पूर्वपक्षस्तु
पूर्वपक्षनिरूपणम्
तात्पर्यचन्द्रिका
पूर्वपक्षस्तु ।। युक्तं पूर्वोक्तमत्तृत्वं ब्रह्मणि । प्रकृत्यर्थस्य संहर्तृत्वस्य प्रत्ययार्थस्यैकत्वस्य च सम्भवात् । इह तु प्रातिपदिकार्थः कर्मफलभोक्तृत्वं प्रत्ययार्थो द्वित्वं च कर्मबन्धरहिते निर्भेदे च ब्रह्मणि न युक्तम् । अन्यथा ‘‘सप्तदश प्राजापत्यान् पशूनालभत’’ इत्यादौ सङ्ख्यया कर्मभेदो न स्यात् । अन्नमयादीनां तु ‘‘स वा एष पुरुषोऽन्नरसमय’’ इत्यादौ यत्र ब्रह्मतोक्ता तत्रानेकत्वं न श्रुतम् । यत्र च ‘‘अन्नमयप्राणमयमनोमयविज्ञानमयानन्दमया मे शुद्ध्यन्ता’’मित्यत्रानेकत्वं श्रुतं तत्र न ब्रह्मतोक्ता । किंतु संज्ञाधिकरणन्यायेनान्नमयप्राणमयेत्यादिसंज्ञाभेदेनान्नमयादीनां भेदे शङ्किते दाक्षायणयज्ञादिशब्दवत्प्राणमयादिशब्दाः प्रकृते ब्रह्मणि गुणविधायकाः । न तु संज्ञामात्रम् । ततो न भेदका इत्यादिः परिहारस्तत्राभिप्रेतः । तथा चान्नमयादीनां ब्रह्मत्वं स्वीकृत्यैवात्र पूर्वपक्षः । अथवा बहुव्रीहित्वेऽपि ब्रह्मत्वमिति तत्र व्युत्पाद्यम् । अत्र त्वनेकत्वेऽपि ब्रह्मत्वमिति । तथा चान्नमयादीनामनेकत्वादब्रह्मत्वमिति शङ्काया अप्यत्रत्यसिद्धान्तेनैव परिहार्यत्वादत्रत्यपूर्वपक्षेऽन्नमयादीनामपि ब्रह्मत्वाक्षेपः । अत एव न्यायविवरणे ‘‘न चावयवत्वविरोध’’ इति तत्रोक्तम् । अत्र तु ‘‘द्विवचनश्रुतेरपि निरवकाशत्वं नास्ती’’ति । न च दारा इत्यादौ बहुवचनमिवात्र द्विवचनं शब्दसाधुत्वेनैव प्रसिद्धम् । न च बाधकं विना पिबन्तौ प्रविष्टौ छायातपाविति बहूनि द्विवचनानि वचनव्यत्ययेनैकस्मिन्नपि युक्तानि । न च ‘‘ग्रहं संमार्ष्टि’’ इत्यादाविवोद्देश्यविशेषणत्वात् सङ्ख्या न विवक्षितेति युक्तम् । ब्रह्मणि ऋतपानस्य अप्राप्तत्वात् ।। ऋतं पिबन्तावित्यस्योद्देशकत्वेऽपि ‘‘छायातपा’’वित्यादेर्विधायकत्वावश्यंभावाच्च । ग्रहैकत्वस्य वाक्यभेदापत्त्या विध्यसंस्पर्शेऽपि प्रत्येकं ग्रहेष्वेकत्वस्य स्वरूपतः सत्त्वेनानुवादवत्प्रकृते ब्रह्मणि द्वित्वस्य स्वरूपत एवाभावेनानुवादकत्वासम्भवाच्च । न च पिबन्तावित्यादिकमन्यत्र द्वित्ववाच्येव सत् इहातिदेशतः प्राप्तम् । येन ‘‘अग्नये जुष्ट’’मिति मन्त्रस्य सौर्येऽतिदेशतः प्राप्तस्य ‘‘सूर्याये’’त्यूहवद्द्विवचनान्तस्यैकवचनान्ततयोहस्स्यात् । न चैकस्मिन्नेव यागे समिधो यजतीत्यादौ बहुवचनान्तसमित्पदमिवैकस्मिन्नैव ब्रह्मणि द्विचवनान्तं पिबत्पदमस्त्विति वाच्यम् । रूढस्य समिच्छब्दस्य बहुवचनप्रतिरूपकनामधेयत्ववद्यौगिकस्य पिबन्तावित्यादेस्तदयोगात् । छायात्वं च ब्रह्मणो न युक्तम् । जीववदविद्याश्रयत्वासम्भवात् । तस्मादत्र पिबन्तौ जीवेश्वरावेव । ईश्वरस्याभोक्तृत्वेऽपि छत्रिन्यायेन पातृत्वव्यपदेशः । गुहाप्रविष्टत्वब्रह्मशब्दौ तु जीवेऽपि युक्ताविति ।।
प्रकाशिका
आत्मानाविति सौत्रद्विवचनान्तात्मपदेन पिबन्तावितिश्रुतप्रकृतिप्रत्यययोर्द्वयोरपि गत्युक्त्या तदनुरोधेन टीकायामुक्तं द्वाभ्यां पूर्वपक्षं टीकासूचितपूर्ववैषम्योक्तिपूर्वं व्यनक्ति ।। युक्तमिति ।। अत्तीत्यत्र धातुरूपप्रकृत्यर्थस्य तिङ्प्रत्ययार्थस्येति वा अदितेरित्यदिति प्रातिपदिकार्थस्य सुप्रत्ययार्थस्येति वाऽर्थः ।। इह तु प्रातिपदिकार्थ इति ।। ऋतपिबत्प्रातिपदिकयोरर्थ इत्यर्थः । ननु भेदाभावेऽपि ब्रह्मणि द्वित्वं युज्यतां कोदोष इत्यत आह ।। अन्यथेति ।। द्वितीये ‘‘पृथक्त्वनिवेशात्सङ्ख्यया कर्मभेदः स्या’’दिति द्वितीयपादीयसप्तमाधिकरणे ‘‘सप्तदश प्राजापत्यान्पशूनालभत’’ इति वाक्ये किं सप्तदशपशुद्रव्यक एको याग उतैकैकपशुद्रव्यकास्सप्तदशयागा इति संशये प्राजापत्यशब्देन देवतासम्बन्धोपसर्जनकद्रव्यमेवोच्यते । यच्च प्रधानं तस्यैवार्थान्तरेण बहुत्वेनान्वयो नोपसर्जनदेवतासम्बन्धस्य । तथा च बहुभिः पशुभिर्व्यासज्यैकादेवता सम्बध्यते । द्रव्यदेवता सम्बन्धैक्यादेको याग इति प्राप्ते प्रथममेव प्रकृतिप्रत्यययोरन्वयाद्देवताविशिष्टमेव द्रव्यं प्राजापत्यशब्देनाभिहितम् । पश्चाद्विशिष्टेन रूपेण सङ्ख्ययाऽन्वेति । तथा च भिन्नैर्द्रव्यदेवतासम्बन्धैर्भिन्ना एव यागाः कल्प्यन्ते । एवं च सति चोदकावगतमेकपशुनिष्पन्नैकादशावदानद्रव्यकत्वं यागस्यानुगृहीतं भवति नान्यथेति सिद्धान्तितम् । यदि पिबन्तावित्यत्र द्वित्वसङ्ख्यया भेदो न स्यात्तदा सङ्ख्यया कर्मभेदो न स्यादित्यर्थः । आदिपदेन ‘‘द्वासुपर्णा द्वे ब्रह्मणी वेदितव्ये’’ इत्यादौ चेतनभेदो न स्यादिति गृह्यते । नन्विदमानन्दमयाधिकरण एव परिहृतम् । ‘‘बहुरूपत्वाच्चे’’ति ‘‘अनन्योऽप्यन्यशब्देन तथैको बहुरूपवान् । प्रोच्यत’’ इति च भाष्योक्तेरित्यतः ‘‘न हि तत्र द्विवचनं बहुवचनं वा शङ्कितम् । तदभावात् । किं नाम शब्दभेदादिना भेद’’ इति न्यायविवरणटीकानुरोधेन तां विशदयन्नेव परिहारमाह ।। अन्नमयादीनामिति ।। यत्र ब्रह्मवल्ल्याम् ।। यत्र चेति ।। नारायणोपनिषदि । संज्ञाधिकरणं जिज्ञासासूत्रे दाक्षायणयज्ञाधिकरणमानन्दमयनय एव विवृतम् । न्यायद्वयस्य शङ्कापरिहारोपयोगस्तत्रैव दर्शितः ।
ननु तत्र बहुत्वाश्रवणेन ‘‘बहुरूपत्वाच्चे’’त्यादि भाष्ये ‘‘अत एकस्सपञ्चधे’’त्यनुव्याख्याने च कथं तत्समाधानोक्तिः । ‘‘न चानन्दमयाधिकरणन्यायेन परिहारः । बाधकाभावा’’ दित्यत्रसुधावाक्यं च कथमित्यतोऽभ्युपेत्यवादेनेति भावेन परिहारान्तरमाह ।। अथवेति ।। तत्रानेकत्वसङ्ख्यसमाधानं चात्रत्यसिद्धान्तन्यायेनैवेति भावः ।। द्विवचनेति ।। निरवकाशतया प्रतीयमानाया अपीत्यर्थः । एतेन ‘‘पिबन्ताविति द्विवचनश्रुते’’रिति टीका विवृता ।
ननु न द्विवचनं निरवकाशम् । तस्य शब्दसाधुत्वमात्रार्थत्वेन वा एकवचनान्तस्यैव छान्दसद्विवचनान्तत्वेन वा द्वित्वबोधनेऽपि तस्योद्देश्यविशेषणत्वेनाविवक्षिततया वा द्विवचनस्य पूर्वोत्तरवाक्यानुरोधेनैकवचनान्ततयोहेनैकत्वप्रापकतया वा द्विवचनप्रतिरूपकत्वेन वा द्वित्वाप्रापकत्वेनैकस्मिन्नुपपत्तिरिति चोद्यानि क्रमेण निरस्यन्नाद्यं निराह ।। न च दारा इति ।। प्रसिद्धमिति ।। ‘‘दाराः पुंसि च भूम्नयेवे’’त्यादिवन्नैघण्टुक्याः प्रसिद्धेरभावात्तथा कल्पनमयुक्तमित्यर्थः । द्वितीयं निराह ।। न च बाधकमिति ।। ‘‘व्यत्ययो बहुल’’मिति ‘‘सुपां सुलु’’गित्यादिशास्त्रेणैकवचनस्य द्विवचनमिति वचनव्यत्ययकल्पनं ‘‘अहल्यायै जारे’’त्यादौ विभक्तिव्यत्यय इव सति बाधके । न हीह जीवेश्वरविषयत्वेनोपपत्तौ किञ्चिद्बाधकमस्तीत्यर्थः । गुहाप्रविष्टत्वादिबाधकं तु निरसिष्यत इति भावः । तृतीयमाशङ्क्य निराह ।। न च ग्रहमिति ।। ग्रहाधिकरणं प्राग्विवृतं छन्दोधिकरणे । ‘‘ऐन्द्रवायवं गृह्णाति मैत्रावरुणं गृह्णाती’’त्यादिनोत्पन्नानां ‘‘ग्रहैर्यजेते’’ति होमसाधनत्वेन प्राप्तानां संमार्गरूपसंस्कारविधानार्थं ग्रहमिति ग्रहशब्दोद्देश्यकत्वात्तद्गता सङ्ख्या न विवक्षितेति वक्तुं युक्तम् । इह तु ऋतपानस्य ब्रह्मण्यप्राप्ततया विधेयत्वान्न तथा सम्भवति । किन्तु ‘‘पशुना यजेते’’त्यादाविव विधेयगतत्वेन विवक्षितैवेत्यर्थः ।
