स्मृत्यविरोध उक्तः । युक्तयविरोध उच्यते

न विलक्षणत्वाधिकरणम्

तात्पर्यचन्द्रिका

वेदानां स्वत: प्रामाण्यनिरूपणम्

ॐ न विलक्षणत्वादस्य तथात्वं च शब्दात् ॐ ।।

स्मृत्यविरोध उक्तः । युक्तयविरोध उच्यते । अत्र पूर्वसिद्धान्तन्यायेन पूर्वपक्षप्रवृत्तेरनंतरसङ्गतिः । अत्र श्रुतिसमन्वयेनोक्तं विष्णोः कारणत्वादि न युक्तमुत युक्तमिति चिन्ता । तदर्थं वेदोऽप्रमाणमुत नेति । तदर्थं वेदैकदेशभूतकारीर्यादिवाक्यं युक्तिविरुद्धमुत नेति ।। तदर्थं कारीर्याद्यनुष्ठानेऽपि वृष्ट्यदृष्टिः किं व्यभिचारात्किं वा कर्त्रादिवैगुण्यादिनेति । तदर्थं वेदप्रामाण्यं किं संवादादुत स्वत इति । पूर्वत्र श्रुतेरपौरुषेयत्वप्रामाण्ये स्वीकृत्य दुर्बला सा प्रबलस्मृत्यनुसारेण नेयेति पूर्वः पक्षः । अत्र त्वपौरुषेयत्वेऽपि शैवादिस्मृतिवद्विसंवादेनाप्रामाण्यमिति वाऽपौरुषेयत्वमेव नेति वेति पूर्वपक्ष इति भेदः ।

सिद्धान्तमाह ।। सिद्धान्तयदित्यादिना ।। अयं भावः ।। न तावदाद्योऽपौरुषेयत्वपक्षो युक्तः ।

गुणाभावेऽपि वेदस्य प्रामाण्यं साक्षिवत्स्वतः ।

अपवादकदोषस्य राहित्यादेव हि स्थितम् ।। १ ।।

प्रामाण्यस्योत्पत्तौ स्वतस्त्वस्य देवताधिकरणे ज्ञप्तौ स्वतस्त्वस्य चेह भाष्यादौ समर्थितत्वेन श्रुतेः स्वतः प्राप्ते गुणानपेक्षे प्रामाण्येऽपवादकस्य दोषस्याभावेन साक्षिप्रत्यक्षस्येव प्रतिष्ठिते सत्यप्रामाण्यानुमितेर्बाधः । तदुक्तं न्याय विवरणे ‘‘साक्षिप्रत्यक्षसाम्यमेवे’’ति । विसंवादस्त्वन्यथासिद्धः । कारीर्यादेर्वृष्ट्यादिहेतुता हि तत्तद्वाक्यार्थः । न च सहकारिवैकल्यात्प्रतिबन्धाद्वा कार्यानुत्पत्तावहेतुता । येन विसंवादो प्रामाण्येन विनाऽनुपपन्नःस्यात् । अपौरुषेयत्वं तु न प्रामाण्यं विनोपपन्नम् । दोषाभावेऽप्यप्रामाण्येऽहेतुककार्यापातात् । दृश्यते च वैगुण्याद्यभावे कारीर्यादिफलमिति न क्वाचित्कादर्शनेनाहेतुता । शैवादिस्मृतेस्तु संवादात्प्रामाण्यमिति वैषम्यम् ।

भेषजत्वेन निर्णीतादपि दैवात्क्वचिद्गुणः ।

चेन्न दृश्येत किं तस्य तावता तदहेतुता ।। १ ।।

अपथ्यत्वेन निर्णीतादपि दैवात्क्वचिद्गुणः ।

दृश्यते वद किं तस्य तावता तत्र हेतुता ।। २ ।।

नाप्यपौरुषेयत्वमेव नेति द्वितीयः । ‘‘वाचा विरूपनित्यये’’त्यादिश्रुत्यैव तत्सिद्धेः । न चान्योन्याश्रयः ।।

