सिद्धान्तस्तु
सिद्धान्ते स्वातन्त्र्यतद्गत्वे शद्बवृत्तिनियामके इति निरूपणम्
तात्पर्यचन्द्रिका
सिद्धान्तस्तु
स्वातन्त्र्यं तद्गतत्वं च शब्दवृत्तेर्हि कारणम् ।
स्वातन्त्र्यं तत्र मुख्यं स्यात्कुतो राज्ञि जयोऽन्यथा ।।
इत्यनुव्याख्यान उक्तः । अयं भावः । स्वातन्त्र्यस्य निमित्तत्वेऽपि न राज्ञि बद्धादिशब्दाः । यतः स्वातन्त्र्यं नाम नियामकत्वे सति तदाश्रयत्वप्रयुक्तनीचत्वायोग्यत्वमिह विवक्षितम् । एवं च भृत्यादिगतदुःखादिकं प्रति राज्ञो न स्वातन्त्र्यम् । तदाश्रयत्वप्रयुक्तनीचत्वयोग्यत्वात् । किं तु जयादिकं प्रत्येव । तदयोग्यत्वात् । ब्रह्मणस्तु तदयोग्यत्वादस्ति तत्प्रत्यपि स्वातन्त्र्यम् । इन्द्रादिशब्दनिमित्तैश्वर्यं प्रतितु ब्रह्मणो योग्यत्वेऽपि तस्य नीचत्वाप्रयोजकत्वादेवास्ति तत्प्रत्यपि स्वातन्त्र्यम् । आश्रयत्वपक्षेऽपि हिनाश्रयत्वमात्रं निमित्तम् । रूपदण्डाद्याधारे कालादौ रूपीत्याद्यप्रयोगात् । यद्वा स्वगतत्वयोग्यत्वे सति यद्दोषत्वं तद्रहितं प्रति स्वातन्त्र्यं निमित्तम् । कार्यबलेन तथा कल्पनात् । एवं च जयादेर्बन्धनादेश्च राजगतत्वयोग्यत्वेऽपि जयादेर्दोषत्वराहित्यात्तत्प्रति स्वातन्त्र्यं निमित्तम् । बन्धनादेस्तु दोषत्वान्न तत्प्रति स्वातन्त्र्यं निमित्तम् । ब्रह्मणि त्विन्द्रादिशब्दनिमित्तैश्वर्यादेः स्वगतत्वयोग्यत्वेपि दोषत्वराहित्यात् बन्धनादेश्च दोषत्वेऽपि स्वगतत्वयोग्यत्वराहित्यादुभयं प्रति स्वातन्त्र्यं निमित्तम् । अत एवानुव्याख्याने ‘‘राज्ञो बन्धादियोग्यत’’ इति राज्ञो बन्धादिदोषयोग्यता, ‘‘दोषात्यस्पृष्टिनियम’’ इति विष्णौ दोषायोग्यताचोक्ता ।
प्रकाशिका
तदधीनत्वसूत्रव्यावर्त्यपूर्वपक्षस्यैवेह प्रपञ्चनात्तद्य्वाख्यानपरानुव्याख्यानतात्पर्यविवरणेन पूर्वपक्षप्रतिक्षेपमाह ।। सिद्धान्तस्त्विति ।। उक्त इत्यन्वयः । स च प्रागेव विवृत इति भावः । नन्वेतावता पूर्वोक्तातिप्रसङ्गो न परिहृत इत्यत आह ।। अयं भाव इति ।। ‘‘राज्ञो बन्धादियोग्यत’’ इत्याद्युत्तरानुव्याख्यानानुरोधेन स्वातंत्र्यं निरुच्यातिप्रसङ्गं निराह ।। यत इति ।। उत्तरवाक्येनान्वयः । अतो नेति पूर्वेण योज्यम् ।। तदिति ।। यत्प्रति स्वातन्त्र्यमुच्यते तदाश्रयत्वप्रयुक्तेत्यर्थः । बुद्धिस्थदुःखबन्धैश्वर्यादिस्तच्छब्दार्थः । तदाश्रयत्वप्रयुक्तनीचत्वायोग्यत्वं च तत्प्रयुक्तनीचत्वस्य क्वाप्यप्रसिद्ध्यावा क्वचित्प्रसिद्धत्वेप्यन्यत्रानाश्रयत्वादिना द्वेधा । तत्राद्ये गुणरूपैश्वर्यादीनिन्द्रादिशब्दप्रवृत्तिहेतून् प्रति विष्णोस्स्वातन्त्र्यसिद्धिः । ऐश्वर्यादिप्रयुक्तनीचत्वस्य क्वाप्यभावात् । द्वितीये दोषरूपदुःखबन्धादीन् दुःखिबद्धादिशब्दप्रवृत्तिहेतून् प्रति स्वातन्त्र्यसिद्धिः । तदाश्रयत्वप्रयुक्तनीचत्वस्य चेतनांतरे सम्भवेऽपीह विष्णोस्तदनाश्रयत्वेन तत्प्रयुक्तनीचत्वायोग्यत्वात् ।
