अत्र ‘‘अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं ..
विषयचिन्तानिरूपणम्
तात्पर्यचन्द्रिका
अत्र ‘‘अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोस्मिन्नं तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यमिति । तं चेद्ब्रूयुर्यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोस्मिन्नन्तराकाशः किं तदत्र विद्यते यदन्वेष्टव्यं यद्वाव विजिज्ञासितव्यमिति । स ब्रूयात् । यावान्वा अयमाकाशस्तावानेषोन्तर्हृदय आकाश उभे अस्मिन्द्यावापृथिवी अन्तरेव समाहिते उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभा’’वित्यादि छान्दोग्यवाक्यस्थं हृत्पद्मस्थत्वं किमाकाशादेः किं वा ब्रह्मण इति चिन्ता । तदर्थं हृत्पद्मस्थे श्रुतमपहतपाप्मत्वादिकं किममुख्यमुत मुख्यमिति । तदर्थं तस्य मुख्यत्वे ‘‘यावान्वा’’ इत्यादिप्रतिवचनं विरुध्यते न वेति । तदर्थं प्रतिवचनं किं ‘‘दहरोस्मिन्नन्तराकाश’’ इति पूर्वं हृत्पद्मस्थतयोक्तभूताकाशमनूद्य तत्स्थस्य द्यावापृथिव्यादेरन्वेष्टव्यत्वप्रतिपादकं किं वा ‘‘तस्मिन्यदन्तस्तदन्वेष्टव्य’’मिति पूर्वोक्तान्वेष्टव्यस्य ब्रह्मत्वं विधाय तस्यान्वेष्टव्यत्वाय द्यावापृथिव्याद्याश्रयत्वप्रतिपादकमिति । तथा ब्रह्मणो द्यावापृथिव्याश्रयत्वे सुषिरश्रुतिर्विरुध्यते न वेति । यद्याद्यस्तदा प्रतिवचनविरोधेन सुषिरश्रुतिविरोधेन चापहतपाप्मत्वादेर्भूताकाश एवामुख्यस्य सम्भवात्तस्यैवान्वेष्टव्यद्यावापृथिव्याद्याश्रयत्वविशिष्टं हृत्पद्मस्थत्वम् । यदि तु द्वितीयस्तदा विरोधद्वयाभावान्मुख्येनापहतपाप्मत्वादिनाऽन्वेष्टव्यत्व-द्यावापृथिव्याद्याश्रयत्वविशिष्टं हृत्पद्मस्थत्वं ब्रह्मण एव ।
प्रकाशिका
विषयसंशयटीकां व्यनक्ति ।। अत्रेति ।। ‘‘तद्धृदयपद्मस्थत्वं विषय’’ इत्यत्र तच्छब्दपरामर्शमाह ।। अथ यदिदमित्यादिना ।। छान्दोग्येति ।। छान्दोग्येऽष्टमाध्यायगतवाक्यस्थमित्यर्थः । वाक्यस्यार्थोऽग्रे व्यक्तः । आकाशादेः आकाशजीवयोरित्यर्थः । दहरे तत्तु ब्रह्मैवेति प्रतिज्ञांशं व्यावर्त्य पूर्वपक्षोपयुक्तचिन्तामुक्त्वा ‘‘उत्तरेभ्यः गतिशब्दाभ्या’’मित्यादि हेत्वंशव्यावर्त्यपूर्वपक्षोपयुक्तचिन्तामाह ।। अपहतेति ।। ‘‘एष आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोकोऽविजिघत्सोऽपिपासस्सत्यकामस्सत्यसङ्कल्प’’ इत्यादिना श्रुतमित्यर्थः ।। ब्रह्मत्वमिति ।। आकाशपदेनेत्यर्थः । यद्यप्येवं न भाष्ये प्रतीयते । न्यायविवरणे च ‘‘योऽन्वेष्टव्यो भगवांस्तस्यान्तर्हृदय’’ इत्यादिनान्वेष्टव्यतयोक्तस्य ब्रह्मत्वं सिद्धं कृत्वा प्रकारप्रश्ने तत्कथनपरतया यावानित्यादिवाक्यं योजितम् । विवृतं चैवमेव टीकायाम् । अतः ‘‘तस्मिन्यदन्तस्तदन्वेष्टव्य’’मिति पूर्वोक्तान्वेष्टव्यस्य