विसंवादविहीनेन श्रुतिवाक्येन साधिता ।

नित्यता सर्ववेदानां विसंवादं धुनोति हि ।। १ ।।

अत्र हि पूर्वपक्षिणा विसंवादेतरहेतुकाप्रामाण्याभावं स्वीकृत्य विसंवादेनैकदेशस्य प्रामाण्यापवादे तद्दृष्टान्तेनान्यस्यापि स शंक्यते । न च वेदनित्यत्वश्रुतेर्विसंवादोऽस्तीति निर्बाधया तया कृत्स्नवेदप्रामाण्योपयोग्यपौरुषेयत्वसिद्धिरिति । अत एव बाधान्यथासिद्धी सूत्रारूढे कर्तुमपौरुषेयत्वं संवादानपेक्षत्वं च सौत्रवैलक्षण्यशब्दार्थ इति भाष्यटीकयोरुक्तम् । प्रामाण्यस्वतस्त्वापौरुषेयत्वादिसाधनप्रपञ्चस्त्वन्यत्र द्रष्टव्यः । अत्र चाद्यं सूत्रं अस्य श्रुत्यादेः । तथात्वं शैवादिस्मृतिवदप्रामाण्यम् न । श्रुतावपौरुषेयत्वादिरूपस्य श्रौतस्मृतौ च तदनुसारित्वरूपस्य वैलक्षण्यस्य सत्त्वात् । तथात्वं च वैलक्षण्यं च अपौरुषेयत्वरूपम् । ‘‘वाचा विरूपनित्यये’’त्यादिशब्दात् । संवादानपेक्षत्वरूपं तु ‘‘न चक्षुर्न श्रोत्र’’मित्यादिश्रुतेरिति तथात्वमित्यस्योभयतः सम्बन्धं स्वीकृत्य भाष्यटीकाभ्यामेव योजितम् ।। द्वितीयो निरस्तप्राय इति ।। प्रामाण्याग्रहणे शङ्काया आवश्यकत्वादिति शेषः ।। बाधकवदिति ।। यथा बाधकस्य प्रामाण्यशङ्कानिरासाप्रामाण्यज्ञानयोर्व्यापारस्तथा संवादस्याप्रामाण्यशङ्कानिरासप्रामाण्यज्ञानयोर्व्यापारोऽस्त्वित्यर्थः ।। बाधकेन विनेति ।। यथा सुखादिज्ञाने संवादेन विना निवृत्ताप्रामाण्यशङ्कस्य प्रामाण्यबुद्ध्युदयोऽनुभूयते तथा क्वचिदपि बाधकेन विना निवृत्त प्रामाण्यशङ्कस्याप्रामाण्यबुद्ध्युदयो नानुभूयते । प्रत्युत तदनुदय एवानुभूयते । तेन संवादाभावेऽपि सुखादिज्ञाने प्रामाण्यज्ञप्त्या व्यतिरेकव्यभिचारान्न संवादस्य प्रामाण्यधीहेतुता । बाधकस्य त्वव्यभिचारादप्रामाण्यधीहेतुतेत्यर्थः ।। अनुमानप्रामाण्येऽपि संशयदर्शनाच्चेति ।। बौद्धचार्वाकादिविप्रतिपत्त्याऽनुमानप्रामाण्येऽपि संशयदर्शनादित्यर्थः । यद्वा लिङ्गादिज्ञानप्रामाण्यसन्देहेन तज्जन्यानुमितिप्रामाण्येऽपि संशयदर्शनादित्यर्थः ।। आपादनमात्रस्य क्रियमाणत्वादिति ।। अन्यहेतुकस्याप्रामाण्यस्याभावं स्वीकृत्य विसंवादहेतुकाप्रामाण्यशङ्कामात्रस्य क्रियमाणत्वादित्यर्थः ।। युक्तेश्चोपन्यस्तत्वादिति ।। देवताधिकरणभाष्येऽपौरुषेयत्वे युक्तेश्चोपन्यस्तत्वादित्यर्थः ।। अधिकारित्वं नामेति ।। कर्मवैगुण्यप्रतिबन्धादिशून्यत्वरूपं योग्यत्वमधिकारित्वमित्यर्थः ।। छ ।। न विलक्षणत्वाधिकरणम् ।। २ ।।