ननु टीकायां ‘‘यौ सुकृतनिर्मितशरीरे हृदयगुहां प्रविष्टौ तत्रापि सर्वजीवोत्तमेऽतिपूर्णे वायौ प्रतिष्ठौ सुकृतफलं भुञ्जानौ तौ ब्रह्मविदः पञ्चमहायज्ञवन्तो द्युपर्जन्यादिपञ्चाग्निनिष्ठा वा त्रिवारकृतनाचिकेताः च्छायातपौ वदन्ती’’ति पिबन्तावनूद्य च्छायातपत्वविधेरुक्तत्वात्कथमेवमित्यत आह ।। ऋतमिति ।। गुहाविष्टत्वादिरादिपदार्थः । एकस्यैवोद्देश्यत्वादिति भावः । तथा च च्छायातपावित्यत्र द्विवचनं निरवकाशमित्यर्थः । ‘‘पिबन्ताविति द्विवचनश्रुते’’रित्युक्त्वा टीकायां ‘‘श्रुतेर्निरवकाशत्वा’’दित्युक्तम् । तत्स्वारस्यमनुरुध्य पिबन्तावित्यस्यानुवाद्यत्वेऽपि ग्रहवैलक्षण्येन तत्रत्यद्विवचनस्येश्वरेऽनुपपन्नतामाह ।। ग्रहेति ।। एकत्वस्य विधेयान्वयायोद्देश्यकोटिप्रवेशे ग्रहस्याप्युद्देश्यत्वेन प्रत्युद्देश्यं वाक्यपरिसमाप्त्या ग्रहं संमृज्यादेकं संमृज्यादिति वाक्यभेदः । विधेयकोटिप्रवेशे संमार्गस्यापि विधेयत्वेन विधेयभेदाद्ग्रहं संमृज्यात् स च संमार्ग एक इति वाक्यभेदापत्त्येत्यर्थः । चतुर्थमाशङ्क्य निराह ।। न च पिबन्तावित्यादिकमिति ।। मन्त्रोहाधिकरणमुक्तं जिज्ञासाधिकरणे । ‘‘अग्नये जुष्टं निर्वपामी’’ति दर्शपौर्णमासिकाग्नेयहविर्निर्वापमन्त्रस्य ‘‘सौर्यं चरुं निर्वपेद्ब्रह्मवर्चसकाम’’ इति विहिते सौर्ययागे ‘‘आग्नेयवत्सौर्यः कर्तव्य इत्यतिदेशतः प्राप्तस्य यथासूर्यायेति प्रातिपदिकमात्रे ऊहस्तथा पिबन्ताविति द्विवचनान्तस्य पिबन्तमित्येकवचनरूपप्रत्ययमात्रोहस्स्यात् । न चात्र तथातिदेशतः प्राप्तम् । इहैवास्याम्नानादित्यर्थः । पञ्चममाशङ्क्याह ।। न चैकस्मिन्निति ।। प्राग्विवृतमभ्यासाधिकरणं समन्वयाधिकरणे । तत्र हि समिदादीनां यागनामत्वमुक्तम् । एकसमिदाख्यप्रयाजवाचिनोऽपि समिच्छब्दस्य रूढत्वेनोच्चैर्वृक्ष इत्यादाविव बहुवचनप्रतिरूपकत्वेनोपपत्तावपीह यौगिकत्वात्तथा न वक्तुं युज्यत इत्यर्थः ।
