अत्र चाद्ये सूत्रे पूर्वाधिकरणोक्तसाधकैरेवेहापि..
अद्वैतमतपरीक्षा
तात्पर्यचन्द्रिका
अत्र चाद्ये सूत्रे पूर्वाधिकरणोक्तसाधकैरेवेहापि ब्रह्मपरत्वसिद्धेर्बाधकमात्रमुद्धृतम् । तत्र च ‘‘सङ्ख्योपसङ्ग्रहा’’ दित्यनेनोक्ताया बहुत्वानुपपत्तेः ‘‘नानाभावा’’दित्यनेन निरासः । अपिशब्दसमुच्चितायास्त्वाधारत्वाद्यनुपपत्तेः । ‘‘अतिरेकाच्चे’’त्यनेन । द्वितीये के ते पञ्चत्वाश्रयभगवद्रूपविशेषा इति शङ्कायां तेषां मुखत उक्तिः । सिद्धान्तसाधकोक्तिस्त्वर्थात् । तृतीये तु शाखान्तरेपि पञ्चत्वसम्पादनमिति सूत्रक्रमः । अत्र ‘‘यस्मिन्पञ्च पञ्चजना’’ इति मन्त्रस्य शाखाद्वयेप्येकपञ्चकपरत्वाय ज्योतिरन्नशब्दयोरेकार्थत्वं वा तयोर्भिन्नार्थत्वाय शाखाभेदेन पञ्चकद्वयं वेति द्रष्टव्यम् ।
अन्येतु । ‘‘यस्मिन्पञ्च पञ्चजना आकाशश्च प्रतिष्ठित’’ इति वाक्ये समस्तेन पञ्चजनशब्देनोक्तानां समाहाराणामसमस्तेनान्येन पञ्चशब्देन पञ्चत्वसङ्ख्यान्वयः प्रतीयते । एवं च पञ्च पञ्चकानि पञ्चविंशतिः सम्पद्यते । यथा पञ्चपञ्चपूल्य इत्यत्र पञ्चविंशति पूल्यः । पञ्चजना इति पुल्लिङ्गं तु छान्दसम् । तस्मात्पञ्चविंशतितत्वानामुपसङ्ग्रहात्प्रधानादीनां श्रुतिमत्त्वमिति प्राप्ते सिद्धान्तः न सङ्ख्योपसङ्ग्रहादपि प्रधानादीनां श्रुतिमत्त्वम् । कस्मात् । नानाभावात् । नाना ह्येतानि पञ्चविंशति तत्वानि । नैषां पञ्चशः पञ्चशः साधारणधर्मोस्ति । येन पञ्चविंशतेरन्तराले पञ्चपञ्च सङ्ख्याः निवेशेरन् । नह्येकं निबन्धनं विना नानाभूतेषु द्वित्वादिका सङ्ख्याऽस्ति । अतिरेकाच्च । अतिरेकोऽपि भवत्यात्माकाशाभ्यां पञ्चविंशतिसङ्ख्यायाः । आत्मनो हि पञ्चविंशतावन्तर्भावे यस्मिन्नित्यधिकरणत्वोक्तिविरोधः । आकाशस्य तु पृथगुक्तिविरोध इत्याहुः । तत्र ब्रूमः ।
पञ्चविंशतितत्वानि श्रुतिस्मृतिसमाजतः ।
प्रमितान्यपलप्यन्ते कथं वैदिकमानिना ।। १ ।।
