सिद्धान्ते त्वयं भावः
सिद्धान्ते पञ्चरात्रादिस्मृतिप्राबल्य समर्थनं
तात्पर्यचन्द्रिका
सिद्धान्ते त्वयं भावः
प्रतिरुन्धे स्मृतिस्तावत्परामर्शे तु बाधते ।
श्रुतिः सस्मृतिकाऽत्यंतं बाधतेऽन्यस्मृतीः पुनः ।। १ ।।
आपाततस्तावच्छ्रौतस्मृतिः शैवादिस्मृतीः प्रतिरुन्धे । विष्ण्वादिसार्वज्ञादेरपि लोकप्रसिद्धत्वेन तत्स्मृतेर्विस्पष्टत्वेन च तुल्यबलत्वात् । सिद्धान्तीष्टं तु शैवादिस्मृतिषु वैदिकस्मृतिभिः प्रतिरुद्धास्वप्रतिबद्धश्रुतिभिरेव सेत्स्यति । विमर्शे तु ‘‘नित्यवृद्धिक्षयापेत’’मित्यादिना विष्णोरनुपचरितसर्वज्ञत्वात्तदुक्तस्य श्रुतिसंवादित्वाच्च नितरामाप्तत्वात्प्रबला तत्स्मृतिरन्यस्मृतीर्बाधते । परोक्तरीत्या श्रुतेः शैवादिस्मृतितो दुर्बलत्वेऽपि प्रमाणत्वाद्युक्तस्तत्संवादेन शिवादिभ्योऽपि विष्णोराप्तत्वनिश्चयः । युक्तिसंवादरहितार्थकथकादपि तत्संवाद्यर्थकथकस्येव । अतिविमर्शे तु शैवादिस्मृतेः समबलाभिरधिकबलाभिर्वा श्रौतस्मृतिभिः सहितया श्रुत्याऽतिबाधः । अश्वेन गजेन वा सहितेन पदातिनाऽश्वस्येव । शैवादिस्मृतीनां तु न श्रुतिसंवादो न वा तत्सहायत्वम् । श्रुतीनां विष्णौ समन्वयस्योक्तत्वात् । अत्र च स्मृत्या स्मृतिबाधप्रतिरोधौ सौत्रपरिहारभागस्थस्मृतिशब्दवाच्यार्थानुसारिणौ । श्रुत्या स्मृतिबाधस्तूक्तस्य श्रुतिसमन्वयस्य स्मृतिविरोधे शङ्किते श्रुतिं त्यक्त्वा प्रतिस्मृतिमात्रोक्तेरयुक्तत्वात् सूत्रे च स्मृत्युपन्यासस्य श्रुतिप्राबल्यार्थत्वेनोपपत्तेः सूत्राभिप्रायानुसारी । तत्र प्रतिरोधो ‘‘मानं ह्युभयत्र समं भवे’’दित्यनुव्याख्याने ‘‘तथा च पाशुपतादिस्मृतीनां सत्प्रतिपक्षत्व’’मिति सुधायां चोक्तः ।
बाधस्तु ‘‘नितरां सर्वज्ञै’’रिति भाष्ये ‘‘रुद्रादीनां सकाशाद्विष्ण्वादीनामेवाप्तत्वम् । श्रुत्यनुसारित्वा’’दिति न्यायविवरणे ‘‘परमाप्तै’’रिति टीकादौ चोक्तः ।
अतिबाधस्तु ‘‘श्रुतेराधिक्यं सिध्यती’’ति भाष्ये ‘‘सुतरां तत्साहाय्यवत्या श्रुत्ये’’त्यादिटीकादौ चोक्तः । उत्तराधिकरणन्यायेन तु श्रुतेरनाशङ्कितदोषतया स्वत एवाधिक्यसिद्धौ शैवादिस्मृतीनामतितरां बाधः ।
शास्त्रयोनिसूत्रे भाष्योक्तरीत्या च ‘‘त्वं च रुद्र महाबाहो मोहशास्त्राणि कारये’’त्यादि वाराहे ‘‘स्वागमैः कल्पितैस्त्वं च जनान् मद्विमुखान् कुर्वि’’त्यादि पाद्मे ‘‘पाषण्डवामशैवाद्यैर्वेदमार्गाः कलौ यथे’’त्यादि भागवते ‘‘शैवान् पाशुपतांश्चैव लोकायतिकनास्तिकानि’’त्यादिस्मृतिषु च साक्षादप्रामाण्योक्तेः । तथा ‘‘अन्यागमेषु विप्रत्वमपि चण्डालजन्मनाम् । मण्डलान्तःप्रवेशेन क्रमशः प्रतिपाद्यत’’ इत्याद्यनुव्याख्यानोक्तरीत्या श्रुतिविरोधाद्धेतुदर्शनाच्च विरोधाधिकरण हेतुदर्शनाधिकरणन्यायविषयत्वेनातितमां बाधः । शास्त्रयोनिसूत्रेणास्यागतार्थत्वं त्वस्माभिस्तत्रैवोक्तम् । पञ्चरात्रप्रामाण्यं तु शास्त्रयोनिसूत्रे भाष्य एवोक्तम् । वक्ष्यते च ‘‘उत्पत्त्यसम्भवा’’दित्यत्र ।