ननु नवमे द्वितीयपादान्तिमाधिकरणे ‘‘प्रयाजेऽपीति चे’’दित्यत्र समिधो यजतीत्यादौ समिदादिकं देवतात्वेनोद्दिश्य तत्संस्कारत्वेन यागा विधीयन्तेऽथारादुपकारकतया यागा इति विशये सामवायिकत्वलाभात्संस्कारविधिरिति प्राप्ते तथात्वे देवतात्वलिङ्गस्य ‘‘यदग्नये सायं जुहोती’’त्यादाविव चतुर्थीनिर्देशस्याभावेन चतुर्थ्यर्थे द्वितीयाया उपचारापत्तेरारादुपकारकत्वेन यागविधिः । समिदादिशब्दास्तु मन्त्रवर्णप्राप्तदेवतां निमित्तीकृत्य नामधेयानि देवता एवानुवदन्ति । न चानुवाद उपचारो दोष इति सिद्धान्तितत्वात् । श्येनशब्दस्य पक्षिविशेषे रूढस्य तत्सादृश्याद्गौण्या वृत्त्या यागनामत्वमिव देवतागणविशेषे निरूढस्य समिच्छब्दस्य तत्प्रकाशकमन्त्रसम्बन्धापादितदेवतासम्बन्धे यागे लाक्षणिकनामत्वान्न रूढत्वमस्ति । उक्तं च शाबरभाष्ये ‘‘समिदादिमन्त्रकत्वाद्यजीनां समिदादिशब्दा वाचका’’ इति । लक्षणायां च लिङ्गव्यत्यय इव वचनव्यत्ययोऽपि न दोष इति चेन्न । पौर्णमास्यधिकरणपूर्वपक्षे फलवाक्यस्थदर्शपौर्णमासाभ्यामिति पदस्य द्विवचनप्रतिरूपकाव्ययत्वमाश्रित्य प्राकरणिकसर्वयागनामधेयत्वमुक्तम् । तद्वत्प्रकृतेऽपि वक्तुं शक्यमित्यभिप्रायेणैवमुक्तमित्यविरोधः । द्विवचनस्य सम्भावितावकाशनिरासेन ‘‘श्रुतेर्निरवकाशत्वा’’दिति टीकां समर्थ्य तदुपलक्षणमिति भावेन लिङ्गान्तरस्यापि तदाह ।। छायात्वं चेति ।। आतपत्वस्य विद्यावत्त्वेनोपपत्तावपीदमयुक्तम् । यद्यपि
छायात्वविद्या संप्रोक्ता जन्यविद्या तपस्स्मृतम् ।
जीवगृध्रस्य तौ पक्षावध ऊर्ध्वपथोः पृथक् ।।
तौ विष्णोस्तु न विद्येते नित्यविद्यास्वरूपिणः’’ । इत्यष्टमस्कन्धस्थपञ्चमाध्यायतात्पर्योक्त्या द्वयमपीशे न युक्तं तथापि पररीत्यैवमुक्तमिति ध्येयम् । यथोक्तं न्यायविवरणटीकायां ‘‘छायातपत्वं चाविद्याविद्यावत्त्वेन जीवेश्वरयोरूपपद्यत’’ इति ।। तस्मादिति ।। प्रातिपदिकार्थप्रत्ययार्थयोर्विष्णुमात्रेऽनवकाशत्वादित्यर्थः । ‘‘न चैवं जीवेशग्रहणेऽप्यनुपपत्ति’’रित्यादिटीकां व्यनक्ति ।। ईश्वरस्येति ।। एकस्य छत्रित्वेऽपि तत्साहचर्यादन्येष्वपि छत्रिणो गच्छन्तीति यथा व्यपदेशः तथा भोक्तृजीवसन्निधानादीश्वरोऽपि तथोपचर्यत इत्यर्थः । निरवकाशविष्णुलिङ्गादिबाध इत्यत आह ।। गुहेति ।। जीवस्यापि ‘‘हृदिह्येष आत्मे’’ति गुहास्थत्वात् ‘‘बृहजाति जीवे’’ त्यादिना जीवेऽपि प्रयोगादिति भावः ।
चन्द्रिकाबिन्दुः
