यद्वा विष्णौ प्राणशब्दसमन्वयस्योक्तत्वेनोपक्रमस्य ..
भूमशब्द्स्य अन्यत्रप्रसिद्धत्वप्रदर्शनेन पादसन्गतिनिरूपणम्
तात्पर्यचन्द्रिका
यद्वा विष्णौ प्राणशब्दसमन्वयस्योक्तत्वेनोपक्रमस्य सम्भावितावकाशत्वात् समाख्यास्थविष्णुशब्दस्य च प्राणे तदनुक्तेस्तयोस्तुल्यबलत्वम् । अज्ञानामित्युक्तिस्तु सिद्धान्तन्यायाननुसन्धानाभिप्राया । यद्यपि विष्णुपक्ष इव प्राणपक्षेऽपि ‘‘प्राणो वाव सर्वेभ्यो भूया’’निति समाख्याऽस्ति । तथापि तस्या उपासकेषु प्राणस्य भूयस्त्वपरत्वेन सर्वेभ्यो भूयस्त्वपरत्वाभावात् प्राणप्रापक उपक्रमे सति समाख्याया अनादरणीयत्वाच्च न तया साधारण्यमुक्तम् । द्युभ्वाद्यधिकरणे तु रुद्रादिप्रापकोपक्रमाभावात्समाख्यया तदुक्तिः । यद्यपि ‘‘सर्वत्रप्रसिद्धे’’त्यादावपि ‘‘तस्यैतस्यासावादित्यो रस’’ इत्युपक्रम आदित्यश्रुतिरस्ति । तथापि ब्रह्मणस्सर्वभूतगतत्वरूपाल्पौकस्त्वस्य पूर्वपक्षिणा क्वाप्यनङ्गीकारेण ब्रह्मणि समाख्याया अभावात्तस्यान्यत्र प्रसिद्धता । इह तु समाख्याश्रुतौ विष्णोर्भूयस्त्वेऽपि न विषयवाक्ये स भूमेति पूर्वःपक्षः । अत एवात्र टीकायां ‘‘न च विष्णोरपि भूमत्वस्य श्रुत्यन्तरे प्रसिद्धत्वादत्र वाच्यत्वमिति वाच्यम् । उपक्रमात्समाख्याया दुर्बलत्वा’’दिति ग्रन्थे समाख्या विष्णुपरेत्यङ्गीकृत्य पूर्वपक्षितम् । टीकायां ‘‘वायोरेव भूमत्वा’’दित्यवधारणं तु विषयवाक्ये वायोरेव भूमत्वाभिप्रायम् । अत्र प्राणश्रुतिर्विष्णुपरा चेत्तत्रापि विष्णुश्रुतिः प्राणपरा स्यादित्यभिप्रायं वा । टीकोक्त आनन्दमयाक्षेपस्तु समाख्याश्रुतौ विष्णोर्भूयस्त्वेऽपि पूर्णानन्दत्वस्य ‘‘यो वै भूमा तत्सुखं भूमैव सुखं नाल्पे सुखमस्ती’’ति भूमरूपवायोरन्यत्र निषेधादानन्दमयश्रुतेश्च वायुपरत्वे तदयोगाद्युक्तः । तस्माद्भूमशब्दस्य साधारण्यात् युक्ता पादसङ्गतिः ।
अवान्तरसङ्गतिस्तु ‘‘स एवाधस्तात्स उपरिष्टादेवं विजानन्नात्मरतिरात्मक्रीडः । यो वै भूमा तदमृत’’मित्यादिना भूम्नयुक्तस्य सर्वगतत्वादेः ‘‘ब्रह्मैवेदममृतं पुरस्ताद्ब्रह्म पश्चाद्ब्रह्म दक्षिणतश्चोत्तरेण । अधश्चोर्ध्वं च प्रसृतम् । आत्मक्रीड आत्मरति’’रित्यादिना द्युभ्वाद्यायतने श्रवणात् भूम्नोऽन्यत्वे द्युभ्वाद्यायतनमप्यन्यत्स्यादिति पूर्वाक्षेपेण पूर्वपक्षोत्थानादाक्षेपिकी । टीकायां तु समन्वेतव्यभूमशब्दसन्निहितत्वात्पूर्णानन्दत्वस्य तदाक्षिप्तम् ।