प्रकाशिका

अपौनुरुक्त्याय सुधोक्तं प्रमेयभेदमाह ।। स्मृतीति ।। युक्तीति ।। वेदोऽप्रमाणं फलव्यभिचारित्वादिति युक्तिविरोधाभाव उच्यते ।। पूर्वसिद्धान्तेति ।। यथा फलव्यभिचारेण स्मृतीनामप्रामाण्यं तथैव श्रुतीनामिति प्रवृत्तेरापवादिकी सङ्गतिरित्यर्थः ।। वेदैकदेशेति ।। तथा च तद्दृष्टान्तेन कृत्स्नवेदाप्रामाण्यं तत्सामान्यादितरेषु तथात्वमिति न्यायादिति भावः । नन्वेकदेशे फलविसंवादेऽपि कथं सर्वत्राप्रामाण्यानुमानम् । तत्प्रयोजकविसंवादस्य तत्राभावादिति चेन्न । प्रामाण्यनिर्णयस्य संवादैकनिबन्धनत्वोपगमेन क्वचिद्विसंवादेनाप्रामाण्येऽन्यत्रापि प्रामाण्यनिश्चयहेतुसंवादाभावाद्विसंवाद्यैकदेशसाधारण्यानुमानाप्रतिहतेरिति भावः ।। युक्तीति ।। फलानुपलम्भादित्यर्थः ।। संवादादिति ।। ज्ञायत इति शेषः । स्पष्टः फलफलिभावः । टीकायामेव पूर्वपक्षस्य स्पष्टमुपपादितत्वात् स्वयं पूर्वपूर्वपक्षेणास्य फलभेदमाह ।। पूर्वत्रेति ।। इदं च साङ्ख्यादिपूर्वपक्ष्येकदेश्यभिप्रायेण । विसंवादेनेत्युपलक्षणम् । आप्तोक्तत्वरूपप्रामाण्यकारणगुणाभावेनेत्यपि ध्येयम् । ‘‘विलक्षणत्वा’’दिति सौत्रांशव्यावर्त्यमुक्त्वा ‘‘तथात्वं च शब्दा’’दित्यंशव्यावर्त्यमाह ।। अपौरुषेयत्वमेव नेतीति ।। विसंवादेनाप्रामाण्ये प्राप्ते तत्कारणतया भ्रांत्यादिमूलकत्वस्यावश्यं वाच्यत्वादिति भावः । अत्र टीकायां नित्यत्वाद्वेदस्य निर्दोषत्वेनाप्रामाण्याभाव एवोक्तो न तु प्रामाण्यम् । अतो वेदस्यापौरुषेयत्वेनाप्तोक्तत्वगुणाभावात्कथं प्रामाण्यमिति शङ्का तु न परिहृतैव । तथा च ‘‘प्रमाणानुकूलत्वात्स्मृतेरपि तत्सिद्धि’’रित्युत्तरवाक्यायोग इत्यतः ‘‘नित्यत्वात्पुरुषोद्भवैः । उज्खितं सर्वदोषैश्च कथं नो मानतां व्रजे’’दित्येतद्य्वाख्याने सुधायां ‘‘बोधकत्वेन खलु करणानां प्रामाण्यम् । दोषात्तु कदाचिदपनीयत’’ इत्यादिनोक्तमर्थं सङ्गृह्याह ।। गुणाभावेऽपीति ।। आप्तिमूलकत्वरूपगुणेत्यर्थः । प्रामाण्यं प्रमाजनकत्वम् । स्वतः ज्ञानजनकत्वमिव सहजम् । न त्वन्यतः प्राप्यम् । प्रमाजननस्वभावस्यापि दोषवशादप्रमाजनकत्वमपि स्यादित्यत उक्तमपवादकेति ।। देवतेति ।। अत एव तदेव श्लोकेऽत्र सङ्गृहीतमिति भावः । ‘‘स्वतश्च प्रामाण्य’’मित्यादिभाष्यटीकाभावमाह ।। ज्ञप्ताविति ।। इदानीं श्लोकार्थमाह ।। श्रुतेरिति ।। स्वतः प्राप्त इत्यस्य विवरणं गुणानपेक्ष इति । भाष्यटीकयैव न्यायविवरणं विवृतं भवतीति भावेनाह ।। तदुक्तमिति ।।

