जीवे धर्मिण्युत्पत्त्यनुत्पत्ती चिन्तिते
उत्क्रान्त्यधिकरणम्
तात्पर्यचन्द्रिका
जीवस्याणुत्वसमर्थनम्
ॐ उत्क्रान्तिगत्यागतीनां ॐ ।।
जीवे धर्मिण्युत्पत्त्यनुत्पत्ती चिन्तिते । अथ तद्धर्मे परिमाणेऽणुत्वमहत्त्वे चिन्त्येते इति सङ्गतिः । अत्र ब्रह्मणि श्रुतिसमन्वयसिद्ध्यर्थं जीवस्याणुत्वोत्क्रमणादिश्रुतिः किं सर्वदेहसम्बद्धस्पर्शादिज्ञानरूपयुक्तयनुगृहीतया ‘‘व्याप्ता ह्यात्मान’’ इति व्याप्तिश्रुत्या बाधितोत नेति चिन्ता । तदर्थं व्याप्तिश्रुतिः किं जीवविषया सर्वदेहसम्बद्धस्पर्शादिज्ञानं चाणुत्वेनोपपद्यते उत व्याप्तिश्रुतिरीश्वरविषया सर्वदेहसम्बद्धस्पर्शादिज्ञानं च जीवस्याणुत्वेऽप्यंशव्याप्त्यादिनोपपद्यत इति । तदर्थं व्याप्तिश्रुतौ श्रुतं बहुत्वं भिन्नाश्रितमित्युत्सर्गन्यायस्यापवादकं नास्त्यंशव्याप्त्यादिकं च न युक्तमुत सामान्यन्यायस्यापवादकमस्त्यंशव्याप्त्यादिकं चन्दनवद्युक्तमिति ।
पूर्वपक्ष्यभिमतव्याप्तिश्रुतेः प्राबल्याय ‘‘सर्वदेहस्पर्शज्ञाना’’दिति न्यायविवरणोक्तां पूर्वपक्षयुक्तिमाह ।। सर्वदेहेति ।। सिद्धान्तमाह ।। सिद्धान्तयदिति ।। एतेन चैत्रभोगार्थस्याङ्कुरादेश्चैत्रादृष्टजन्यत्वादात्मसमवेतस्य चादृष्टस्य साक्षादङ्कुराद्यसम्बन्धादात्मनोंऽकुरसम्बन्धावश्यंभावाद्विभुत्वमिति तार्किकोक्तं निरस्तम् । चैत्रभोगाहेतोरप्यंकुरादेरात्मद्वारा तददृष्टसम्बन्धेऽपि तदजन्यत्वेनात्म द्वारकसम्बन्धस्यातन्त्रतया प्रतियोग्यभाववाच्यवाचकज्ञानज्ञेयादाविवादृष्टकार्ययोरपि सम्बन्धांतरस्यैव वक्तव्यत्वात् । अस्ति हि कारीर्यदृष्टस्य वृष्ट्या सह तदुद्देशेन विहितक्रियाजन्यत्वरूपः सम्बन्धः ।। प्रसङ्गाच्चिन्त्यत इति ।। प्रस्तुतस्याणुत्वस्योत्क्रान्तिमात्रेण सिद्धेरणुत्वसाधकाधिकरणमध्ये स्वातन्त्र्यपारतन्त्र्यादिचिन्ता प्रासङ्गिकीत्यर्थः । ‘‘यस्य योगे दुहिता जायते दिव उभे अहनी सुदिने विवस्वतः’’ । इत्युत्तरार्धे ऐतरेयभाष्योक्तरीत्या ‘‘यस्य योग’’ इत्यनेन शरीराख्यरथस्य भगवदर्पणरूपः सम्बन्धः, ‘‘विवस्वत’’ इत्यनेन भगवान्, ‘‘दिवो दुहिते’’त्यनेन परोक्षज्ञानं, ‘‘सुदिने अहनी’’ इत्यनेन जीवन्मुक्तिमुक्ती विवक्षिते इत्यभिप्रेत्य व्याचष्टे ।। यत्सम्बन्धादिति ।। घटादिरूपस्यैव तत्र प्रतीयमानत्वादिति ।। नीलघटादिसम्बद्धबालार्कप्रभादौ प्रतीयमानमारुण्यादिकं तु न्यायमतेऽपि न प्रभानिष्ठमिति भावः ।
किं च ‘‘गुणादिपञ्चकस्य निर्गुणत्वनिष्क्रियत्वादिपरिभाषा नादरणीये’’ति टीकाकारैरन्यत्रोक्तत्वाद्गुणेषु चतुर्विंशतिसङ्ख्यावत् समवायादावेकत्वसङ्ख्यावत् रूपे स्पर्शात्पृथक्त्ववत् जातेः सर्वगतत्वेन महत्त्ववच्च प्रभाया गुणत्वेऽपि तत्र रूपचलनादिकमप्यस्तु । अत एव दीपे गच्छति प्रभाया अपि गतिदर्शनात्क्रियावत्त्वेनालोकस्य द्रव्यत्वमिति निरस्तम् । घटे गच्छति तद्रूपस्यापि गतेः । अन्यथा श्येने चलत्यचलतः स्थाणोरिव रूपस्य तत्रैवावस्थितिः स्यादित्यपि द्रष्टव्यम् ।।