किं पञ्चविंशति तत्वान्येवाप्रामाणिकानि किं वैतद्वाक्यं न तत्परम् । नाद्यः । ‘‘तं षडि्वंशमिति प्राहु’’रिति ‘‘तन्मात्राणि भूतादौ लीयन्ते भूतादिर्महति महानव्यक्ते लीयत’’ इति ‘‘यस्याहंकारः शरीरं यस्य बुद्धिः शरीरं यस्याव्यक्तं शरीर’’मित्यादिश्रुतिभिः, पञ्चभिः पञ्चभिर्ब्रह्म चतुर्भिर्दशभिस्तथा । एतच्चतुर्विंशतिकं गणं प्राधानिकं विदु’’रिति ‘‘त्रिविधोयमहंकारो महत्तत्वादजायते’’त्यादिस्मृतिभिश्च पञ्चविंशतितत्वानां प्रमितत्वात् । नांत्यः । अस्माकमविरोधात् । तावता तेषामशब्दत्वासिद्धेश्च । यच्चोक्तं नानाभावादिति तन्न । पृथिव्यादिषु भूतत्वस्य शब्दादिषु तन्मात्रात्वस्य घ्राणादिषु बाह्यज्ञानेन्द्रियत्वस्य वागादिषु कर्मेन्द्रियत्वस्य महदहंकारमनःप्रकृतिपुरुषेषूक्तविंशत्यन्यत्वस्य चोपसङ्ग्राहकस्य सत्त्वात् । अन्यथा ‘‘पञ्चभि’’रित्यादिस्मार्तनिर्देशस्याप्ययोगात् ।
प्रकाशिका
अत्र चाद्य इति ।। ग्रन्थस्य वादकथारूपेण प्रवृत्तत्वादादौ स्वपक्षसाधकोक्तया भाव्यम् । पश्चाद्बाधकनिरासेन । तथैवानन्दमयनयादिषु पूर्वत्र त्रिपाद्यामुक्तेर्द्वितीयस्यादौ निवेश आद्यस्य पश्चादित्यतो वा न्यूनत्वाशङ्कया वाह ।। पूर्वेति ।। ‘‘ज्ञेयत्वावचनात् । महद्वच्च । चमसवदविशेषात् । तथाह्यधीयत एक’’ इत्युक्तहेतुभिरित्यर्थः । तथाच वक्ष्यत्युत्तराधिकरणटीकायां टीकाकारः ‘‘नामानि सर्वाणीत्याद्युक्तरीत्या सिद्धेऽखिलशब्दसमन्वये तत्र प्रतीतविरोधाभासनिरासेनैव सूत्रकृतश्चरितार्थत्वात् । यत्तु विशेषं च वक्ति स त्वधिको लाभ’’ इतीति भावः । अपिशब्देति ।। यद्यपि टीकायां ‘‘अपिपदेन पूर्वसूत्राद्विरोधपदाकर्षण’’मित्युक्तम् । तथापि तत्वप्रदीपे ‘‘तेषां बहुसङ्ख्यानां न विष्णुत्वमिति न मन्तव्य’’मित्युक्तया तदनुवृत्त्यर्थत्वाप्रतीतेस्तदनुरोधेन वा अपिपदस्य विरोधपदाकर्षण सूचकत्वेप्यन्यार्थसमुच्चायकत्वमविरुद्धमिति भावेन वैतदुक्तम् । तथाचोक्तं ग्रन्थकृतैव ‘‘प्राणभृच्चे’’त्यत्र ‘‘चशब्दो न केवलं टीकोक्तरीत्या पूर्वोक्तहेतूनां नञश्चानुकर्षणार्थः । किं तु वायुसमुच्चयार्थोपीति द्रष्टव्य’’मिति । एतेन अत्र विरोधपदानुवृत्तौ नेत्यवक्तुं शक्यम् । पूर्वसूत्रादविरोधपदस्यैवाक्लेशेनानुवर्तनसम्भवादिति निरस्तम् । सङ्ख्योपसङ्ग्रहादपि न षष्ठीनिर्दिष्टप्राणादयः पञ्चजनश्दार्थः । तेषां प्रत्येकं नानाभावादिति प्रागुक्तरीत्याऽर्थान्तरस्याप्यभिमतत्वात् । अविरोधपदाकर्षे ‘‘सङ्ख्योपसङ्ग्रहा’’दिति पञ्चम्यंतस्य समासे गुणभूतविरोधपदेनान्वयासामर्थ्याच्चेति ।। इति शङ्कायामिति ।। तथा च तस्य द्वितीयत्वं युक्तमिति भावः । ननु टीकायां ‘‘यदि पञ्चजनादीनां विष्णुत्वे भवेद्विशेषहेतु’’ रित्यवतारितत्वात्कथमेवमित्यत आह ।। सिद्धान्तेति ।। प्राणप्राणदत्वादिरूपसिद्धान्तसाधकोक्तिरित्यर्थः ।। तृतीय इति ।। माध्यन्दिनशाखायामन्नेन सह पञ्चत्वोक्तावपि काण्वशाखायां चतुर्णामेवोक्तया न वाक्यशेषोक्तप्राणादीनां पञ्चजनत्वमित्याशङ्क्य एकेषामन्ने अन्नस्यान्नत्वप्रदातृरूपे । असत्यपि ‘‘तद्देवा ज्योतिषां ज्योति’’रिति पूर्ववाक्योक्तज्योतिषां पञ्चत्वसम्भवादित्युक्तेरिति भावः । ‘‘अत्र ज्योतिरन्नशब्दयोरेकार्थत्वं पृथक्पञ्चकं वेत्युपपन्न’’मिति टीकां व्यनक्ति ।। अत्रेति ।। शाखेति ।। तत्तच्छाखिभिस्तथा तथोपासनं कार्यमिति व्यवस्थितविकल्पेन तदुक्तिरित्यर्थः । यदत्र केनचिद्रामानुजीयेनोक्तं यस्मिन्निति मन्त्रपदानामपि ज्योतिर्नयन्यायेनावयवव्युत्पत्या ब्रह्मपरत्वसम्भवान्न समन्वयसूत्राक्षेपः पूर्वपक्षे युक्तः । सिद्धान्ते च पञ्चजनशब्दस्य द्वितीयांतनिर्दिष्टप्राणादिपरत्वोक्तिरयुक्ता । आधेयतयोपसर्जनपरस्य पञ्चजनशब्दस्योपसर्जनीभूतविशेष्याकाङ्क्षस्य नियम्यत्वेनोपसर्जनप्राणादिपरत्वस्यैव युक्तत्वात् । न सङ्ख्येति सूत्रेच नेति व्यर्थम् । अविरोधपदस्यैवानुवृत्तिसम्भवादिति । तत्तु ग्रन्थतात्पर्याज्ञानविजृम्भितमित्ययुक्तम् । ज्योतिर्नयन्यायेन पदसमन्वयसम्भवेऽपि तदनधिकार्यपेक्षितवाक्यमर्यादापक्षमुपेत्यैवेह पूर्वपक्षे समन्वयसूत्राक्षेपात् । आधेयतया निर्देशमात्रेणोपसर्जनत्वे भूमप्रकरणे ‘‘स एवाधस्तात्स एवोपरिष्टा’’दित्यादिना भूम्नोऽप्याधेयत्वश्रवणात् आथर्वणे च ‘‘ब्रह्मदक्षिणतो ब्रह्मोत्तरत’’ इत्यादिना ब्रह्मण आधेयत्वश्रवणादुपसर्जनत्वं स्यात् । ‘‘यः पृथिव्यां तिष्ठन्योप्सुतिष्ठ’’न्नित्यादिनांतर्यामिणोऽप्याधेयत्वोक्तेस्तथात्वं स्यात् । नियम्यतयाऽऽधेयत्वं च नात्र श्रुतम् । वाक्यशेषस्य पञ्चजनस्वरूपविवेचनार्थं वृत्तत्वेन षष्ठ्यन्तनिर्दिष्टानामेव पञ्चजनत्वे ‘‘प्राणं चक्षुश्श्रोत्रमन्नं मन’’ इत्युक्तयैव पूर्तौ वाक्यशेषे ‘‘प्राणस्य प्राण’’मित्याद्युक्तिर्व्यर्था । अस्मन्मते तु पञ्चजनशब्देन शरीररूपकविन्यस्तेति न्यायेन