नन्वाद्ये तस्यैवाप्रसिद्धत्वे कथं तद्योग्यत्वनिषेधः । क्वचित्प्रसिद्धस्यैव निषेधादिति चेन्न । सिद्धान्तेऽप्रसिद्धस्यापि निषेधात् । ‘‘तस्य नीचत्वाप्रयोजकत्वा’’दित्यग्रिमवाक्यपर्यालोचन याऽस्यैवार्थस्य पर्यवसानात् । उक्तं च तर्कताण्डवे व्याप्तिलक्षणोक्तिप्रस्तावे ‘‘न च केवलान्वयिन्यव्याप्तिः । तत्र साध्याभावस्यासत्त्वादेव साध्याभावे सति साधनस्य योपपत्तिः तदभावरूपानुपपत्तेस्सत्वात् । मन्मतेऽप्रामाणिकस्यापि निषेधप्रतियोगित्वा’’दिति । एवं चैतस्य गुणदोषस्वातन्त्र्यसाधारणतया नाव्याप्तिचोद्यावकाशः । तत्र घटादे रूपाद्याश्रयत्वप्रयुक्तनीचत्वायोग्यत्वमस्ति । रूपाद्याश्रयत्वस्य नीचत्वाप्रयोजकत्वात् । एवं च घटादेरपि रूपादिस्वातन्त्र्यापत्त्या तत्र रूपादिपदप्रयोगस्स्यादतस्सत्यंतम् । नियामकत्वं च विनियोजकत्वादिः कश्चन चेतनधर्मः । तावत्युक्ते राज्ञोऽपि भृत्यगतबन्धादिस्वातन्त्र्यापत्त्याऽतिप्रसङ्गस्तदवस्थ इत्युत्तरभागोपादानम् । सहनशक्तिमति राजनि भृत्यगतदुःखादिनियामकत्वे सति दुःखाश्रयत्वप्रयुक्तनीचत्वाभावोऽपि कदाचिदस्तीति योग्यतांतर्भावः । नीचत्वं च स्वरूपसङ्कोचरूपोऽपकर्षः । ‘‘न कर्मणा वर्धते नो कनीया’’नित्यादिश्रुतिप्रतिपन्नो ह्रासशब्दितः । समयचरणे क्षपणकपरीक्षायां
नानित्यतास्मत्पक्षे तु चैतन्यादेर्विशेषिणः ।
लक्षणस्य निवृत्तौ तु स्यान्न तच्चेतने क्वचित् ।।
इत्यनुव्याख्यानव्याख्यावसरे सुधायां ‘‘नन्वस्मन्मत इव भवन्मतेऽप्यात्मनोऽन्यथाभावोऽस्त्येव । सुखदुःखाभ्यामुच्चनीचत्वाभ्युपगमा’’दित्यादिना श्लोकमवतार्य व्याख्याय ‘‘यस्य वस्तुनो यल्लक्षणं तन्निवृत्तिरूपोऽन्यथाभाव एव तदनित्यता निबन्धनम् । नान्यथाभावमात्र’’मिति तात्पर्यमुक्तम् । उक्तं च नयचन्द्रिकायामेतच्छ्लोक व्याख्यानावसर एव नारायणपण्डिताचार्यैरपि ‘‘सङ्कोचविकासरूपान्यथाभावमात्रान्न नाश’’ इति । सन्न्यायरत्नावल्यां च ‘‘ह्रासवृद्ध्यादिविकारवतोऽपी’’ति । तथा च तूलपिण्डस्येव स्वरूपस्यैवासङ्कोचसङ्कोचावुच्चनीचत्वशब्दार्थ इति वदन्ति । एतेन नीचत्वं नाम यदि रोदनाक्रन्दनादिकं तदा तस्य धीरोदात्तपुरुषेऽभावादव्याप्तिरित्यादिना बहुप्रकारविकल्पेन कस्यचिन्नूतनस्य खण्डनं