ननु अनेकत्वसंख्यायुक्तानामेवान्नमयादीनामानन्दमयाधिकरण एव ब्रह्मताया उक्तत्वात् तेनेदं गतार्थमित्यत आह ।। अन्नमयादीनां त्विति ।। दाक्षायणेति ।। दर्शपूर्णमासप्रकरणे श्रुतानां दाक्षायणादिशब्दानां प्राकरणिकदर्शपूर्णमासयोरेवावृत्तिलक्षणगुणविधायित्वमङ्गीकृतम् । द्विवचनं दारा इत्यादिवत् केवलं साधुत्वार्थं वा वचनव्यत्यासेन वा उद्देश्यविशेषणत्वेन वा एकस्मिन्नपि ऊहेन वा समिदादिनामवत् रूढवचनत्वेन वा इति ।। पञ्चगृहमिति ।। ऋतं पिबन्तावित्यस्येति ।। टीकायां ऋतं पिबन्तावित्यस्य उद्देश्यविशेषणतया योजना प्रदर्शितेति ध्येयम् । चतुर्थं निराकरोति ।। न च पिबन्तावित्यादिकमिति ।। प्रकृतिविकृतिभावस्य ब्रह्मपक्षेऽभावादिति भावः । पञ्चमं निराकरोति ।। न चैकस्मिन्नेवेति ।।
पाण्डुरङ्गि
प्रत्ययार्थभूतद्वित्वस्य ब्रह्मण्यसम्भवे हेतुमाह ।। निर्भेदेति ।। ननु च द्वित्वरूप सङ्ख्यानिर्भेदे ब्रह्मण्यपि किं न स्यादित्यत आह ।। अन्यथेति ।। द्वित्वादि सङ्ख्यायाभेद साधकत्वमनङ्गीकृत्य निर्भेदेपि ब्रह्मणि सङ्ख्याभ्युपगम इत्यर्थः । नन्वन्नमयादावनेकत्व श्रवणेऽप्यानन्दमयाधिकरणे तस्य ब्रह्मत्वसमर्थनेन तन्न्यायेन द्वित्वश्रवणेऽपि प्रकृते ब्रह्मत्वं किं न स्यादित्यत आह ।। अन्नमयादीनां त्विति ।। संज्ञाधिकरणन्यायेति ।। संज्ञाचोत्पत्तिसंयोगादिति संज्ञाधिकरणन्यायेनेत्यर्थः । गुणविधायकाः सर्वोपजीव्यत्वमहाप्राणत्वरूपगुणविधायका इत्यर्थः । ननु तथापि अनन्योऽप्यन्यशब्देन तथैको बहुरूपवान् । बहुरूपत्वाच्च न विकारित्वमविरोधश्चेति भाष्ये तच्च वाधूलशाखायामष्टरूपमुदाहृतमित्यादिनाऽनुव्याख्याने च तत्प्रकरणे साक्षादश्रुताया अप्यार्थिकानेकत्वसङ्ख्याया रूपबाहुल्याभिप्रायेण गतिकथनात् । अत्रान्नमयादीनां पूर्वपक्षिणा ब्रह्मत्वाङ्गीकार इदं व्यर्थमेव स्यात् । न चानश्नन्नित्यादेः कर्मफलात्तृत्वं स्वत एवान्यत्र प्रसिद्धमिति । तर्हि द्विवचनश्रुतिसाहित्योक्तिवैयर्थ्यात् । पूर्वाधिकरणेऽत्तृत्वस्यापि प्रतिपादनेनानशनोक्तेर्गतेरपि पूर्वाधिकरणसिद्धान्ताङ्गीकारेणैव पूर्वपक्षिणं प्रतिसिद्धत्वात् । अद्यतेऽत्तिच भूतानीति श्रुतेः महाभोक्तामहाभोग्य इत्यर्थोन्नमये भवेदित्यनुव्याख्यानाच्चात्रान्नमयशब्देनापि ब्रह्मत्वाङ्गीकारे तदनुपपत्ति शङ्काया अनुदयाच्च । अत एव टीकायां पिबन्तावित्येतदुद्देश्यकोटौ निवेशितमित्याद्यरुच्याह ।। अथ वेति ।। तथाचेति ।। अन्नमये भोक्तृत्वमप्युपलक्षणीयम् ।
