ननु प्रोद्गातॄणामित्यत्रेव ..

उद्गात्रप्रकरण ब्रह्मप्रकरणयो: वैषंम्यप्रदर्शनम्

तात्पर्यचन्द्रिका

ननु प्रोद्गातॄणामित्यत्रेव विभक्त्यर्थानेकत्वानुग्रहाय प्रकृतेऽपि छत्रिवत्प्रातिपदिकलक्षणैव युक्तेति चेन्न । तत्रैव प्रकरण उद्गातृशब्दलक्षणीयानां प्रस्तोत्रादीनां छन्दोगानामिवात्र ब्रह्मप्रकरणे लक्षणीयस्यान्यस्याभावात् । अत एव पाशानित्यत्र बहुत्वाय प्रातिपदिकलक्षणाऽनाश्रिता । उद्गातृपदेन छन्दोगानामिव पाशशब्देन बन्धकद्रव्यलक्षणायां प्रकरणे बन्धकबहुत्वस्याभावात् । यागसाधनद्रव्यमात्रलक्षणायां च पाशमन्त्रस्थस्य प्रमुमोक्त्वित्यस्यानन्वयात् । किं च यद्यपि टीकायां यौ गुहां प्रविष्टौ तौ छायातपौ वदन्तीत्युक्तत्वेन छायातपावित्यनेनोक्तं द्वित्वं विधेयविशेषणं तथापि ‘‘अग्नीनादधीते’’त्यादौ बहुत्वस्योद्देश्यविशेषणत्वेऽपि विवक्षादर्शनेन ‘‘सत्रादुदवसायपृष्टशमनीयेन यजेर’’न्नित्यत्र च बहुत्वस्य विधेयविशेषणत्त्वेऽप्यविवक्षादर्शनेन निर्ज्ञातविशेषणत्वमेवाविवक्षायां तन्त्रमिति ग्रहैकत्वनये स्थितत्वादिह च ‘‘यस्य ब्रह्म च क्षत्रं चे’’त्यादिपूर्ववाक्ये यस्येत्येकवचनेनैकत्वसङ्ख्याया निर्ज्ञातत्वाद्द्वित्वस्याविवक्षाऽस्तु । ‘‘सप्तदश प्राजापत्यान् द्वा सुपर्णेत्यादौ तु प्रागेकत्वस्यानवधृतत्वात् ‘‘अनश्नन्नन्य’’ इत्यादिवाक्यशेषाद्यनुसाराच्च भेद आश्रितः । न ह्यौत्सर्गिकस्य क्वचिदपवादेनान्यथात्वे सर्वत्रापि तथात्वम् । उक्तं ह्यनुव्याख्याने

उत्सर्गतोऽपि यत्प्राप्तमपवादविवर्जितम् ।

व्यभिचार्यपवादेन मानमेव भविष्यति ।। इति

प्रकाशिका

ननु ‘‘उद्गातृचमसमेकस्य श्रुतिसंयोगा’’दित्यधिकरणे ‘‘प्रैतुहोतुश्चमसः प्रसुब्रह्मण्यस्य प्रोद्गातॄणां’’ इति मन्त्रगतबहुवचनानुग्रहाय प्रातिपदिकलक्षणाश्रयणादिहापि तथा स्यादित्याशङ्कां वैषम्येण समाधत्ते ।। नन्वित्यादिना ।। विवृतमेतत्प्राक् जन्माद्यस्य यत इति सूत्रे । छन्दोगत्वरूपधर्मस्येवेह कस्यचिदभावादित्यर्थः । न च जीवादिस्तथा । ब्रह्मप्रकरणत्वव्याघातादिति भावः ।। अत एवेति ।। लक्षणोपयोगिधर्माक्रान्तस्य कस्यचिदभावादेवेत्यर्थः । तादृशधर्मो बन्धकद्रव्यत्वं वा यागसाधनत्वं वा न द्वयमपि युज्यत इत्याह ।। उद्गात्रिति ।। नन्वेवं तर्हि ब्रह्मप्रकरणेऽन्यस्याभावेनान्येन सह द्वित्वमस्त्विति कथमिति चेदप्राकरणिकेन केनचिदस्तु । श्रौतस्य कथमेवं निर्वाह इति चेदुक्तानुपपत्तिबलादेवेत्यवेहि । वस्तुतश्श्रुतितात्पर्यविषयत्वमेव द्वित्वस्य नास्ति । पूर्वोत्तरैकवचनान्तवाक्यविरोधादिति भावेन ‘‘यस्सेतुरिति चैकत्ववचनेन विशेषणा’’दित्यनुव्याख्यानसूचितं परिहारान्तरमाह ।। किञ्चेति ।। द्वित्वस्याविवक्षास्त्वित्यन्वयः । ननूक्तं विधेयगतमित्यतस्तदनूद्याह ।। यद्यपीति ।। विवक्षेति ।। ‘‘वसन्ते ब्राह्मणोऽग्नीनादधीत ग्रीष्मे राजन्यः शरदि वैश्यः’’ इति वाक्ये अग्नीनित्यत्र बहुत्वस्याविवक्षायां गार्हपत्याहवनीयान्वाहार्यपचनरूपाग्नित्रयाधानासिद्धिर्न स्यादिति भावः ।