अत्र ‘‘यो वै भूमा तत्सुख’’मित्युक्तो भूमा किं मुख्यवायुरुत विष्णुरिति चिन्ता । तदर्थं तत्सुखमित्युक्तं पूर्णसुखत्वं किं वायोरुत विष्णोरिति । तदर्थं भूम्नो ब्रह्मत्वे प्राणाद्भूयस्त्वानुक्तिरयुक्तोत युक्तेति । तदर्थं ‘‘प्राणो वा आशायाभूया’’नित्युक्तः प्राणः किं मुख्यवायुरुत ब्रह्मेति । प्राणस्य मुख्यवायुत्वे हि वायुतो ब्रह्मणो भूयस्त्वं वक्तव्यमिति तदनुक्तिरयुक्ता । ब्रह्मत्वे तु स्वस्मात्स्वस्य भूयस्त्वस्यावक्तव्यत्वेन तदनुक्तिर्युक्ता । तदर्थं ‘‘उत्क्रान्तप्राणा’’निति प्राणे श्रुतमुत्क्रमणं किं ब्रह्मणि न युक्तमुत युक्तमिति ।
प्रकाशिका
‘‘प्राणशब्दस्यात एव प्राण इत्युक्तरीत्या विष्णुपरत्वा’’दिति टीकासूचितं समाध्यन्तरमाह ।। यद्वा विष्णाविति ।। ननु पूर्वत्रेवात्रापि समाख्याश्रुतिद्वयेनैवोभयत्रप्रसिद्धिसम्भवे समाख्या श्रुत्युपक्रमयोः क्लेशेन तौल्यमुपपाद्य कुतस्साधारणत्वमुपपाद्यते । न च वायुसमाख्यातो विष्णुसमाख्यायाः प्रागुक्तरीत्या बलवत्त्वात्तत्राप्यज्ञानामित्युपपादनीयमिति वाच्यम् । ‘‘प्राणो वाव सर्वेभ्यो भूयान्न प्राणाद्भूयान्प्राणो ह्येव भूयांस्तस्माद्भूयान्नामे’’ति श्रुतेरपि साभ्यासोपपत्तिकत्वादिति भावेनाक्षिप्य समाधत्ते ।। यद्यपीति ।। उपासकेष्विति ।। ‘‘इयदामनना’’दित्यत्र भाष्ये तदर्थ एवोदाहृतत्वादिति भावः । ननु श्रुतावुपासकाद्भूयस्त्वस्याप्रतीतेश्श्रुत्यन्तरात्तथा कल्पनस्य विलम्बितत्वादापाततः साधारण्यमस्तीत्यनुशयादाह ।। प्राणप्रापक इति ।। प्रागप्येवं स्यात् वैरूप्यं कुत इत्यत आह ।। द्युभ्वादीति ।। उक्तसाधारण्यस्यातिप्रसङ्गमाशङ्क्याह ।। यद्यपीति ।। ‘‘अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणस्स्थित’’ इत्यादौ सर्वगतत्वं प्रसिद्धम् । तथाप्यत्राभिप्रेतस्यार्भकौकस्त्वस्य क्वाप्यसंमतेरित्यर्थः । प्रकृते तु नैवमिति सोपष्टम्भमाह ।। इह त्विति ।। भूमशब्दस्य रूढत्वोक्तेर्भावप्रत्ययान्तत्वासम्मतेर्भूमत्वस्येति साधु । तर्ह्यवधारणायोग इत्यत आह ।। वायोरेवेति ।। न तु सर्वत्रेत्यर्थः । पूर्वपक्षे प्राणश्रुतेर्निरवकाशत्वयुक्तिसूचनार्थं वा तदित्याह ।। अत्रेति ।। नन्वेवं विषयवाक्ये वायोरेव भूमत्वमित्याशयवर्णनेऽन्यत्रानन्दमयस्य विष्णुत्वेऽप्यदोषात्तदाक्षेपायोग इत्यत आह ।। टीकेति ।। इयता ग्रन्थेनोक्तस्य फलमाह ।। तस्मादिति ।।
एवं ‘‘अस्ति शास्त्रादिसङ्गति’’रिति टीकामुपपाद्यांशोपपादनेन विवृत्य ‘‘श्रुत्यादिसङ्गति’’ रित्यादिटीकया तुल्यन्यायतया सूचितामव्यवहितपूर्वाधिकरणसङ्गतिं स्वयमाह ।। अवान्तरेति ।। सर्वगतत्वात्मक्रीडत्वामृतत्वादिधर्माणामुभयत्र श्रवणाद्भूम्नोऽन्यत्वे प्राक्तनस्यापि तथात्वं स्यादित्याक्षेपेण पूर्वपक्षोत्थानादाक्षेपिकीत्यर्थः । न