अन्ये तु
तात्पर्यचन्द्रिका
अन्ये तु ।। छान्दोग्ये वायोर्भूतस्योत्पत्त्यश्रवणात्तैत्तिरीये तु तच्छ्रवणाच्छत्योर्विरोध इति पूर्वपक्ष इत्याहुः । तन्न । उक्तयनुक्तयोरविरोधादित्युक्तत्वात् । भूतपरत्वेऽस्याधिकरणस्य ‘‘आकाशाद्वायु’’रित्याकाशजे वायावाकाशसाम्यस्याप्यभावेन सुतरामधिकाशङ्काभावेनातिदेशायोगाच्च । यद्यपि ‘‘वायुश्चान्तरिक्षं चैतदमृत’’मिति द्वयोरप्यमृतत्वमुक्त्वा ‘‘सैषाऽनस्तमिता देवता यद्वायु’’रिति वायोर्विशिष्यानस्तमितत्वोक्तिरधिका । तथापि सा देवताविषया । त्वन्मते त्विदं भूतविषयम् । न चास्याधिकरणस्य देवताविषयत्वे प्रकरणविरोधः । उक्तरीत्या वियदधिकरणे ‘‘तत्तेजोऽसृजत तत्तेज ऐक्षत तदपोऽसृजत ता आप ऐक्षन्ते’’ति वाक्यद्वयविषय उत्तराधिकरणद्वये च देवताया अपि प्रकृतत्वात् । परं त्विदं देवतामात्रविषयम् । पूर्वमुत्तरद्वयं चोभयविषयमिति भेदः । केचित्तु अधिकाशङ्काभावान्नेदमधिकरणान्तरम् । किन्तु पूर्वाधिकरणशेषभूतं सद्भूतविषयमेवेत्याहुः । तन्न । अस्मद्रीत्याऽधिकाशङ्काचतुष्टयसद्भावात् । ‘‘सैषानस्तमिते’’ति श्रुतौ देवतापदस्य ‘‘कुविदङ्गे’’त्यृचि देवोपास्यत्वस्य श्रवणाच्च । अधिकाशङ्काभावे पूर्वन्यायेनैव सिद्ध्यैकाधिकरणत्वेऽप्यस्य सूत्रस्य वैयर्थ्याच्च ।। छ ।। मातरिश्वाधिकरणम् ।। २ ।।
प्रकाशिका
अन्ये त्विति ।। ‘‘उक्तयनुक्तयोर्विरोधाभावा’’दिति टीकोक्तमेव हेतुमाह ।। उक्तयनुक्तयोरिति ।। ‘‘तत्र विरोधेन पूर्वपक्ष इति तावदयुक्त’’मित्यादिना पूर्वत्रोक्तत्वादित्यर्थः । ‘‘किं च नित्यविभुवियदुत्पत्ता’’वित्यादिटीकार्थमाह ।। भूतपरत्व इति ।। भाष्यभामत्योरुक्तमाशङ्कते ।। यद्यपीति ।। अधिकेति ।। एतेन यदुक्तं श्रुतप्रकाशे ‘‘अनस्तमितशब्दस्यामृतशब्दतुल्यार्थतया पृथक्परिहरणीयत्वाभावा’’दिति तन्निरस्तम् । ‘‘वायुश्चान्तरिक्षं चैतदमृतमिति वायोरमृतत्वमुक्त्वा पुनः पवनस्य विशेषेणाह सैषानस्तमिता देवता यद्वायुरिति ।। तस्मादभ्यासान्नापेक्षिकं वायोरमृतत्वमपि त्वात्यन्तिकमेवे’’ति भामत्युक्तस्यापरिहारात् । देवताविषयेत्येव समाधानं युक्तम् । श्रुतप्रकाशोक्तं हेतुमाह ।। अधिकाशङ्काभावादिति ।। वैयर्थ्याच्चेति ।। एतेन यदुक्तं श्रीभाष्यतद्व्याख्यानयोः ‘‘वियन्मातरिश्वनोरुभयोरप्युत्पत्तिर्वक्तव्या । तत्रैकसूत्रेण वक्तुं शक्येऽपि पृथग्योगकरणं ‘‘तेजोऽतस्तथा ह्याहे’’ति मातरिश्वपरामर्शार्थ’’मिति तन्निरस्तम् । वियत्तुल्यन्यायतया मातरिश्वनोऽप्युपलक्षणतयोत्पत्तिसिद्धावप्युत्तरसूत्रपरामर्शमात्रार्थं पृथक् सूत्रकरणस्यानुचितत्वात् । वायोस्तेजस्तथा ह्याहेति सूत्रणेऽपि सामञ्जस्यात् । अत इत्यस्य वायुपरामर्शित्वाभावाच्चेति भावः ।।
चन्द्रिकाविवृतिः
छान्दोग्य इति ।। तत्तेजोऽसृजते-त्यादिना तेजस एवादिसृष्टत्त्वोक्तेर्वायोर्नोत्पत्तिरिति भावः ।। वायुभूतविषयेऽभ्यधिकाशङ्कां परैर्दर्शितां दूषयितुमनुवदति ।। यद्यपि वायुश्चेति ।। अन्तरिक्षमाकाशः ।। भूतविषयमिति ।। तथा चैतदधिकरणविषयभूतवायौ अभ्यधिकाशङ्का नोक्तेति भावः ।। प्रकरणविरोध इति ।। पूर्वोत्तराधिकरणेषु वियत्तेज आदिभूत एवेत्यभिप्रायेणेयं शङ्का ।। उक्तरीत्येति ।। अत्र तत्तेज ऐक्षत ता आप ऐक्षन्तेति वाक्यशेषोदाहरणं पूर्वसृष्टतेजआदीनां चेतनत्त्वख्यापनायेति ध्येयम् ।। ननु पूर्वोत्तराधिकरणयोर्भूत-देवतोभयविषयत्त्वं एतदधिकरणस्य देवतामात्रविषयत्वमङ्गीकृतमिति पुनर्भेदेन प्रकरणविरोध एवेत्यत आह ।। परं त्विदमिति ।। अयं च भेदः भेदमात्रं पूर्वोत्तराधिकरणैः सह समानविषयत्वाविरोधीति न प्रकरणविच्छेदप्रयोजकमिति भावः ।। एवमेव इयांस्तु परं त्वित्यादिग्रन्थेष्ववतारिकाभिप्रायौ सर्वत्र द्रष्टव्यौ (?) ।। कैश्चिदप्येतदधिकरणसूत्रस्य भूतविषयत्त्वाङ्गीकारोऽनुपपन्नः ।। न च वायुशब्दस्य देवतायामयोगात् वायुशब्दोपेतवाक्यं भूतविषयतयाऽस्माभिर्विचारितमिति वाच्यम् । देवतापदसामानाधि-करण्यसर्वदेवतोपास्यत्त्वान्यथानुपपत्त्या तद्वाक्यद्वयस्थवायुशब्दस्य देवतापरत्वेनाप्रयोगासिद्धेरित्यभिप्रेत्याह ।। सैषा नस्तमितेति ।। छ ।।