।। सत्रादिति ।। दशमस्य द्वितीयपादे ‘‘तेषां तु वचनाद्द्वियज्ञवत्सहप्रयोगस्स्या’’दिति त्रयोदशेऽधिकरणे सत्रादिति वाक्यविहितः पृष्टशमनीयउदवसायिभिस्संहत्य प्रयोक्तव्य उतैकैकेनेति संशये यजेरन्नित्याख्यातोपात्तबहुत्वस्योपादेयकर्तृगामित्वेन विवक्षितत्वात्संहत्येति प्राप्ते स्यादेवं यदि बहुत्वं विधीयेत उदवसायेति तु क्त्वाप्रत्ययादुदवसानसमानकर्तृत्वावगमात्तत्र च बहूनां कर्तृत्वात्प्राप्तमेव बहुत्वं न विधेयम् । न चाविहितमङ्गं भवति । उदवसाने गम्यमानमपि बहुत्वमविवक्षितम् । तस्मादैकैकश्येन प्रयुञ्जीरन्निति सिद्धान्तितम् ।। निर्ज्ञातेति ।। निर्णीतविरुद्धविशेषणत्वमेवेत्यर्थः ।। ग्रहैकत्वेति ।। तत्र हि ‘‘दशैतानध्वर्युः प्रातस्सवने गृह्णाती’’ति ग्रहाणां निर्ज्ञातैकत्वविरुद्धसङ्ख्यत्वादेकत्वस्याविवक्षोक्तेरित्यर्थः ।। यस्येतीति ।। ‘‘यस्सेतुरिति चैकत्ववचनेने’’त्युपलक्षणमिति भावः । कथं तर्हि क्वचित्सङ्ख्यया भेदोक्तिरित्यत आह ।। सप्तदशेति ।। प्राग्विवृतमेतदधिकरणम् ।। वाक्यशेषादीति ।। ‘‘स्थित्यदनाभ्यां चे’’त्यत्र वक्ष्यमाणदिशा साशनानशनत्वरूपभेदकधर्मप्रतिपादनात् ‘‘तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्योऽभिचाकशीती’’ति वाक्यशेषानुसाराद्द्वासुपर्णेत्यत्र द्वित्वसङ्ख्यया व्यक्तिभेद आश्रित इत्यर्थः । तथा प्राजापत्यशब्दाभिहितदेवताविशिष्टद्रव्यस्यैव सप्तदशत्वसङ्ख्यान्वयानुसाराच्च यागेषु भेद आश्रित इत्यादिशब्दार्थः । ‘‘अन्यथा सङ्ख्यया कर्मभेदो न स्या’’दिति प्रागुक्तदोषमुद्धरति ।। न हीति ।। औत्सर्गिकस्य सङ्ख्यया भेद इत्यस्य । क्वचित् पिबन्तावित्यादौ । अपवादेन निरवकाशलिङ्गप्रकरणनिर्ज्ञातविरुद्धविशेषणत्वादिनेत्यर्थः ।। उक्तं हीति ।। भक्तिपादे । अपवादेन व्यभिचार्यपीत्यर्थः ।

