सङ्गतिमाह

संज्ञामूर्तिक्लृप्त्यधिकरणम्

तात्पर्यचन्द्रिका

।। ॐ संज्ञामूर्तिक्लृप्तिस्तु त्रिवृत्कुर्वत उपदेशात् ॐ ।।

सङ्गतिमाह ।। तत्प्रसङ्गसन्निधापितमिति ।। न केवलं चिताविषयस्य शरीरस्य प्राणाश्रयत्वात्पेटिकाधिकरणसङ्गती । किन्तु विरिञ्चस्य मुख्यप्राणत्वाच्चेत्यपि द्रष्टव्यम् । अत्र पूर्वोक्तं विष्णोः सर्वस्रष्टृत्वं ‘‘विरिञ्चो वा इदं सर्वं विरेचयती’’ति विरिञ्चस्य सर्वत्र स्रष्टृत्वश्रुतिविरुद्धं न वेति चिन्ता । तदर्थं विरिञ्चस्य स्रष्टृत्वश्रुतिः किं विरिञ्चस्य स्वातन्त्र्येण सर्वस्रष्टृत्वाभिप्राया किं वा कतिपयपदार्थसृष्टौ विरिञ्चस्य द्वारत्वमात्राभिप्रायेति । तदर्थं सर्वस्रष्टृत्वं किं त्रिवृत्कुर्वतोऽप्युत त्रिवृत्कुर्वत एवेति । तदर्थं रूपादिकं किं त्रिवृत्करणानपेक्षमुत तत्सापेक्षमिति ।

अन्ये तु नामरूपव्याकरणं जीवकर्तृकम् । ‘‘अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणी’’ति श्रुतेरिति प्राप्ते ईश्वरकर्तृकम् । ‘‘सेयं देवते’’त्युपक्रम्य ‘‘नामरूपे व्याकरवाणी’’त्युत्तमपुरुषोपदेशात् । ‘‘जीवेने’’त्येतत्तु ‘‘अनुप्रविश्ये’’ त्यनेन सम्बध्यते । न तु ‘‘व्याकरवाणी’’त्यनेनेत्याहुः । तन्न । जीवेश्वरशब्देन नामरूपवद्विशिष्टविवक्षायां तस्य स्वनामरूपकर्तृत्वाभावात्, चिन्मात्रविवक्षायाञ्च तस्याकर्तृत्वाज्जीवकर्तृत्वपूर्वपक्षस्य ईश्वरकर्तृत्वसिद्धान्तस्य चायोगात् । जीवभावस्य प्रतिबिम्बनरूपप्रवेशाधीनत्वेन जीवरूपेण प्रवेशोक्तययोगाच्च ।।

प्रकाशिका

पेटिकेति ।। प्राणचिन्तापेटिकायां तदाश्रयशरीरचिन्ताया अन्तर्भावसङ्गतिः पूर्वाधिकरणेनानन्तरसङ्गतिश्चेत्यर्थः । यद्वा प्राणपेटिका प्राक्तनी सर्वापि चिन्तेति तदनन्तरसङ्गतिः पूर्वाधिकरणानन्तरसङ्गतिश्चेत्यर्थ इति द्रष्टव्यम् ।। किन्तु विरिञ्चस्येति ।। एतच्च ‘‘न चात्र चतुर्मुखस्याप्रसक्तिराशङ्कनीया । स्वयमेवायं भगवान् प्राणत्वादूर्ध्वं चतुर्मुखपदमधिष्ठास्यतीति ज्ञापयन् प्राणस्वरूपनिरूपणावसरे चतुर्मुखं प्रसञ्जयती’’ति तत्वप्रदीपोक्तं ध्येयम् । पूर्वोत्तरपक्षटीकासूचितचिन्ता आह ।। अत्रेति ।। स्पष्टः फलफलिभावः । मतद्वयेऽपि संज्ञेत्यादिसूत्रत्रयमेकमधिकरणम् ।। जीवकर्तृकमिति ।। लोके डित्थादिनामकरणे घटादिरूपकरणे च जीवस्य कर्तृत्वदर्शनाच्छतेश्चेति भावः ।। उत्तमपुरुषेति ।। ‘‘व्याकरवाणी’’ति लोडुत्तमपुरुषप्रयोगेण देवताया एव नामरूपव्याकर्तृत्वप्रतीतेरित्यर्थः । चिन्मात्रपक्षे दोषान्तरमाह ।। जीवेति ।। तत्रापि चिन्मात्रस्य सत्त्वेन तदितरकर्तृत्वसिद्धान्तो न युक्त इत्यर्थः । श्रुतिगत्युक्तिं च निराह ।। जीवभावस्येति ।।