यदुक्तमुभाभ्यां ‘‘न विलक्षणत्वा’’दित्यादि ..

पराभिमतस्य अधिकरणस्वरूपस्य निरास:

तात्पर्यचन्द्रिका

यदुक्तमुभाभ्यां ‘‘न विलक्षणत्वा’’दित्यादि ‘‘एवमप्यनिर्मोक्षप्रसङ्ग’’ इत्यन्तं सूत्राष्टकमेकाधिकरणम् । ‘‘न विलक्षणत्वा’’दित्यस्यानन्तरं ‘‘दृश्यते’’त्विति सूत्रं तु नास्त्येव । अस्य जगतःस्थौल्यसावयवत्वाचेतनत्वपरिच्छिन्नत्वादिना ब्रह्मविलक्षणत्वान्न ब्रह्मोपादानकत्वम् । तथात्वं च वैलक्षण्यं च ‘‘विज्ञानं चाविज्ञानं चे’’त्यादिशब्दात्सिद्धमित्याद्यसूत्रेणोक्त्वा न च ‘‘मृदब्रवी’’दित्यादिश्रुत्या जगदपि चेतनरूपमेवेति वैलक्षण्यमसिद्धमिति वाच्यम् । तत्राभिमानिदेवताव्यपदेशादिति द्वितीये नोक्तम् । तथा चैते पूर्वपक्षसूत्रे । एवं प्राप्ते वैलक्षण्येऽपि गोमयवृश्चिकादेः कार्यकारणभावो दृश्यत इति तृतीयसूत्रेण सिद्धान्तयित्वा ननु तर्ह्यचेतनरूपं जगत्प्रागुत्पत्तेरसत्प्रसज्येत । तदा चेतनब्रह्ममात्रावस्थानात् । तच्चानिष्टं सत्कार्यवादिनस्तवेति चेन्न । कार्यस्य कारणाभिन्नतया कारणरूपेण सत्त्वसम्भवात् । सत्कार्यवादप्रतिषेधस्य प्रतिषेधमात्रत्वात्सत्कार्यवादप्रतिषेधासमर्थत्वादिति चतुर्थसूत्रेणोक्त्वा ननु तर्हि प्रलये कार्यं कारणाविभागमापद्यमानं कारणमात्मीयेन धर्मेण दूषयेदिति कार्यवद्ब्रह्मणोऽप्यशुद्ध्यादिप्रसङ्गादसमञ्जसमिदमिति पञ्चमेन पूर्वपक्षयित्वा मैवं शरावमायास्वप्नादिषु प्रलीनेषु तद्धर्माणां मृन्मायाविस्वप्नद्रष्ट्रादिष्वदर्शनेन कारणस्य कार्यदोषासंसर्गे दृष्टान्तसद्भावादिति षष्ठेन सिद्धान्तयित्वा किं च न विलक्षणत्वादनुपादानतेत्यादयो दोषाः साङ्ख्यमतेऽपि समाः । शब्दादिहीनं प्रधानं शब्दादिमज्जगदुपादानमिति साङ्ख्यैः स्वीकारादिति सप्तमेनोक्त्वा किं च न तर्केण ब्रह्मणः श्रौतकारणत्वापह्नवो युक्तः । तर्काणामप्रतिष्ठितत्वात् ।  ननु अन्यथा तर्कस्याप्रतिष्ठा यथा न भवति तथा सूक्ष्मबुद्धिभिरनुमेयमिति चेदेवमपि विषयान्तरे तर्कस्य प्रतिष्ठितत्वेऽप्यतिगम्भीरे शब्दैकगम्ये जगत्कारणे तर्कस्याप्रतिष्ठितत्वदोषादनिर्मोक्ष इत्यष्टमेनोक्तमिति ।

प्रकाशिका

यत्तूक्तमिति ।।

प्रकृत्या सह सारूप्यं विकाराणामवस्थितम् ।

जगद्ब्रह्मस्वरूपं च नेति नो तस्य विक्रिया ।

विशुद्धं चेतनं ब्रह्म जगज्जडमशुद्धिभाक् ।

तेन प्रधानसारूप्यात्प्रधानस्यैव विक्रिया ।। इति भामत्युक्तम् ।

तथा ‘‘अस्य प्रत्यक्षादिभिरचेतनत्वेनाशुद्धत्वेनानीश्वरत्वेने’’त्यादिरामानुजभाष्योक्तं च हृदि कृत्वा सूत्रार्थमाह ।। अस्येति ।। अध्याहारेणान्वयमाह ।। न ब्रह्मेति ।। विज्ञानमिति ।। विज्ञानादिशब्दानां कारणकार्यपरत्वादिति भावः ।। प्रतिषेधासमर्थत्वादिति ।। एतच्च ‘‘तदनन्यत्व’’मित्यग्रे तद्भाष्यादावुच्यत इति । एतच्चाद्वैतिमते । रामानुजमते तु कार्यकारणयोर्वैलक्षण्ये तयोर्द्रव्यान्तरत्वेन कारणे कार्यं न विद्यत इत्यसत्स्यादित्यसत एव जगदुत्पत्तिस्स्यादिति चेन्न । पूर्वसूत्रे सालक्षण्यनिषेधस्य तन्नियमनिषेधमात्रत्वान्न तदैक्यं नेत्युक्तमित्यर्थः ।। शरावेति ।। यथाक्रममन्वयः । न विलक्षणत्वादनुपादानतेत्येतदप्यद्वैतिमते । मतान्तरे तु चिदचिच्छरीरकस्य ब्रह्मण एव कार्यकारणभावापन्नत्वेऽपि चिदचिच्छरीरगतदोषाणामात्मन्यनन्वये दृष्टान्तस्य शरीर गतबालत्वयुवत्वाद्यवस्थान्वयरहितजीवस्य सद्भावादिति पूर्वेणोक्त्वा निर्विकारचिन्मात्रपुरुषस्य जगत्प्रवृत्त्याद्यनुपपत्तेः केवलप्रधानकारणत्वपक्षस्य दुष्टत्वाच्चेत्यर्थः ।।

चन्द्रिकाविवृतिः

यदुक्तमुभाभ्यामिति ।। अत्र वाचस्पत्याद्यनुसारेण वाक्यानां सम्यगर्थोऽनुसन्धेयः । ननु सूत्राष्टकं कथम् । दृश्यते त्वित्यनेन नवमत्वादित्त्यत आह ।। न विाक्षणत्वादिति ।।

Load More