चन्द्रिकाबिन्दुः

लक्षणैवेति ।। पिबत्प्रातिपदिकलक्षणैवेत्यर्थः । तथा चात्र जीवेश्वराभावे वेति पूर्वपक्ष एव सम्यगिति भावः । अत एवान्यस्य लक्षणीयस्यानुपस्थितत्वादेव । अन्यस्यानुपस्थितिप्रकारमेव दर्शयति ।। उद्गातृपदेनेत्यादिना ।। अविवक्षायां निर्ज्ञातरुद्धं विशेषणत्वमेव तन्त्रं, न तूद्देश्यत्वं वा विधेयत्वं वा । व्यभिचारात् । प्रकृते ब्रह्मण एकत्वेन निर्ज्ञातत्वात् बहुत्वमविवक्षितमित्यभिप्रायेणाह ।। यद्यपीत्यादिना ।। बहुत्वस्येति ।। कर्तृगतबहुत्वस्येत्यर्थः । तथा च सत्रादौ मिलितैः कर्तृभिः पृष्टशमनीयं कर्तव्यं किं त्वेकैकेनापि कर्तुं शक्यत इति भावः । औत्सर्गिकस्य यत्र द्विवचनप्रयोगः तत्र द्वित्वसंख्या इत्यौत्सर्गिकनियमस्येत्यर्थः । अत एव विरुद्धपञ्चत्वसंख्यायाः प्रागज्ञातत्वादेव ।

पाण्डुरङ्गि

तत्रेति ।। उपलक्षणं चैतत् । छत्रिण इत्यत्रानेकेषामेकत्र गमनलक्षणक्रियासम्बन्धवत्प्रकृते उभयोरेकत्र क्रियासम्बन्धाभावाच्चेत्यपि द्रष्टव्यम् । लक्षणीयस्यान्यस्याभावादिति ।। ब्रह्मलक्षणभूतऋतपानयोग्यस्येत्यर्थः । द्वा सुपर्णेत्यादेर्जीवेन सह द्वित्वोपपत्तावपि न तस्य पानम् । लक्ष्यस्य क्रियान्वयापत्तेर्न लक्ष्यत्वमिति भावः । ननु ब्रह्मप्रकरणे लक्षणीयस्याभावेऽप्युभयोरेकक्रियासम्बन्धाभावेऽपि प्रातिपदिकलक्षणा भवत्वित्यत आह ।। अत एवेति ।। तत्प्रकरणे लक्षणीयस्यान्यस्याभावे एकक्रियासम्बन्धाभावे च लक्षणाया असम्भवादेवेत्यर्थः । अन्यथाऽदितिः पाशानित्यत्रापि प्रत्ययार्थबहुत्वापत्त्या प्रातिपदिकलक्षणा स्यादिति भावः । अस्तु तत्रापि लक्षणेत्यत आह ।। उद्गातृपदेनेति ।। एवं प्रकरणानुसारेण प्रत्ययार्थभूतद्वित्वस्यैवास्वारस्यमङ्गीकर्तव्यमित्युक्तम् । इदानीं तु यस्य ब्रह्म च क्षत्रं चेत्यादिपूर्ववाक्ये यस्येत्येकवचनेनैकत्त्वस्य निर्ज्ञातत्वात् । द्वित्वस्याविवक्षायामेकस्यैव बोधनं स्यात्तच्चा निष्टमिति अत्र पङ्क्तिपातः भावः । बहुत्वस्येति ।। तत्रानेकेषामधिकाराभावादित्यर्थः । नन्वेवं विधेयगतविशेषणत्वाद्द्वित्वस्याविवक्षायां सप्तदशप्राजापत्यानित्यत्रापि भेदो न स्यात् । तत्रापि बहुत्वस्य द्वित्वस्य वा विधेयविशेषणत्वेनाविवक्षितत्वादित्यत आह ।। सप्तदशेति ।। न च सप्तदशप्राजापत्यानित्यत्राप्येकत्वस्यावधृतत्वात्कथमेतदिति वाच्यम् । प्रत्येकमेकत्वावधारणेऽपि प्रत्येकं सप्तदशत्वाविधानात् । यत्र च समुदाये सप्तदशत्वं विधीयते तत्रैकत्वस्यानवगतत्वादिति ।। औत्सर्गिकस्येति ।। द्वित्वमविवक्षितमिति नियमस्यौत्सर्गिकत्वे सप्तदशप्राजापत्यानित्यादावेकत्वानवधारणादिरूपापवादकेनाविवक्षाया अभावेऽप्यपवादकाभावेऽविवक्षायास्सम्भवादिति भावः ।