प्राणादिषु नियामकतया स्थितभगवद्रूपाणामेव गृहीतत्वेन तद्विवेचनाय सार्थक्यम् । षष्ठ्यन्तनिर्दिष्टप्राणादेः पञ्चजनत्वे तृतीयसूत्रस्थैकवचननिर्देशविरोधो ग्रन्थ एवाग्रे स्पष्टः । सूत्रे सङ्ख्योपसङ्ग्रहादपि न षष्ठ्यन्तोक्तप्राणादयः पञ्चजनाः । तेषां प्रत्येकं नानात्वात्पञ्चत्वानुपपत्तेरित्याद्यर्थान्तरस्याप्यनुमतत्वेन नञस्सार्थक्यमुक्तमेवेति ।।
अन्येत्विति ।। एवं परिहृतेप्यजामन्त्रे पुनरप्यन्यस्मान्मन्त्रात्साङ्ख्यप्रत्यवस्थाने तन्निरासार्थमिदमित्युक्त्वा ‘‘यस्मिन्पञ्च पञ्चजना’’ इति मन्त्रः किं साङ्ख्याभिमत प्रधानादितत्वपरोऽथार्थान्तरपर इति सन्दिह्य पूर्वोत्तरपक्षावुक्तौ । तौ सुधां विवृण्वन्ननुवदति ।। यस्मिन्निति ।। समस्तेन समासं प्राप्तेन । नायं पञ्चजनशब्दः ‘‘दिक्सङ्ख्ये संज्ञाया’’मिति समासविधानात् ‘‘स्युः पुमांसः पञ्चजना’’ इत्यमरोक्तेश्च रूढ्या मनुष्यवाची । यस्मिन्पञ्चमनुष्या आकाशश्च प्रतिष्ठित इति वदतो वाक्यस्य निस्तात्पर्यप्रसङ्गात् । सर्वस्यैवात्मनि प्रतिष्ठितत्वात् । किं तु रूढित्यागेन जायन्त इति जना इति कल्पतरूक्तयोगेन जनशब्दस्तत्वपरः । तथापि पञ्चानां जनानां समाहारः पञ्चजना इति समस्तेन पञ्चजनशब्देन पञ्चसङ्ख्याकास्तत्वसमुदायाः प्रतीयन्ते । ते कतीत्याकाङ्क्षायामसमस्तेन पृथक्स्थितेन पञ्चेत्यनेनान्वयः प्रतीयत इत्यर्थः ।। यथेति ।। पञ्चानां पूलानां समाहारः पञ्चपूली । पञ्चपूल्यः पञ्चेत्युक्ते पञ्चविंशतिः प्रतीयते यथा तथेत्यर्थः । ननु समाहारपक्षे ‘‘सङ्ख्यापूर्वोद्विगु’’रिति द्विगुसंज्ञायां ‘‘द्विगो’’रिति ङीपि सति पञ्चजनीति स्यादित्यत आह ।। पुल्लिङ्गं त्विति ।। उपसङ्ग्रहादिति ।। श्रुतिसिद्धया सङ्ख्यया तेषां स्मृतिसिद्धानामुपसङ्ग्रहादित्यर्थः । श्रुतिमत्त्वमिति ।। तथा च प्रागुक्तमशब्दत्वमयुक्तमित्यर्थः। सूत्रशेषस्यार्थमाह ।। अतिरेकाच्चेति ।। आत्माकाशौ हित्वैव वक्ष्यमाणदिशा पञ्चविंशतिसङ्ख्यापूर्तेरिति भावः ।। आत्मान इति ।। आकाशस्य चेत्यपि ग्राह्यम् । एतेन ‘‘तथाही’’त्यादिपरमतानुवादसुधाग्रन्थो विवृतः । सुधोक्तं दूषणं सङ्गृह्याह ।। पञ्चेति ।। सुधोक्तदिशा विकल्पपूर्वं श्लोकं व्याचष्टे ।। किमिति ।। ‘‘तं षडि्वंशकमित्याहुः सप्तविंशमथापरे । पुरुषं निर्गुणं साङ्ख्यमथर्वशिरसो विदु’’रित्याथर्वणिकानां श्रुतिः । तन्मात्राणीति शब्दादीनि । भूतानामादिर्भूतादिरहंकारः ।। यस्येति ।। ‘‘यस्याहंकारः शरीरं योऽहंकारमन्तरे सञ्चरन्यमहंकारो न वेद । यस्य बुद्धिः शरीरं यो बुद्धिमन्तरे सञ्चरन्यं बुद्धिर्नवेद । यस्य चित्तं शरीरं यश्चित्तमन्तरे सञ्चरन्यं चित्तं न वेद । यस्याव्यक्तं शरीरं योऽव्यक्तमन्तरे सञ्चरन्यमव्यक्तं न वेदे’’त्यादिसुबालोपनिषच्छतिः ।। पञ्चभिरिति ।। इदं चात्रैवानुव्याख्यानोदाहृतभागवतवाक्यं कापिलेयगतम् । पञ्चभिर्महाभूतैः पञ्चभिस्तन्मात्राभिर्महदहंकारमनोबुद्धिभिर्दशभिरिन्द्रियैश्च ब्रह्मपूरितमेतच्चतुर्विंशतिकं गणं प्रधानकार्यं विदुरिति सुधोक्तार्थः । ‘‘सात्विको राजसश्चैव तामसश्च त्रिधा महान्’’ । त्रिविधोयमिति पूर्वशेषः ।। तावतेति ।। ‘‘यस्मि’’न्निति वाक्याप्रतिपाद्यत्वमात्रेणेत्यर्थः । सूत्रार्थमपि सुधोक्तविवरणेन निराह ।। यच्चेत्यादिना ।। अन्यथेति ।। एवं क्रोडीकारकधर्मानिरूपणे सूत्रकारस्याप्येवमन्यत्र निरूपणं न स्यात् । व्याहतिप्रसङ्गादित्यर्थः । एतेन ‘‘न हि तन्त्रसिद्धेषु तत्वेषु पञ्चसु पञ्चस्वनुगतसङ्ख्यानिवेशनिमित्तं जात्याद्यस्ती’’ति रामानुजभाष्योक्तं प्रत्युक्तम् ।
चन्द्रिकाबिन्दुः
पूर्वाधिकरणोक्तसाधकैरिति ।। ज्ञेयत्वावचनादिसाधकैरित्यर्थः ।। सिद्धान्तसाधकोक्तिस्त्वर्थादिति ।। प्राणप्राणदत्वलक्षणसिद्धान्तयुक्तिस्तु अर्थाल्लभ्यते सूत्रेण । अतो न पूर्वभावः । एतस्य साधकार्थं प्रवृत्तसूत्रत्वेन पूर्वभावो दुर्वार इति भावः । अत्र ज्योतिरन्नशब्दयोरेकार्थत्वं वा पृथक् पञ्चकं वेति टीकावाक्यार्थमाह ।। अत्र यस्मिन्निति ।। एकपञ्चकपरत्वायेत्यनेन ज्योतिरन्नशब्दयोरेकार्थत्व कथनस्य प्रयोजनमुक्तं भवति ।। समस्तेन पञ्चजनशब्देनेति ।। ननु पञ्चजना इत्यत्र असमासेनौपपत्तौ समासज्ञापकं किमस्तीति चेत् शतपथब्राह्मणे अन्तानुदात्ताद्युदात्तशब्दस्य समासत्वमिति निर्णयः । पञ्चजना इति शब्दश्च अन्तानुदात्तः आद्युदात्तव्यञ्जनत्रयगताकारवान् । ततश्च समासः । इदं च न प्रसिद्धव्याकरणरीत्या इत्यादिकं शाङ्करभाष्य एवोक्तम् । तत एव