द्रव्यत्वसाधकताविवादादिति ।। उत्तराधिकरणे गुणस्यापि गन्धस्य द्रव्यं विहायापि वृत्तेर्वक्ष्यमाणत्वादिति भावः ।। तदनुविधानादिनेति ।। न च छायायां व्यभिचारः । भित्त्यादावचलेऽपि छायायाः सूर्यप्रातिलोम्येन चलनात् । लोके माणिक्यप्रभादौ तद्गुणत्वव्यवहारः, ‘‘तेजोबलैश्वर्यमहावबोध सद्वीर्यशक्तयादिगुणैकराशि’’रिति स्मार्तस्तेजसि गुणत्वव्यवहारश्च गुणत्वे प्रमाणमिति दर्शयितुमादिशब्दः । अत एव टीकाकारैः ‘‘शुद्धानंदोरुसंविद्द्युती’’ति द्युतेर्गुणत्वमुक्तम् ।। कारणान्तरदर्शनादिति ।। तदैव तत्रत्यतैजसपरमाणव एव द्व्यणुकादिप्रक्रमेणालोकमण्डलमारभन्त इत्यत्र मानाभावादिति भावः ।। अप्रतीतिप्रसङ्गादिति ।। अकार्यद्रव्यत्वे परमाणुत्वापातेनाप्रत्यक्षत्वप्रसङ्गादित्यर्थः ।। तथा सति प्रदीपानुविधानानुपपत्तेरिति ।। उपलक्षणं चैतत् । निबिडावयवेन्द्रनीलादाववयवविकिरणस्यासम्भावितत्वात्तत्र प्रभा न स्यादित्यपि द्रष्टव्यम् ।। बाहुल्यं स्यादिति ।। आद्यक्षण इव द्वितीयादिक्षणेष्वप्यवयवानां विकिरणस्य न्याय्यत्वादिति भावः । पक्षान्तरमाह ।। अप्रधानसाम्येन वेति ।। शुभमादत्त इत्यर्थकेन श्रुतिसूत्रस्थेन स्वात्मशब्देनेश्वरस्योत्क्रान्त्यादिना जीववन्न दुःखमिति दर्शितम् ।। छ ।। उत्क्रान्त्यधिकरणम् ।।१२।।
प्रकाशिका
अत्र जन्मादिसूत्राक्षेपायोगादाह ।। श्रुतिसमन्वयसिद्ध्यर्थमिति ।। अणुत्वेति ।। ‘‘अणुर्ह्येष आत्मे’’त्यणुत्वश्रुतिः । ‘‘सोऽस्माच्छरीरादुत्क्रम्यामुं लोकमभिगच्छती’’त्याद्युत्क्रमणगत्यादिश्रुतिः ।। सर्वदेहसम्बद्धेति ।। कमनीयतनयाद्यालिङ्गनादिना जातसर्वाङ्गीणस्पर्शादिज्ञानेत्यर्थः । युक्तेरपि निरवकाशत्वसावकाशत्वचिन्तामाह ।। नोपपद्यत उपपद्यत इति ।। युक्तेरप्युपपादकाभावभावचिन्तामाह ।। न युक्तं युक्तमिति ।। अत्राद्या ‘‘नाणुतरच्छते’’रिति सूत्रांशसूचिता । अन्ये तु ‘‘अविरोधश्चन्दनव’’दित्यादिसूत्रसूचिते । अंशव्याप्त्यादीत्यादिपदेन चिद्गुणव्याप्तेर्ग्राह्यत्वादपवादकमधिकारस्वशब्दोन्मानत्वरूपम् । व्यक्तोऽत्र फलपलिभावः । प्रतियोग्यभावादाविव क्लृप्तस्वरूपसम्बन्धो नास्तीत्यत आह ।। अस्ति हीति ।। न प्रभानिष्ठमिति ।। पार्थिवत्रसरेण्वादिनिष्ठम् । प्रभायाश्शुक्लभास्वररूपत्वादिति भावः । अन्यत्र मिथ्यात्वानुमानखण्डनटीकायाम् । विवृतमेतत्तत्रैव भावप्रकाशिकायाम् ।। न च छायायामिति ।। तस्यास्तमोविशेषत्वात्तमसोद्रव्यत्वस्य तर्कताण्डवे साधनादिति भावः । स्वात्मना चोत्तरयोरित्यत्र स्वात्मपदकृत्यमाह ।। शुभमादत्त इति ।। छ ।। उत्क्रान्त्यधिकरणम् ।। १२ ।।