प्रत्युक्तम् । प्रागुक्तातिप्रसङ्गमुद्धरति ।। एवं चेति ।। लक्ष्ये तदाह ।। ब्रह्मणस्त्विति ।। ‘‘न कर्मणा वर्धते नो कनीयान् निरनिष्ट’’ इत्यादिश्रुतेः सम्भोगसूत्रोक्तवैशेष्ययुक्तेश्चेति भावः । अव्याप्तिं निराह ।। इन्द्रेति ।। ननु किमेवं विवक्षया । अतिप्रसङ्गात्स्वातन्त्र्यमनिमित्तमित्येवोच्यतामित्यत आह ।। आश्रयत्वेति ।। तथाच तदपि निमित्तं न स्यात् । केवलस्यातिप्रसङ्गात् । किं तु रूपसमवायित्वाद्येव वाच्यमिति भावः ।।
स्वातन्त्र्यं निमित्तमिति ।। तच्छब्दप्रवृत्ताविति शेषः । विष्णौ बद्धादिशब्दवृत्त्यनापत्तेस्सत्यंतम् । राजादौ भृत्यादिगतबन्धादिना बद्धादिपदप्रयोगापत्तेरुत्तरभागः । स्वगतत्वयोग्यत्वे सति यद्दोषत्वं तद्रहितमित्यत्र सतिसप्तमीमहिम्ना स्वगतत्वयोग्यत्वसमानाधिकरणं यद्दोषत्वं तद्रहितमित्युक्तम् । विशिष्टराहित्यं विशेषणराहित्येन विशेष्यराहित्येन च द्वेधा । तत्राद्ये दोषशब्दप्रवृत्तिहेतून् प्रति विष्णोस्स्वातन्त्र्यं तच्छब्दप्रवृत्तौ निमित्ततया सिध्यति । अन्ते गुणवाचीन्द्रादिशब्दप्रवृत्तिहेतून् प्रति तस्य स्वातन्त्र्यं तच्छब्दप्रवृत्तौ निमित्तं सिध्यतीति न क्वाप्यव्याप्तिः । ननु कुत एवं कल्पना स्वातन्त्र्यं व्यभिचारादनिमित्तमित्येव वा स्वातन्त्र्यमात्रं निमित्तमिति वा कल्प्यतामित्यत आह ।। कार्येति ।। प्रयोगभावाभावरूपकार्येत्यर्थः । विशिष्टराहित्यसम्पादनेन राजादौ स्वातन्त्र्यस्य निमित्तत्वानिमित्तत्वे विशेषणमुपेत्य विशेष्यभावाभावाभ्यामुपपादयति ।। एवं चेति ।। विशिष्टाभावसम्पादने सतीत्यर्थः । ब्रह्मण्युभयाभावेन निमित्ततामेवाह ।। ब्रह्मणि त्विति ।। यद्यपि गुणवाचीन्द्रादिशब्दानां तत्प्रवृत्तिनिमित्तस्य विष्णुगतत्वेनैव तत्र प्रवृत्तिस्सम्भवति । न स्वातन्त्र्यरूपनिमित्तानुसरणं तत्र कार्यम् । अन्यथा स्वातन्त्र्याख्यगुणस्यैव लाभेनापर्यायानंतशब्दानां समन्वयेन तत्तच्छब्दप्रवृत्तिनिमित्तानंतगुणासिद्धिप्रसङ्गात् । दोषवाचिनांतु शब्दानां प्रवृत्तिनिमित्तस्य विष्णुगतस्यैव तत्र शब्दप्रवृत्तिहेतुत्वे विष्णोर्दोषितापत्तेः श्रुत्यादिविरोधप्रसङ्गात् स्वातन्त्र्यमेव तत्र दोषवाचिशब्दवृत्तौ निमित्तमनुसर्तव्यम् । आह च अयं सूत्रकारोऽत्रैव दोषवाचिशब्दोदाहरणकेऽधिकरणे तदधीनत्वन्यायम् । भाष्यकारोपि ‘‘स्वातन्त्र्यादेव वर्तंते दोषशब्दाश्च विष्णवी’’ति । तथाचोभयसाधारण्येन स्वातन्त्र्यनिरुक्तिक्लेशो विफलः । तथापि श्रुतिस्मृत्योः
शब्दप्रवृत्तिहेतूनां तस्मिन्मुख्यसमन्वयात् ।
अन्यार्थेष्वल्पताहेतोस्तन्निमित्तत्वतस्तथा ।।