ब्रह्मणोऽन्वेष्टव्यत्वायाकाशादिसर्वाश्रयत्वादिप्रकारप्रतिपादकमिति चिन्ता प्रदर्शनीया । तथाप्यस्मिन्पक्षे वक्ष्यमाणदिशा प्रश्नप्रतिवचनयोस्तुल्यविभक्तिकत्वाभावात् ब्रह्मत्वविधानपक्षे तत्सत्त्वस्य वक्ष्यमाणत्वाच्छान्दोग्यभाष्योक्तब्रह्मत्वविधानकोटिकचिन्ता प्रदर्शितेति ज्ञेयम् । अत्र द्वौ पूर्ववादिसाधकावुत्तरवादिबाधकौ वाक्यानन्वयसमाख्याविरोधरूपौ न्यायविवरणभाष्याभ्यामुक्तौ । तत्राद्यघटितां चिन्तामुक्त्वा द्वितीयघटितामाह ।। तथेति ।। अस्पष्टत्वात् फलफलिभावं व्यनक्ति ।। यद्याद्य इति ।। यदि यावानित्यादिप्रतिवचनं ब्रह्मपरत्वे सुषिरश्रुतिविरोधेन भूताकाशानुवादेन तत्स्थस्य द्यावाभूम्यादेरन्वेष्टव्यत्वप्रतिपादकं तर्हि भूतस्यैव हृत्पद्मस्थत्वप्राप्तेः प्रतिवचनविरोधेनापहतपाप्मत्वादेर्गौणतया प्राक्तनमपि हृत्पद्मस्थत्वं भूतस्यैव सिध्यतीत्यर्थः ।
ननु यावानिति प्रतिवचनस्य वाक्यतया कथं तद्विरोधेनापहतपाप्मत्वादेर्लिङ्गस्य बाधेन गौणत्वोक्तिः । वैपरीत्यस्यैवौचित्यात् । वक्ष्यति च ‘‘शब्दादेवे’’त्यत्र ‘‘किं तदत्र विद्यत’’ इत्यादिवाक्यस्यापहतपाप्मत्वादिलिङ्गाद्दुर्बलत्वमिति । न च प्रतिवचनरूपवाक्यस्य प्रथमस्थत्वेनासञ्जातविरोधित्वेन प्राबल्यं मन्यते पूर्वपक्षी । अग्रेतनं लिङ्गवाक्ययोः प्राबल्यदौर्बल्यकथनं तु लिङ्गत्ववाक्यत्वप्रयुक्तमेवेति न विरुध्यत इति वाच्यम् । विकारस्य मुख्यत्वाय प्रथमस्येक्षणस्यैव गौणताया न्याय्यत्वादिति पूर्वाधिकरणोक्तदिशा पूर्वबाधस्यैव युक्तत्वात् । न चाकाशश्रुतियुक्तत्वेन वाक्यस्य लिङ्गाद्बलवत्त्वम् । एष आत्माऽपहतपाप्मेति श्रवणेन लिङ्गस्यापि ‘‘स्वशब्दा’’दित्युक्तन्यायेन ब्रह्मवाचकात्मश्रुतियुक्तत्वात् । न च वाक्ये श्रुतेरभ्यासोऽस्तीति तस्य बलवत्त्वम् । ‘‘तद्य इहात्मानमननुविद्य व्रजन्ति । अथ य आत्मानमनुविद्य व्रजन्ती’’ति चात्मश्रुतेरभ्यासाल्लिङ्गानां बहुत्वाच्चेति चेन्मैवम् । वक्ष्माणादिशा वाक्यस्य निरवकाशत्वं लिङ्गानां सावकाशत्वमिति पूर्वपक्षिणोऽभिमानात् । एकेनापि जात्या दुर्बलेन निरवकाशेन बहूनां सावकाशानां बाधात् । ‘‘आनर्थक्यप्रतिहतानां विपरीतं बलाबल’’मिति न्यायादिति भावः ।। यदित्विति ।। यदि ‘‘यावा’’निति प्रतिवचनं ‘‘किं तदत्र विद्यत’’ इति प्रश्ने आकाशशब्दितं ब्रह्म विद्यत इत्यन्वेष्टव्यं ब्रह्मेत्युक्तिपरं तदा विष्णोरेव सर्वाधारतया हृत्पद्मस्थत्वप्राप्तेः प्रतिवचनविरोधाभावात् प्राक्तनमपि हृत्पद्मस्थत्वं तस्यैव । एवं चापहतपाप्मत्वादिकं मुख्यमेव । तथा सुषिरश्रुतेरपि सर्वाधारत्वाभिप्रायेण परम्परया सुषिरस्य सर्वाधारत्वबोधनपरतयोपपत्तेस्तद्विरोधाभावाद्धृत्पद्मस्थत्वं विष्णोरेव सिध्यतीत्यर्थः ।
पाण्डुरङ्गि
विरोधद्वयाभावादिति ।। प्रतिवचनविरोधसुषिरश्रुतिविरोधरूपविरोधद्वयाभावादित्यर्थः ।