पूर्ववाद्युक्तविसंवादयुक्तेः का गतिरित्यतः ‘‘दृश्यते’’त्विति सूत्रभाष्यविवृतिपरां ‘‘न फलादर्शनेन वेदादेरप्रामाण्य’’मित्यादिटीकां व्यनक्ति ।। विसंवादस्त्विति ।। वैपरीत्यं किं नेत्यत आह ।। अपौरुषेयत्वमिति ।। कथमनुपपन्नमित्यतः परंपरयेत्याह ।। दोषेति ।। एतेन ‘‘वेदस्य’’त्वित्यादिटीका विवृता । ‘‘तत्कुतः कल्प्यत’’ इति टीकोक्तशङ्कां हृदि कृत्वा ‘‘योग्यानां फलदर्शना’’दिति टीकार्थमाह ।। दृश्यत इति ।। ‘‘न च शङ्कनीयं पाशुपतादिस्मृत्युक्तफलव्यभिचारस्यापी’’त्यादिटीकोक्तशङ्कां हृदि कृत्वा ‘‘पाशुपतादीनां तु फलदर्शनमन्तरेणप्रामाण्यस्य साधकाभावा’’दिति टीकार्थमाह ।। शैवादीति ।। तेन स्वतस्त्वानभ्युपगमात् ‘‘तस्यापि स्वतः प्रामाण्यं चे’’दित्यादिना टीकायां स्वतः प्रामाण्यमाशङ्क्या प्रामाण्यस्य स्पष्टमुपपादितत्वादिति भावः । उपपादितं द्वितीयसूत्रभाष्यटीकाप्रमेयं सङ्गृह्याह ।। भेषजत्वेनेति ।। ‘‘वेदस्य नित्यत्वं कुत इत्यत आहे’’त्यादिटीकां व्यनक्ति ।। नापीति ।। ‘‘न च वाच्यं वेद प्रामाण्य’’ इत्यादिशङ्कापरटीकातात्पर्यमाह ।। न चेति ।। वाचा विरूपनित्ययेत्यादिश्रुतेः प्रामाण्ये सति तेन वेदनित्यत्वसिद्धिः । सिद्धे च तस्मिन्दोषरूपापवादकाभावेन स्वतः प्रामाण्यसिद्धिरित्यन्योन्याश्रय इत्यर्थः । ‘‘परेणापी’’ त्यादिटीकाभिप्रायं सङ्गृह्य समाधिमाह ।। विसंवादेति ।। श्लोकं व्याचष्टे ।। अत्र हीति ।। सौत्रवैलक्षण्यपदस्य भाष्यादौ द्य्वर्थतोक्तेः कृत्यमाह ।। अत एवेति ।। यद्वा सूत्रानभिमतं बाधमन्यथासिद्धत्वं चाप्रामाण्याद्यनुमितेर्बाध इति विसंवादस्त्वन्यथासिद्ध इति च कस्मादुपपादितमित्यत आह ।। अत एवेति ।। द्वयोरत्राभिमतत्वादेवेत्यर्थः । अन्यत्र तर्कताण्डवे प्रथमपरिच्छेदे । तथा च स्वतः प्रामाण्यसमर्थनटीकातात्पर्यानुक्तिरत्र न दोष इति भावः । सूत्रार्थोक्तिपरटीकार्थं सूत्रारूढं दर्शयति ।। अत्र चाद्यमिति ।। अपौरुषेयत्वादीति ।। संवादिनिरपेक्षत्वमादिपदार्थः ।। न चक्षुरिति ।। चक्षुरादीनां परमात्माप्रमापकत्वमुक्त्वा वेदस्यैव तत्प्रमापकत्वोक्तेरिति भावः । उपन्यासेनास्पष्टीकृतानि कानिचिद्वाक्यानि व्यनक्ति ।। द्वितीय इत्यादिना ।। छ ।। न विलक्षणत्वाधिकरणम् ।। २ ।।

