समयाविरोध उक्तः

तृतीयः पादः

वियदधिकरणम्

तात्पर्यचन्द्रिका

न्यायविवरणे टीकायाञ्च निरूपणभेदस्य आशयनिरूपणम्

समयाविरोध उक्तः । श्रुत्यविरोध उच्यतेऽस्मिन्पादे ।। ॐ न वियदश्रुतेः ॐ ।। अत्र समन्वयाध्यायोक्तं विष्णोः सर्वस्रष्टृत्वं वियदनुत्पत्तिश्रुतिविरुद्धं न वेति चिन्ता । तदर्थं वियदनादित्वश्रुतिर्मुख्योत गौणीति ।। तदर्थमनादित्वश्रुतिरनुभवाद्यनुगृहीतत्वेन प्रबलोत नेति ।। अधिभूतादिविचार इति ।। एकैकाधिभूतविचार इत्यर्थः ।। विचारबाहुल्याभिप्रायेण क्रमोल्लङ्घनमिति ।। सूचीकटाहन्यायेन वर्तिष्यमाणक्रमानुसारेणाधिभूताधिदैवपरमात्मजीवेति वक्तव्ये ‘‘जीवपरमात्माधिभूताधिदैवेष्वि’’ति जीवादिशब्दानां पूर्वनिपातोऽत्र जीवादिविचारस्य बह्वर्थविषयकत्वेन जिज्ञासुं प्रत्यभ्यर्हितत्वादल्पाच्तरत्वाच्चेत्यर्थः ।

‘‘अनुभूतियुक्तिबहुवाग्विरोध’’ इति न्यायविवरणोक्तपूर्वपक्षयुक्तिं विवृणोति ।। न ह्यवकाशस्योत्पत्तिरित्यादिना ।। अत्र न्यायविवरणे ‘‘अवकाशमात्रस्या व्याकृतात्मकत्वादनुत्पत्तिश्रुतीनां तद्विषयत्वम् । उत्पत्तिवचनानामसितवर्णभूततदभिमानशरीरविषयत्वं पराधीनविशेषवत्त्वमात्रविषयत्वं वेति व्यवस्थे’’ति सिद्धान्तयुक्तिरुक्ता । तां विवृणोति ।। तथा हीत्यादिना ।। नन्वत्राकाशद्वित्वमज्ञात्वा ‘‘आत्मन आकाशः सम्भूत’’ इत्यभूत्वाभवनरूपोत्पत्तिश्रुतेः ‘‘अनादिर्वा अयमाकाश’’ इत्यनुभवाद्यनुगृहीतश्रुतिविरोधेनाप्रामाण्ये पूर्वपक्षिते द्वावाकाशौ । तत्रोत्पत्तिश्रुतिर्भूतविषया । अनुत्पत्तिश्रुतिस्त्ववकाशविषया । तस्मान्नविरोध इति ।

श्रुतिद्वयस्यापि मुख्यार्थत्वेन व्यवस्थेति न्यायविवरणोक्तं पक्षान्तरं टीकायां कस्मान्नोक्तमिति चेत् उच्यते । तथात्वे गुणपूर्तिसिद्धये जन्मादिसूत्राभिप्रेतस्वेतरसर्वकारणत्वासिद्धिः । अत्राप्याद्यसूत्रस्थवियत्पदस्य सङ्कोचः । द्वितीयसूत्रेऽनादित्वश्रुतेर्गौणत्वोक्तिविरोधः । ‘‘ईशाधीनविशेषेण जन्या इत्येव कीर्तिताः’’ इत्यनुव्याख्यानविरोधः । षष्ठसूत्रीयभाष्योदाहृतश्रुतिस्थस्य ‘‘स इदं सर्वमसृजते’’ति सर्वशब्दस्य सङ्कोचः । ‘‘आत्मा वा इदमेक एवाग्र आसी’’दित्यवधारणादिविरोधः । इत्यनेकदोषप्रसङ्गान्नोक्तम् । अत एव न्यायविवरणेऽपि पूर्वत्रारुच्या ‘‘पराधीनविशेषवत्त्वमात्रविषयत्वं वे’’ति पक्षान्तरमुक्तम् ।

प्रकाशिका

प्रागुक्तसङ्गतिस्मरणायाह ।। समयेति ।। आद्यसूत्रसूचितां चिन्तामाह ।। अत्रेति ।। ‘‘गौणी’’ति सूत्रसूचितामाह ।। तदर्थं वियदिति ।। ‘‘अस्ति त्वि’’त्यादिसूत्रसूचितामाह ।। तदर्थमनादित्वेति ।। अनुभवयुक्तयनुगृहीतत्वेनेत्यर्थः । स्पष्टःफलफलिभावः । टीकाक्षरार्थमाह ।। अधिभूतेति ।। तामिति ।। पराधीनेत्यादिनोक्तां युक्तिम् । पूर्वांशोक्तिस्त्वग्रेतनशङ्कोत्थानाय ।। इति न्यायविवरणोक्तं पक्षान्तरमिति ।। इति भावेनोक्तमित्यर्थः । ‘‘अवकाशमात्रस्ये’’त्यादि प्रागुदाहृतमेव न्यायविवरणमुक्तपक्षान्तरपरतयापि वाशब्दात्स्पष्टं प्रतीयत इति टीकायां तथैव कस्मान्न व्याख्यातमित्यर्थः ।। अत एवेति ।। अनेकदोषप्रसङ्गादेवेत्यर्थः । पूर्वत्र आकाशद्वित्वोपगमेन व्यवस्थापक्ष इत्यर्थः ।

चन्द्रिकाविवृतिः

ॐ नवियदश्रुतेः ॐ ।। ननु एकस्मिन्नेवाधिकरणे अधिभूतादिविचारा इति कथं न वियदश्रुतेः तेजोऽतस्तथा ह्याह आप इत्याद्यनेकाधिकरणेषु अधिभूतविचारस्य क्रियमाणत्वादित्यत आह ।। एकैकाधिभूतादिविचार इति ।। तां विवृणोति ।। पराधीनविशेषवत्त्वमुत्पत्तिरिति या युक्तिस्तामेव विवृणेतीत्यर्थः । न त्ववकाशमात्रस्याव्याकृतात्मकत्वादियुक्तिं टीकायामदर्शनात् ।। अत एवाकाशद्वित्त्व-मवांब्य श्रुतिद्वयव्यवस्थापकयुक्तेरकथने प्रयोजनं किमिति शङ्कते ।। नन्वित्यादिना ।। मुख्यार्थत्वेनेत्यनेन पराधीनविशेषवत्त्वरूपमुख्योत्पत्यंगीकारेऽस्वारस्यं सूचयति ।। तथात्त्वेऽव्याकृताकाशस्यानुत्पत्तिमङ्गीकृत्य सिद्धान्तकरणे ।। आद्यसूत्रस्थेति ।। न वियदश्रुतेः अस्ति त्विति सूत्रद्वयमपि एकार्थप्रतिपादनपरतया आद्यसूत्रमिति गृहीतम् । द्वितीयेऽपि सूत्रे यत्पदमनुवर्तत एवेत्यभिप्रायः ।। संकोच इति ।। अव्याकृताकाशानुत्पत्तेरङ्गीकृतत्वादिति भावः ।। द्वितीये गौण्यसम्भवादित्यत्र सर्वत्र तथात्वमित्यनुवर्तते ।

Load More