अत एवात्र टीकादौ आदित्यशब्दस्य न विष्णुपरता

आदित्यशद्बस्य विष्णुपरत्वाभावशङ्का

तात्पर्यचन्द्रिका

अत एवात्र टीकादौ आदित्यशब्दस्य न विष्णुपरता । तल्लिङ्गाभावात् । प्रत्युतादित्यलिङ्गसद्भावादिति दर्शयितुं तल्लिङ्गप्रतिपादकांशोप्युपात्तः । एवं चोत्तरत्राप्यादित्यादिशब्दैः पूर्वत्रापि प्राणादिशब्दैः पूर्वपक्षोदयः सुलभः । अन्यथा श्रुतीनामन्यलिङ्गानां च तदधीनत्वन्यायेन ब्रह्मणि मुख्यत्वस्य सिद्धत्वेनान्यश्रुत्याद्याश्रयणेन पूर्वपक्षः क्वापि नोदीयात् । यद्वा अन्तरित्यत्रेन्द्रादिशब्दानां विष्णौ मुख्यत्वोक्तिरस्तु । तथाप्यादित्यशब्दो नान्तरधिकरणविषयवाक्ये श्रुतः । नापि तन्न्यायविषयः । अत्रेव तत्र निरवकाशदेवतालिङ्गाभावात् । अत एव टीकादौ तदविषयतां दर्शयितुं देवतालिङ्गप्रतिपादकांशोप्युदाहृतः । पर्यायाणामपि तदधिकरणन्यायविषयाणामेव तेन समन्वयसिद्धिः । न तु तदविषयाणाम् । उत्तराधिकरणटीकाप्यदितिशब्दसजातीयेन्द्रादिशब्दसमन्वयस्योक्तत्वाभिप्राया । अनुव्याख्याने सर्वशब्दोपि न्यायविषयसर्वपरः। तत्राधिदैविकत्वाद्युपाध्युक्तिरप्यधिकरणान्तरविषयाधिभौतिकादिव्यावृत्त्यर्था । न तु सर्वाधिदैविकसङ्ग्रहार्था । तस्माद्युक्तः पूर्वपक्षः ।

प्रकाशिका

नन्वेवं भाष्यादौ ‘‘तस्यैतस्यासा’’विति लिङ्गभागोक्तिः किमर्थेत्यतस्तदाशयमाह ।। अत एवेति ।। तन्न्यायाविषयत्वमेवाह ।। अत्रेवेति ।। नन्वेवमुत्तराधिकरणटीकायामदितिश्रुतेः सावकाशत्वोक्तिरयुक्ता । तस्या अपि तद्विषयवाक्येऽश्रुतत्वात्तन्न्यायाविषयत्वाच्च । अत एवादितित्वलिङ्गादिति वक्ष्यतीत्यत आह ।। उत्तरेति ।। नन्वेवं ‘‘देवतान्तरगास्सर्व’’ इत्युक्तिविरोध इत्यत आह ।। अनुव्याख्यान इति ।। नन्वेवं सङ्कोचे ‘‘देवतान्तरगा’’ इत्याधिदैविकशब्दत्वं ‘‘अध्यात्मगैश्च प्राणाद्यै’’रित्यध्यात्मशब्दत्वमित्याद्युपाध्युक्तिरयुक्ता । सर्वसङ्ग्रहार्थत्वात्तस्या इत्यत आह ।। तत्रेति ।।

चन्द्रिकाबिन्दुः

।। अत एवेति ।। एवं चेति ।। अन्यत्र प्रसिद्धिसम्पादकनिरवकाशलिङ्गसम्पादनेन वैषम्योपपादने सतीत्यर्थः । एवं सत्यनुव्याख्यानटीकादीनां बहुगौणत्वं भविष्यतीति मनसि निधाय अन्तरधिकरणे इन्द्रादिशब्दस्यामुख्यवाच्यत्वमेव समर्थितं भवत्वित्यभिप्रायेण पक्षान्तरं आह ।। यद्वेति ।। अत्रेवेति ।। आदित्यादौ तु संवत्सरपतित्वादिनिरवकाशदेवतालिङ्गमस्तीति न तेन गतार्थतेति भावः । न्यायसाम्याद्गतार्थत्वाक्षेपस्तु कर्तुं शक्यत इत्यभिप्रायेण अन्यत् ।। उत्तराधिकरणेति ।।

पाण्डुरङ्गि

नन्वेवं श्रुतिमात्रेण पूर्वपक्षोदये टीकायां लिङ्गप्रतिपादकांशोदाहरणमयुक्तं स्यादित्यत आह ।। अत एवेति ।। नन्वेवमनुव्याख्याने तत्राभ्यधिकाशङ्कोक्तिरयुक्ता । सुधायां च नन्वेवमपि तु पूर्वन्यायेन गतार्थं नाधिकरणारम्भं प्रयोजयतीत्युक्तत्वात्तद्विरोधश्च । आकाशाधिकरणे तदधीनत्वादित्यत्र सर्वस्येश्वराधीनतामङ्गीकृत्य तस्याः प्रवृत्तिनिमित्तत्वं नेति प्राप्तेऽस्तीति सिद्धान्त इत्येवं प्रतिपाद्यते । न तु मुख्यत्वमित्युक्तत्वेन तद्विरोधश्चेत्यरुच्या पक्षान्तरमाह ।। यद्वेति ।। ननु तत्र कथं निरवकाशदेवतालिङ्गाभावः । सप्त युंजन्ति रथमेकचक्रमिति निरवकाशलिङ्गानां तत्रापि सद्भावादिति चेन्न । क्वचिन्निरवकाशलिङ्गसद्भावेप्यसार्वत्रिकत्वान्न तस्य विवक्षा । न हि तत्र स एवान्तस्थ इत्येक एव पूर्वपक्षः । किं त्वनेके । न च सर्वत्रापि लिङ्गं निरवकाशं यच्चास्ति निरवकाशं लिङ्गं तदप्येतदधिकरणन्यायेनैव सावकाशं भविष्यतीति तत्र न विवक्षितम् । किन्तु श्रुतिमात्रेण पूर्वपक्षे लिङ्गेन सिद्धान्तः । अत्र तु श्रुतिलिङ्गाभ्यां पूर्वपक्षिते निरवकाशश्रुतिलिङ्गाभ्यां सिद्धान्तोऽतो युक्तो न्यायभेदः । नन्वन्तरधिकरणन्यायेन सवितृशब्दस्य भगवत्परत्वे निर्णीते तत्पर्यायत्वादादित्यशब्दस्यापि भगवत्परत्वमावश्यकमित्यत आह ।। पर्यायाणामिति ।। नन्वेवमन्तस्स्थप्रकरणेप्यदितिशब्दस्याप्यभावेनोत्तराधिकरणटीकायामदितिशब्दस्यान्तरधिकरणन्यायेन सावकाशत्वशङ्कानुपपत्तिरित्यत आह ।। उत्तराधिकरणटीकापीति ।। आदित्यशब्दस्योत्तरान्तराधिकरणन्यायेन भगवत्परत्वाभावे देवतान्तरगा इत्यनुव्याख्यानविरोध इत्यत आह ।। अनुव्याख्यान इति ।। नन्वेवमन्तरधिकरणटीकायामधिदैवगतसर्वशब्दसमन्वयः प्रतिपाद्यत इत्युपाध्युक्तेः कागतिरित्यत आह ।। तत्रेति ।।