सम्यगनुसन्धेयम् । ‘अकारान्तो द्विगुः स्त्रियामिष्ट’ इति वचनात् कथं पञ्चजना इति पुंलिङ्गमित्यत आह ।। पुंलिङ्गं त्विति ।। अस्मत्सिद्धान्ते पञ्चपञ्चेति वीप्सा । एवं च प्रतिशरीरं प्राणादिनियामकानि प्राणादिरूपाणि लभ्यन्ते । शङ्करभाष्योक्तसमासाश्रयणं तु तत्प्रागेव विद्यमानेऽपि प्रकृते छान्दसत्वादिना समाधेयं यथा पुंलिङ्गमित्यादि स्वामिनः ।।
अतिरेकोऽपि भवतीति ।। पञ्चविंशतिसङ्ख्याया इति षष्ठी । तस्या अतिरेको नामाधिक्यम् । अयं भावः । यस्मिन् पञ्चपञ्चजना इति वाक्ये आत्माकाशौ पृथगेव गृहीतौ । तद्व्यतिरिक्तानि च तत्वानि, पञ्चविंशतिरित्येव स्यात् । पञ्चजनशब्देन च पञ्चपञ्चकानि पञ्चविंशतितत्वानि प्रतिपाद्यानि । एवं पञ्चविंशतितत्वग्रहणं न पञ्चपञ्चजनशब्देन कर्तुं शक्यते आधिक्यप्रसङ्गादिति । एवमेव सुधाया अभिप्रायः । ननु पञ्चपञ्चजना इत्यनेनैवात्माकाशयोरपि ग्रहणमङ्गीक्रियते । अतो न सङ्ख्याधिक्यमित्यत आह ।। आत्मनो हि पञ्चविंशताविति ।। विरोधः आत्मनः आत्माधारत्वांशे । तेषां प्रधानादितत्वानां ।। बाह्यज्ञानेन्द्रियत्वस्येति ।। एवं च सुधास्थज्ञानेन्द्रियपदं बाह्यज्ञानेन्द्रियत्वपरतया व्याख्येयम् । अन्यथा मनसः पृथगनुक्तिप्रसङ्ग इति सूचितम् ।
पाण्डुरङ्गि
ननु साधकोक्तयनन्तरमेव बाधकोद्धारः सङ्गतः । तत्कथं साधकमनुक्त्वैव बाधकमेव प्रथममुद्धृतमित्यत आह ।। अत्र चेति ।। ननु टीकायां द्वितीयं सूत्रं साधकोक्तिपरतया व्याख्यातम् । तत्कथं प्रकारान्तरेण व्याख्यायत इत्यत आह ।। द्वितीय इति ।। ननु पञ्चजना इत्ययुक्तम् । समाहारस्यैकत्वादेकवचने क्लीबताचेति क्लीबत्वे च पञ्चजनमिति भवितव्यम् । न चाकारान्तोत्तरपदो द्विगुःस्त्रियामिष्ट इति स्त्रीलिङ्गप्राप्त्या कथं नपुंसकत्वमापाद्यत इति वाच्यम् । पात्रादौ निषेधेन स्त्रीलिङ्गबाधात् । तथा चापवादापवादात्पुनरुत्सर्गस्योत्थितिरिति न्यायेन नपुंसकत्वं स्यादित्यत आह ।। पञ्चजना इति पुल्लिङ्गं त्विति ।। अस्माकमिति ।। अस्माभिर्यस्मिन्पञ्चजना इति वाक्ये पञ्चविंशतितत्वानां प्रतिपाद्यत्वानभ्युपगमात् ।। तावतेति ।। यस्मिन्पञ्चजना इति वाक्याप्रतिपाद्यत्वेऽपीत्यर्थः । वाक्यान्तरप्रतिपाद्यत्वाभावाभावादिति भावः ।