च निर्णीतब्रह्मप्रकरणगतसर्वगतत्वादिबलेन भूम्न एव विष्णुत्वं स्यादिति वाच्यम् । उत्क्रमणलिङ्गस्य हरावयोगेन निरवकाशतया तदनुरोधेन भूम्नोऽन्यत्वे सर्वगतत्वादेरप्यन्यधर्मतावश्यम्भावात् द्युभ्वाद्यायतनत्वादेर्वायावप्युपपत्तेः जायमानत्वलिङ्गस्याप्यक्लेशेनोपपत्तेः । भूम्नो विष्णुत्वनिर्णयं विना तस्य ब्रह्मप्रकरणत्वानिर्णयाच्चेति भावः । यद्यपि सर्वगतत्वामृतत्वे एव भूमवाक्ये श्रुते । आत्मक्रीड इत्यादिकं तु ‘‘अथात आत्मादेश’’ इत्यत्रोपरितनवाक्ये श्रुतम् । तथापि भूमात्मनोरभेदाभिप्रायेणैवमुक्तम् । यद्यप्यात्मक्रीडत्वादिकमुपासकधर्मः । यदाहुः ‘‘आत्मरतिर्भगवद्रति’’रिति । ‘‘तेनैव क्रीडते नित्यं स्त्रीरूपो मिथुनो भवे’’दिति च । तथाप्युपासकक्रीडादिहेतुत्वं तद्धर्म इत्याशयेनैतदुक्तिः । एतेन ‘‘आत्मशब्दाद्दयुभ्वाद्यायतनं ब्रह्मेत्युक्तम् । तत्रात्मशब्दः प्राणेऽनैकान्तिकः । तरति शोकमात्मविदित्यत्राब्रह्मणि प्राणे प्रयोगादित्याक्षेपिकी’’ति कल्पतरूक्तं निरस्तम् । आत्मविदित्यस्याध्यायादौ श्रुतत्वेन भूमि्न साक्षादश्रुततया तदाक्षेपायोगात् । प्राणादेरब्रह्मत्वेऽपि ‘‘अथात आत्मादेश’’ इत्यथशब्देन प्राक्तनप्राणप्रकरणविच्छेदेनोक्तात्माभिप्रायेणात्म विदित्यस्योपपत्तेः । भूमगतत्वेन भूमवाक्य एव श्रुतामृतत्वादिमुखेनाक्षेपस्यैवोचितत्वाच्च । यत्तु श्रुतप्रकाशे ‘‘यथा प्रकरणाविच्छेदेन परमात्मपरत्वं साधितं तथाजीवप्रकरणाविच्छेदेन जीवपरत्वमिति शङ्कोत्थानात्सङ्गति’’रित्यादि तदपि तेनैव निरस्तम् । अमृतत्वादेरनाक्षेपे पूर्वनिर्णीतब्रह्मधर्मैर्भूमा ब्रह्मेत्यपि वक्तुं शक्यत्वेन पूर्वपक्षानुदयप्रसङ्गात् । पूर्वं प्रकरणविच्छेदशङ्काया एवायुक्तत्वादित्युक्तत्वाच्चेति । आनन्दमयाक्षेपटीका तु प्रयोजनपरेति भावः । ननूक्तरीत्या सन्निहितपूर्वाक्षेपे सङ्गतिफलयोर्द्वयोरपि सम्भवात्किं व्यवहिताक्षेपेणेत्यत आह ।। टीकायां त्विति ।। विषयसंशयटीकां व्यनक्ति ।। अत्रेति ।। छान्दोग्ये सप्तमेऽध्याये नारदकृतप्रश्नं प्रति सनत्कुमारोक्तोत्तरत्वेन नामवाङ्मनस्संकल्पचित्तध्यानविज्ञानबलान्नाप्तेज आकाशस्मराशाप्राणशब्दवाच्यान् उषास्वाहापर्जन्यमित्राग्निवरुण चन्द्रभूतवाय्वनिरुद्धप्राणपुरन्दरोमाशिवसरस्वतीमुख्यप्राणानुत्तरोत्तरातिशयितत्वेनोक्त्वा अनन्तरं नारदप्रश्नमन्तरेणैव ‘‘एष तु वा अतिवदति यस्सत्येनातिवदती’’त्युपक्रम्य सत्यविज्ञानमतिश्रद्धानिष्ठाकृतिसुखपर्यंतानुक्त्वा वक्ति सनत्कुमारः ‘‘यो वै भूमा तत्सुखं नाल्पे सुखमस्ति । भूमैव सुखं भूमात्वेव विजिज्ञासितव्य इति । भूमानं