चन्द्रिकाविवृतिः
ॐ उत्क्रान्तिगत्यागतीनाम् ॐ ।। अणुत्त्वमहत्त्वे इति ।। अणुमहच्छब्दौ परिमाणस्यापि वाचकाविति कृत्त्वाऽणुत्वेत्याद्युक्तम् ।। तदर्थं व्याप्तिश्रुतौ श्रुतमिति ।। व्याप्तिश्रुतिः किं जीवविषयेत्येतदर्थत्वेन बहुत्वं भिन्नाश्रितमित्युत्सर्गन्यायस्यापवादकं नास्तीत्यंशः देहसम्बन्धस्पर्शादिज्ञानं चाणुत्वेनोपपद्यत इत्येतदर्थत्त्वेनांशव्याप्त्यादिकं च न युक्तमित्यंशः । एवं सिद्धान्तकोटौ फलफलिभाव ऊह्यः ।। श्रुतेः प्राबल्यायेति ।। नतु जन्मादिसूत्राक्षेपाय केवां पूर्वपक्षदार्ढ्यार्थमेवोपन्यासादिति भावः ।। अदृष्टवदात्मसम्बन्धोऽतिप्रसक्त इत्याह ।। चैत्रभोगाहेतोरिति ।। प्रतियोग्यभावेत्यादि ।। घटतत्प्रागभावयोः कालद्वारा सम्बन्धः यस्मिन् घटस्तस्मिन्नेव काले प्रागभाव इति घटाश्रयकालसम्बन्धित्त्वेनैव घटप्रागभाव इति व्यवहारोत्पत्तौ प्रतियोग्यनुयोगिभावो न स्वीकर्यः । एवं वाच्यवाचकभावोऽपि ज्ञानविषययोः न स्वीकार्यः । ज्ञानाश्रयात्मसंबन्धित्वेनैव घटस्य घटज्ञानमित्युपपत्तेरित्याशयः ।। नन्वदृष्टतत्कार्ययोः ज्ञानज्ञेयादिवत्संबन्धविशेषालाभादात्मद्वारक एव सम्बन्धः स्वीकार्य इत्यत आह ।। अस्ति हीति ।। तदुद्देशेन तत्फलार्थमित्यर्थः ।।
ननु प्रसङ्गादिति टीकोक्तमयुक्तम् । जीवप्रकरणे स्वातन्त्र्यास्वातन्त्र्यविचारस्य जीवविषयसङ्गतेरित्यत आह ।। प्रस्तुतस्येति ।। अधिकरणेऽस्मिन्नसङ्गतिरेवेति भावः ।। न तत्प्रभानिष्ठमिति ।। तच्चोभयसमाधेयम् ।। आलोकस्य तेजोद्रव्यत्त्ववादिनापि शुक्लभास्वररूपवत्वमेव वक्तव्यं न त्वारण्यमिति भावः ।। चतुर्विंशतिशब्दाभिधेयत्वेन गुणेषु चतुर्विंशतित्त्वमिति पराभिप्रेतं समाधानमयुक्तमित्यभिप्रेत्य द्वितीयमुदाहरणं गृह्णाति ।। समवायादावेकत्वसंख्यावदिति ।। एकत्वं नात्र संख्या किं तु स्वसजातीयव्यक्तयंतरशून्यत्वमिति समाधानं मत्त्वा तृतीयोदाहरणमाह ।। रूपे स्पर्शादिति ।। पृथक्त्वमन्योन्याभाव एवेति परो वदति । अतः तदर्थमाह ।। जातेः सर्वगतत्वेनेति ।। महत्त्वं तु जातेरन्यत्रोपपादितम् । गन्धस्येति ।। पुष्पवनमध्यगतस्य पुंसः सूक्ष्मवाय्वभावदशायामपि गन्धोपाब्धिर्गन्धगुणस्य गुणिनं विहायाप्यन्यत्र सत्वज्ञापिका । वायुस्थो तु अवयवानां गमनमङ्गीकृतं गीताभाष्यटीकायां स्फुटम् । पक्षान्तरमाहेति ।। अनेनेदं केवां पक्षान्तरमेव । नतु पूर्वारुच्या पक्षान्तरमिति ज्ञापितम् । अन्यथा वाशब्देनैव पक्षान्तरत्वज्ञानसम्भवात् अवतारिका व्यर्था । अत्राधिकरणे जीवाविभुत्वसाधकं उत्क्रान्त्यादिकं सर्वात्मनाः पूर्वदेशविभागादिकारणीभूतक्रिया विवक्षिता । अतो भगवद्रूपे कृष्णरूपेण पूर्वदेशविभागेऽपि रूपान्तरेण तत्रैव भगवतः सत्वादिति भूमाधिकरणे सिद्धान्ते स्फुटं चन्द्रिकायाम् ।। छ ।।