चन्द्रिकाविवृतिः

एतदधिकरणविषयं पादसङ्गतिं च दर्शयति ।। युक्तयविरोध इति ।। पूर्वसिद्धान्तन्यायेन फाविसंवादेनाप्रामाण्याख्येन अनन्तरसङ्गतिः । इयं च सङ्गतिरूपजीव्योप-जीवकभावरूपा । व्यभिचारात् प्रतिपाद्याभावरूपात् । सिद्धान्तमाहेति ।। सिद्धान्तयदिति टीकावाक्यं सिद्धान्तावतारिकारूपत्वेन सिद्धान्तटीकारूपमिति दर्शयितुं न पूर्वपक्षशेष इति दर्शयितुं च इत्थमवतारिका । अन्यथा स्पष्टत्वात्स्वसिद्धान्तमाहेति न वक्तव्यम् । एवमन्यत्रापीति स्वामिनः ।। बाध इति ।। एवं च भाष्यटीकादौ प्रामाण्यस्वतस्त्वोक्तिः वेदोऽप्रामाणं गुणाभावादित्यादिपरकायानुमाने बाधे तात्पर्यमिति द्रष्टव्यम् । ननु विसंवादवद्वेदे अपौरुषेयत्वमपि प्रामाण्यं विना अन्यथासिद्धं किं न स्यादित्यत आह ।। अपौरुषेयत्वं त्विति ।। ननु शैवादिस्मृतेरपि अपौरुषेयत्वात् वेदवदेव प्रामाण्यं किं न स्यादित्यत आह ।। शैवादिस्मृतेस्त्विति ।। निर्णीतप्रामाण्ये वेदे क्वचित्फलादर्शनेऽपि नाप्रामाण्य-मित्येतत्सदृष्टान्तमाह ।। भेषजत्वेनेति ।। अनिर्णीतप्रामाण्ये पाशुपताद्यागमे क्वचित्फासंवादेऽपि न प्रामाण्यमित्येतत् सदृष्टान्तमाह ।। अपथ्यत्वेन निर्णीतादिति ।। न च अन्योन्याश्रयः इति ।। वेदस्य प्रामाण्ये सिद्धे वाचा विरूपेत्यादिना अपौरुषेयत्वसिद्धिः, तत्सिद्धौ चानाशङ्कितदोषत्वेन प्रामाण्य-सिद्धिरिति वा प्रकारान्तरेण वा अन्योन्याश्रयो द्रष्टव्यः ।। विसंवादेतरेति ।। विसंवादहेतुकमेवाप्रामाण्यं पूर्वपक्षिणोऽभिमतं न तु तद्विरहहेतुकमप्रामाण्यम् । तथा च वाचा विरूपनित्ययेत्यादिश्रुतेरप्रामाण्यं पूर्वपक्षिणा वक्तुं न शक्यते विसंवादाभावात् । एवं चैतच्छतिबोन सर्वस्य वेदस्यापौरुषेयत्वेन प्रामाण्ये सिद्धे संवादोऽन्यथासिद्धः कल्पनीय इति भावः ।। अत एव बाधान्यथासिद्ध्योः दूषणत्वेनाभिप्रेतत्वादेव । तथात्वं च शब्दादित्यस्यैव अर्थान्तरमाह ।। संवादानपेक्षत्वरूपं त्विति ।। योजितमित्यस्याद्यं सूत्रमित्यनेन पूर्वेण सम्बन्धः । प्रामाण्यग्रहणे निश्शङ्कप्रवृत्त्यर्थं प्रामाण्यग्रहणस्थो संवादस्य व्यभिचारस्थाकथनपूर्वकं बाधस्याप्रामाण्येऽव्यभिचारं व्युत्पादयति ।। यथा सुखादीति ।। अन्यहेतुकस्येति । सर्ववेदाप्रामाण्योपपादकहेतुकस्येत्यर्थः ।