भगवो विजिज्ञास इति । यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा । अथ यत्रान्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पम् । यो वै भूमा तदमृतम् । अथ यदल्पं तन्मर्त्यम् । स भगवः कस्मिन्प्रतिष्ठित इति । स्वेमहिमि्न यदि वा न महिम्नीति । गो अश्वमिह महिमेत्याचक्षते हस्तिहिरण्यं दासभार्यं क्षेत्राण्यायतनानीति नाहमेवं ब्रवीमीति होवाचान्योन्यस्मिन्प्रतिष्ठित इति । स एवाधस्तात्स एवोपरिष्टात्स पश्चात्स पुरस्तात्स दक्षिणतस्स उत्तरतस्स एवेदं सर्व’’मित्यादि । स भूमाविषय इत्यर्थः ।
मुख्यवायुरिति ।। जडत्वकोटेरग्रे निरसिष्यमाणत्वादिति भावः ।। पूर्णसुखत्वमिति ।। अत्र सुखशब्दस्य तादृशसुखवाचित्वं सिद्धान्ते स्पष्टयिष्यते ।। भूयस्त्वेति ।। ‘‘अस्ति वाव प्राणाद्भूय’’ इत्यादिप्रश्नप्रतिवचनरूपेण भूयस्त्वानुक्तिरित्यर्थः । अस्पष्टांशे फलफलिभावमाह ।। प्राणस्येति ।। द्वाविह पूर्वपक्षौ । प्राणभूम्नोर्भेद इत्येको भेद इत्यन्यः । तत्राद्यो न्यायविवरणानुसारी । द्वितीयो भाष्यानुसारी । तत्राद्ये भूयस्त्वानुक्तिः पूर्वपक्षयुक्तिः । अन्त्ये चोत्क्रमणलिङ्गमिति व्यवस्थेति ज्ञापनाय प्राणस्य ब्रह्मत्वपक्षे भूयस्त्वानुक्तिघटनाय मध्ये फलफलिभावं प्रदर्श्य लिङ्गविषयां चिन्तां पश्चादाह ।। तदर्थमुत्क्रान्तेति ।। उत्क्रान्तः प्राणो येषां तानुत्क्रान्तप्राणान् । शूलेन समासं व्यतिषंदहेत् । नैवैनं ब्रूयुः पितृहासीति मातृहासीति प्राणप्रकरणे प्राणस्यान्वयव्यतिरेकाभ्यां जीवनदत्वमुपपादयितुं श्रुतमुत्क्रमणमित्यर्थः । नन्वेवमुत युक्तेत्यन्तचिन्तात्रयं प्रदर्श्य पश्चाद्भूमा मुख्यवायुरुत विष्णुरिति चिन्ता । तदर्थं प्रक्रमे श्रुतः प्राणः किं मुख्यवायुरुत ब्रह्मेति । तदर्थमुत्क्रान्तेत्यादिचिन्तेत्यपि चिन्तात्रयं प्रदर्शनीयमिति चेन्मैवम् । यदि प्राणभूम्नोर्भेदाभेदपक्षौ व्यवतिष्ठेयातां तदैवं भवेत् । न चैवम् । तयोरग्रे टीकारीत्या समुच्चयोक्तेः । अत एकप्रकारेणैव चिन्तापरंपरोपदर्शिता । तथा चायमर्थः । यदि प्राणे श्रुतमुत्क्रमणलिङ्गं वक्ष्यमाणदिशा सर्वगते ब्रह्मणि न युक्तं तदोपक्रमे श्रुतस्य प्राणस्य वायुत्वात्ततोऽपि ब्रह्मणः श्रेष्ठत्वेन सिद्धान्तिनोपगतत्वात्प्रश्नप्रतिवचनाभ्यां प्राणाद्भूयस्त्वस्य वाच्यत्वेन तदनुक्तेरयुक्तत्वात्तस्यैव पूर्णसुखत्वं भूमत्वं चेति पूर्वपक्षे फलम् । यदा तु रूपविशेषादिना युक्तं तदा प्राणस्य ब्रह्मत्वात्स्वस्मात्स्वस्य भूयस्त्वायोगेन तदनुक्तेर्युक्तत्वात्पूर्णसुखत्वं भूमत्वं च विष्णोरेवेति सिद्धान्ते फलमिति । नन्वेवं ‘‘व्यतिहारो विशिंषंति हीतरव’’दित्येतदवक्तव्यं प्राप्नोति । मैवम् ।। भेदपक्ष एव तस्य प्रवृत्तेः । अभेदपक्षेऽपि प्राणान्तर्यामितयैवात्र प्राणपदेन ब्रह्मणः स्वीकारेण प्राणशब्दस्य मुख्यप्राणार्थकत्वस्यापि भावेन भूम्नः केवलब्रह्ममात्रत्वसिद्धये प्राणासाङ्कर्याय व्यतिहारस्यावश्यं वाच्यत्वाच्चेति ।
