौल्यादिराहित्यमेवोक्तम् । ‘‘अस्थूलोऽनणुरूपोऽसावैश्वर्यात्पुरुषोत्तम’’ इति भाष्योक्तेः । ‘‘अन्यवस्तुस्वभावानां स्थौल्यादीनामपाकृतिम् । नारायणे श्रुतिर्वक्ती’’त्यनुव्याख्यानोक्तेरिति वाच्यम् । अन्यभावेति सूत्रोक्तस्थौल्याद्यभावप्रतिपादनेपि सौत्रचशब्देन स्थौल्यादिविरुद्धाणुत्वादेरपि समुच्चिततयाऽणुत्वादेरपि तत्रैवोक्तेः । अत एवानुव्याख्याने
अतो विरुद्धवद्भातमपि व्याख्याय तत्वतः ।
योजनीयं हरौ वाक्यं विरुद्धैर्लक्षणैर्युतम् ।।
इत्यणुत्वादिकमप्युक्तम् । भाष्येऽपि ‘‘अस्थूलोऽनणुरमध्यमो मध्यम’’ इति श्रुतौ मध्यमादिपदेन तत्सूचनाच्च । नचात्राविरुद्धत्वेनोक्तस्यैवाणुत्वादेस्तत्र हेतूकरणं न तु तत्र व्युत्पाद्यतया । अत एव चशब्देन तस्योपादानमिति युक्तम् । इहाणुत्वमहत्त्वयोर्विरोधपरिहार इत्याद्यक्षराधिकरणचन्द्रिकाग्रन्थविरोधात् । एवं चाग्रे हेतूकरणेन ब्रह्मलिङ्गतया निर्णीतस्याल्पौकस्त्वस्य न समन्वेयतायोग्यत्वम् । नापि तेन पूर्वपक्षोदयः पूर्वपक्षे वाऽश्रुतत्वादेर्गौणत्ववर्णनं वा युक्तमिति चेन्मैवम् । अल्पौकस्त्वसर्वगतत्वयोरणुत्वमहत्त्वाविनाभूततयाऽन्यत्वात् । तथाच तयोरेवात्राविरोध उच्यते । नत्वणुत्वमहत्त्वयोः । अत एव सुधायां वैशेषिकनये ‘‘अल्पाल्पतरदेशावस्थानेऽल्पाल्पतरपरिमाणमवर्जनीय’’मित्युक्तम् । न तु तदेव तदिति । नन्वनयोरविरोधोक्तौ तदाक्षेप्ययोरणुत्वमहत्त्वयोरपि स सिद्ध इति न तयोः पुनर्विरोधशङ्कोदेति इति चेन्न । अत्रैव तद्द्वाराऽविरोधेऽपि साक्षादाविरोधानुक्तेः । तयोर्विरोधे प्राकृतत्वं तन्त्रम् । ब्रह्मतु प्राकृतपदार्थव्यावृत्तम् । इति समाध्युक्तर्थत्वेन पुनर्विरोध शङ्कोत्थानोपपत्तेरित्याद्यभिप्रेत्योक्तमित्याद्यूह्यमिति ।
चन्द्रिकाबिन्दुः
मयट इति ।। चक्षुश्शब्दार्थभूतभगवत एव चक्षुर्मयत्वोक्तौ मयटस्सर्वार्थकत्वापत्त्या वैयर्थ्यमित्यर्थः । अन्तरित्याद्यधिकरणेषु विरोधपरिहारस्योक्तत्वान्न तेन गतार्थतेत्याह ।। अन्तरित्यत्रेत्यादि ।। अन्यथा सर्वगतत्वपरत्वे । एवं सति पूर्वाधिकरणाक्षेपानुपपत्तिं परिहरति ।। पूर्वाधिकरणेति ।। तस्यादृश्यत्वादिलिङ्गस्य ।। अत एवेति ।। अन्तरत्वस्य विष्णुलिङ्गत्वेनात्र निश्चितत्वादेवेत्यर्थः । बाधकानामत्युल्बणत्वात् आदौ ब्रह्मपक्षे बाधकानि परिहरन् आदित्यश्रुतेर्विष्णौ ‘‘असावादित्यो हि रसः’’ इति श्रुतौ तस्यैतस्य सकाशात् रसः सारः आदित्यः इत्यर्थ उक्तो भवति ।।
पाण्डुरङ्गि
पशुशब्दस्य तद्विशेषच्छागवदादित्यश्रुत्या चक्षुर्मयत्वादिजीवलिङ्गानां जीवविशेषादित्य एव पर्यवसानेन सर्वजीवप्रापकाभावात्कथं सर्वजीवानां प्राप्तिरित्याशङ्कते ।। न चेति ।। ननु सर्वेषु भूतेष्वित्यनेन सर्वगतत्वस्यैवोक्तत्वेनार्भकौकस्त्वानुक्तेः कथमर्भकौकस्त्वेन सर्वजीवप्राप्तिरित्यत आह ।। सर्वेष्विति ।। ननु यदि सर्वेषु भूतेष्वित्यत्राल्पौकस्त्वमुच्येत तर्ह्यत्रोक्तसर्वगतो न विष्णुश्चेत्पूर्वोक्तोऽपि न सर्वगतो विष्णुः स्यादित्याक्षेपायोगात्पूर्वाधिकरणाक्षेपानुपपत्तिरित्यत आह ।। पूर्वाधिकरणाक्षेपस्त्विति ।। एवमादित्यश्रुतेः प्रसिद्धादित्यपरत्वं साधकैरुपपाद्य तत्र बाधकं परिहरति ।। ब्रह्मशब्दस्य चेत्यादि ।।