इत्यानन्दमयनयानुव्याख्याने प्रतिनयं टीकायां च गुणवाचिशब्दानामपि भगवति वृत्तौ स्वातन्त्र्यस्यापि निमित्तत्वेनोपपादनात्साधारण्येनैवमुक्तिः । यद्यप्येवं सुधादौ नोक्तम् । तथापि तदपरित्यागेन प्रौढ्या तात्पर्यांतरवर्णनमेतदित्यदोषः । केवलस्वातन्त्र्यस्य निमित्तत्वेऽपि न राज्ञि बद्धादिशब्दप्रयोगः ।
चन्द्रिकाबिन्दुः
सिद्धान्तः । ननु स्वातन्त्र्यस्य प्रवृत्तिनिमित्तत्वे राज्ञि बद्धादिशब्दप्रयोगः स्यादित्यत आह ।। अयं भाव इति ।। नियामकत्वे सतीति ।। तत्प्रवृत्तिनिमित्तनियामकत्वे सति प्रवृत्तिनिमित्ताश्रयत्वप्रयुक्तनीचत्वायोग्यत्वमित्यर्थः ।। तदयोग्यत्वादिति ।। दुःखादिकं प्रत्याश्रयत्वप्रयुक्तनीचत्वायोग्यत्वादित्यर्थः । अतः ब्रह्मण एव दुःखादिकं प्रति विवक्षितं स्वातन्त्र्यमस्तीति भावः । ननु स्वातन्त्र्यपक्षे विवक्षाकरणमेव दोष इत्यत आह ।। आश्रयत्वपक्षेऽपीति ।। नियम्यकोटावेव विशेषणं प्रक्षिप्य प्रसिद्धमेव स्वातन्त्र्यं स्वीकृत्य पक्षान्तरं पूर्वापेक्षया स्वरसमाह ।। यद्वेति ।। स्वगतत्वयोग्यत्वे सतीति । समभिव्याहृतधर्मिगतत्वयोग्यत्वे सति यद्दोषत्वं तद्रहितं यत् तत्प्रत्येव स्वातन्त्र्यं विवक्षितं नान्यत् प्रति स्वातन्त्र्यं विवक्षितमित्यर्थः ।। कार्यबलेनेति ।। एतादृशस्वातन्त्र्ये सति प्रयोगो दृश्यतेऽन्यत्र नेत्यादिकार्यबलेनेत्यर्थः । एवं च जयादे राजगतत्वयोग्यत्वाख्यविशेषणे सत्यपि दोषत्वरूपविशेष्याभावात् जयः स्वगतत्वयोग्यत्वे सति दोषत्वरहितः । (अस्पष्टार्थमिदं वाक्यं) तं प्रति स्वातन्त्र्यं प्रति विवक्षया जयिशब्दः राज्ञि युक्तः । बन्धे च राजगतत्वयोग्यत्वरूपविशेषणस्य दोषत्वरूपविशेष्यस्यापि सत्त्वेन सम्बन्धः स्वगतत्वयोग्यत्वे सति दोषत्ववानेव न तु तद्रहितः अतो न तं प्रति स्वातन्त्र्यं प्रवृत्तिनिमित्तम् ।
ब्रह्मपक्षे इन्द्राद्यैश्वर्यमेव विशेष्याभावप्रयुक्तो विशिष्टाभावः । ऐश्वर्यस्य ब्रह्मगतत्वयोग्यत्वेऽपि दोषत्वाभावात् बन्धने दोषत्वसत्त्वेऽपि ब्रह्मगतत्वयोग्यत्वाभावादिति निष्कर्षः । पक्षद्वयेऽप्यनुव्याख्यानं ज्ञापकं दर्शयति ।। अत एवेति ।।
पाण्डुरङ्गि
राजाधीनेन शत्रुगतदुःखेन राज्ञि दुःखिशब्दस्य राजाधीनेन भृत्यगतबन्धेन राज्ञि बन्धादिशब्दस्य चापातादित्यतोऽभिप्रायमाह ।। अयं भाव इति ।। नन्वेवमनुव्याख्यानविरोधः । तत्र राज्ञो बन्धादियोग्यत इत्यादिना राज्ञः साक्षाद्बन्धादिरूपदोषयोग्यत्वस्यैवोक्तत्वात् । भवद्भिश्च तत्प्रयुक्तनीचत्वाभिधानादित्यरुच्याऽऽह ।। यद्वेति ।।