नन्वेवं प्राण एव संशयधर्मी क्रियताम् । सूत्रे च प्राणपदमेव निवेश्यताम् । उभयत्रप्रसिद्धिश्च प्राणपदस्य ‘‘आकाशोऽर्थान्तरत्वादी’’त्यादावाकाशादिशब्दस्येव पूर्वोक्तयन्यत्रप्रसिद्धिभ्यां भविष्यति । नायं प्राणो ब्रह्म उत्क्रमणलिङ्गादिति पूर्वपक्षश्च ऋजुः । भूमा न विष्णुः तदभिन्नप्राणे श्रुतोत्क्रमणविरोधादित्युक्तिर्वक्रा । प्राणस्य अविष्णुत्वात्तत्प्रकरणस्थभूम्नः पूर्णसुखस्य च अविष्णुत्वादानन्दमयोऽपि न विष्णुरिति पूर्वाक्षेपश्च भविष्यति । यथा छन्दोनये गायत्र्या अविष्णुत्वात्तदभिन्नस्य ‘‘परो दिवो ज्योतिर्दीप्यत’’ इति ज्योतिषस्तथात्वेन ‘‘ज्योतिर्हृदय आहितं य’’दित्युक्तज्योतिषोऽप्यविष्णुत्वमिति तद्वदिति चेन्मैवम् । भूम्न उक्तौ प्रागसमन्वितशब्दसमन्वयलाभात् पूर्वाक्षेपस्य साक्षादेव सम्भवात् चन्द्रिकोक्तदिशा पूर्वाधिकरणसङ्गतिसौकर्यात् सम्प्रसादाध्युपदेशधर्मोपपत्तीनां सिद्धान्तहेतूनां भूमवाक्य एव श्रवणात् सिद्धान्तेऽपि प्राणशब्दस्य मुख्यवायुपरत्वात्याजनाच्चान्तरनयेऽक्षिस्थ इव भूमैव प्राधान्येन चिन्तितो न प्राण इति ।
पाण्डुरङ्गि
ननु समाख्यावाक्ये विष्णोर्भूमत्वमुपेत्य विषयवाक्येऽन्यस्य भूमत्वमिति टीकाभिप्रेतमित्युक्तम् । तदयुक्तम् । तथा सत्यतो वायोरेव भूमत्वादिति पूर्वपक्षोपसंहार टीकाविरोधापातादित्यत आह ।। टीकायामिति ।। विषयवाक्ये वायोरेव भूमत्वमित्यभिप्रायकल्पने सङ्कुचितत्वं सम्भवतीत्यस्वरसादाह ।। अत्रेति ।। नन्वेवं समाख्यावाक्ये विष्णोरेव भूमत्वमित्यभ्युपगम्य विषयवाक्येऽन्यस्यैव तदिति पूर्वपक्षकरणे पूर्णानन्दत्वस्य वाक्यान्तरे ब्रह्मनिष्ठत्वेन विष्णोरेवानन्दमयत्वेऽपि विषयवाक्येऽन्यस्य भूमत्वमिति पूर्वपक्षसम्भवाट्टीकायामानन्दमयोऽपीत्याक्षेपोऽनुपपन्न इत्यत आह ।। टीकोक्त इति ।। अवान्तरसङ्गतिस्त्विति ।। उपलक्षणमेतत् । तस्याक्षेपेण समाधानाद्वा सर्वगतस्योत्क्रमणरूपमरणासम्भवात्पूर्वोक्त स एषोऽन्तश्चरते बहुधा जायमान इति बहुधाजननं तत्सहपठितमन्तस्सञ्चरणं चाक्षिप्य समाधानाद्वाऽऽक्षेपिकीसङ्गतिः । पूर्वत्र जनिस्समर्थिता अत्र तूत्क्रान्तिरूपमृतिरिति देहयोगवियोगरूपोपजीव्योपजीवकभावरूपाऽवान्तरसङ्गतिरित्याद्यूह्यम् ।