ननु गुरोर्दारा आगता इत्यत्र दारा इति बहुवचनवत् ऋतं पिबन्तावित्यत्र द्विवचनमपि शब्दसाधुत्वेनैव किं न स्यादित्याशङ्क्य दारादिशब्देषु बहुवचनादेश्शब्द साधुतैव नत्वर्थसाधुता । न चार्थसाधुत्वे सम्भवति शब्दसाधुत्वमात्रं युक्तम् । प्रकृते चास्मद्रीत्या जीवेश्वर परत्वेऽर्थसाधुत्वमपि सम्भवतीति भावेनाह ।। न च दारा इत्यादाविति ।। देवदत्तः पिबन्तावित्यप्रयोगादिति भावः । ननु द्विवचनस्य वचनव्यत्ययेन ब्रह्मणि सम्भवात्कथं द्वित्वस्य ब्रह्मपक्षे बाधकतेत्यत आह ।। न चेति ।। बहूनि द्विवचनानि अभ्यासाद्द्वित्वे निश्चिततात्पर्यकाणीत्यर्थः । अनेकेषामपि द्विवचनानां वचनव्यत्ययःसति बाधके सम्भवत्येवेत्यतो बाधकं विनेत्युक्तम् । न च ग्रहं संमार्ष्टीत्यत्रोद्देश्यविशेषणभूतस्यैकत्वस्य विवक्षायां सोमगतद्वादश ग्रहाणामपि संमार्जनाभावापत्त्याऽविवक्षितत्ववत्प्रकृतेऽपि द्वित्वस्योद्देश्य विशेषणत्वेन विवक्षा किं नस्यादित्यतो वैषम्येण परिहरति ।। न चेति ।। ब्रह्मणीति ।। तथाच विधेयविशेषणत्वेनोद्देश्य विशेषणत्वमेव नास्तीत्यविवक्षानुपपत्तिरिति । ननु सर्वात्तृत्वेन ऋतपानस्यापि प्राप्तत्वेन विधेयत्वानुपपत्त्योद्देश्य विशेषणत्वमेव वक्तव्यमित्यरुचेराह ।। ऋतं पिबन्तावितीति ।। किं च ग्रहं संमार्ष्टीत्यत्र ग्रहं संमृज्यात् तच्चैकं कुर्यादित्युभयविधाने वाक्यभेदापत्त्या ग्रहगतैकत्वस्य विधिसंस्पर्शाभावेऽपि ग्रहेष्वेकत्वस्य सत्त्वेनोद्देश्यत्वसम्भवेऽपि प्रकृते ब्रह्मणि द्वित्वस्य स्वरूपत एवाभावान्नोद्देश्यत्वमित्यभिप्रेत्य दोषान्तरमाह ।। ग्रहैकत्वस्येति ।।
ननु सूर्यदेवताकयागे अग्नय इत्यादेस्सूर्यायेत्यादिरूपेणोहवत्प्रकृतेऽपि पिबन्ताविति द्विवचनान्तस्याप्येक वचनान्ततयोहः किं न स्यादित्यतो वैषम्येण परिहरति ।। न चेति ।। छत्रिन्यायेनेति ।। छत्र्यच्छत्रिसमुदाये छत्रिण इति व्यपदेशवत्पिबदपिबत्समुदाये पातृत्वव्यपदेशो युक्त इत्यर्थः । साधकमुक्त्वा बाधकं परिहरति ।। गुहाप्रविष्टत्वेति ।