न च रुद्रादेराप्तत्वे मानमस्ति । बुद्धादिसार्वज्ञादावपि बहुजनप्रसिद्धेः सत्त्वात् । सर्वेऽपि हि तस्य तस्याचार्यस्य सार्वज्ञादिकमाहुः । सार्वजनीनप्रसिद्धिस्तु न शिवादावपि । बहुजनपरिग्रहोऽप्युभयत्र समः । न च परस्परविरुद्धाः शैवादिस्मृतयः सर्वा अपि प्रमाणम् । न चेयमेव प्रमाणं नान्येत्यत्र हेतुरस्ति । न च शैवाद्युक्तदृष्टार्थकर्मानुष्ठाने फलसंवादाच्छिवादेराप्तिसिद्धिः । क्वचित्तदुक्तदृष्टार्थकर्मानुष्ठानेऽपि फलस्य विसंवादात् । प्रामाण्यस्य हेत्वंतरेण सिद्धावेव च वैगुण्यनिमित्तकता विसंवादस्य । न तु संवादेनैव सिद्धौ । अन्योन्याश्रयात् । क्वचित्संवादस्तु काकतालीयः । लोकव्यामोहनाय गुडजिह्विका वा । श्रुतेस्तदनुसारिस्मृतेश्चापौरुषेयत्वादिना प्रामाण्ये सिद्धे विसंवादो वैगुण्यादिनैवेत्युत्तराधिकरणे वक्ष्यत इति ।। प्रत्यक्षयोग्यत्वमितरेषामित्यनेनोच्यत इति ।।
न विद्यत उपलब्धिर्यस्यासावनुपलब्धिरुपलब्ध्ययोग्यः । तस्मादितरेषां उपलब्धियोग्यानां फलानाम् । अनुपलब्धेः अनुपलम्भादित्येवं सौत्रानुपलब्धिशब्दः काकाक्षिवदुभयत्रान्वेतीति भावः । अथवा पूर्वसूत्रे यस्मिन् प्रत्यक्षायोग्ये जगत्कारणत्वादौ स्मृतिविरोधः शङ्कितस्तदितरेषां प्रत्यक्षयोग्यानामनुपलब्धेरिति सूत्रार्थः । कथमन्यथाऽनुपलब्धिमात्रेणासत्त्वसिद्धिरिति भावः । ‘‘एतेने’’ति सूत्रातिदेशोपयुक्तामधिकां शङ्कां दर्शयति ।। न तथापीत्यादिना ।। न चैवं परमत इवेदं सूत्रमधिकरणान्तरं स्यादिति युक्तम् । ‘‘नान्यस्मृती’’ति सौत्रप्रधानहेतावधिकाशङ्कादेरभावात् । आद्यसूत्रस्थस्मृतिशब्देन योगस्मृतेरपि गृहीततयाऽधिकरणान्तरत्वायोगाच्चेति दिक् ।
प्रकाशिका
अत्र सिद्धान्तटीकायामवैदिकस्मृतेर्बाधादिति बाधमात्रोक्तिप्रतीतावप्यन्यत्रोक्तं प्रतिरोधपक्षमुपलक्षणत्वेनोपादाय सिद्धान्तप्रमेयं सङ्गृह्याह ।। प्रतिरुंध इति ।। श्लोकं व्याचष्टे ।। आपातत इति ।। श्रौतेति ।। श्रुत्यनुसारिणी पञ्चरात्रादिस्मृतिरित्यर्थः । एतेन ‘‘श्रौतस्मृतिविरुद्धत्वा’’दित्यणुभाष्यसंवादः प्रतिरोधपक्षे सूचितो भवति ।। नित्यमिति ।।
नित्यं वृद्धिक्षयापेतं विष्णोः पूर्णं तु वेदनम् ।
स्पष्टातिस्पष्टविशदं ब्रह्मणोऽशेषवस्तुगम् ।
अन्येषां क्रमशो ज्ञानं मितवस्तुगतं सदा ।।
इति द्युभ्वादिपादीयानुव्याख्यानोक्तवचनेनेत्यर्थः ।। टीकादाविति ।। आदिपदेन सुधायामिति गृह्यते ।। भाष्योक्तरीत्येति ।। ‘‘अतोऽन्यो ग्रन्थविस्तारो नैव शास्त्रं कुवर्त्म तत् । साङ्ख्ययोगः पाशुपतं वेदारण्यकमेव चेत्यारभ्ये’’त्यादिनोक्तरीत्या साक्षादप्रामाण्योक्तेरित्यन्वयः ।। वाराह इति ।। जिज्ञासासूत्रभाष्योक्तमेतत् ।। पाद्म इति ।। प्रथमभारततात्पर्यनिर्णयोक्तमेतत् ।। भागवत इति ।। दशमस्कन्धे वर्षर्तुवर्णनप्रस्तावे ‘‘जलौघैर्निरभिद्यंत सेतवो वर्षतीश्वरे ।’’ पाषण्डेति पूर्वशेषः ।। इत्यादिस्मृतिष्विति ।। तत्र तत्र मूलग्रन्थोक्तासु । रागादिदोषप्रदर्शनाय ‘‘अन्यागमेषु विप्रत्व’’मित्युदाहरणम् । तदर्थस्सुधायां व्यक्तः । हेतुदर्शनात् रागादिरूपहेतुदर्शनाच्चेत्यर्थः ।। हेतुदर्शनाधिकरणेति ।। विवृतमेतत्समाकर्षनये । एवमाद्यसूत्रभाष्यटीकातात्पर्यमुक्त्वा ननु कथमाप्तोक्तानामवैदिकस्मृतीनामप्रामाण्यमिति टीकोक्तशङ्कां हृदि कृत्वा द्वितीयसूत्रभाष्यटीकातात्पर्यं ‘‘न चाप्तिनिश्चयस्तत्र शक्यते व्यभिचारत’’ इत्यनुव्याख्यानसुधां हृदि कृत्वा व्यनक्ति ।। न च रुद्रादेरिति ।। टीकोक्तं सूत्रारूढतया दर्शयति ।। प्रत्यक्षेति ।। तस्मात् उपलब्ध्ययोग्यात्पुरुषार्थादित्यर्थः । तेन फलविशेषणत्वेऽनुपलब्धिनः फलादितरेषामिति स्यादिति न शङ्क्यम् । यद्वा फलविशेषणत्वेऽपि ‘‘तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्ये’’ति पुंवद्भावादनुपलब्धेरिति साधु । जम्बूजनिश्रियस्सुमेरुृङ्गस्येतिवत् । ननु कथमनुपलब्धेरिति पञ्चमी । ‘‘विभाषा गुणेऽस्त्रिया’’मिति निषेधात् । सत्यम् । अत्रोक्तं मञ्जर्यां ‘‘विभाषा गुण इति योगविभागान्नास्तीह घटोऽनुपलब्धेरिति स्त्रियामपि क्वचिद्भवती’’ति ।। उपयुक्तामिति ।। अभ्यधिकाशङ्कामिति शेषः । क्वचिच्छङ्कामित्यपि पाठः ।। दिगिति ।। अयं भावः । यदि सौत्रप्रधानहेतावधिकाशङ्काभावो यदि चाद्यसूत्रस्थस्मृतिपदेन योगस्मृतेरपि ग्रहणं तर्ह्यतिदेशोऽपि न स्यादिति न शङ्क्यम् । टीकोक्तरीत्याऽधिकाशङ्कासद्भावेनातिदेशोपपत्तेरित्यादिशङ्कानुदयादिति । नन्वेतदाशङ्क्योक्तं भामत्यां ‘‘वेदस्येश्वरबुद्धिपूर्वकत्वस्य शास्त्रयोनिसूत्रेऽभिहितत्वात्कापिलस्मृतेरपि तथात्वेन वेदतुल्यत्वादनन्यपरत्वेन निरवकाशत्वात्तर्कानुसारित्वाच्च श्रुतिरन्यथा नेयेति पुनराक्षेप’’ इतीति चेन्न । वेदस्यापौरुषेयत्वेन बुद्धिपूर्वकत्वस्य प्रागेव निरासात् । दुर्बलस्य बाध्यतायां निरवकाशत्वस्य हेतुत्वात् । न हि शशशावको निरवकाश इति सिंहेन न बाध्यते । तर्कस्य चाप्रतिष्ठितत्वेन स्वयं दुर्बलत्वादिति भावः ।।
चन्द्रिकाविवृतिः
स्मृतिः पञ्चरात्रादिस्मृतिः । अन्यस्मृतीः पशुपतादिस्मृतीः । सुधोक्तं पञ्चरात्रादिस्मृत्या पाशुपतादि-स्मृतीनां प्रतिपक्ष इति पक्षं समबात्वव्युत्पादनपूर्वकं व्युत्पादयति ।। आपाततस्तावदिति ।। ननु प्रतिपक्षपक्षे सिद्धान्तीष्टं हरेर्जगत्कारणत्वं कथं सिद्ध्यतीत्यत आह ।। सिद्धान्तीति । पञ्चरात्रादिस्मृत्या पाशुपतस्मृतेर्बाधपक्षं टीकोक्तमुपपादयति ।। विमर्शे त्विति ।। तदुक्तस्य पञ्चरात्रादौ विष्णूक्तस्य । ननु पाशुपतस्मृत्यपेक्षया श्रुतेर्दुर्बलत्वात् कथं तत्संवादित्वेन विष्णोर्नितरामाप्तत्वनिश्चय इत्याशङ्कां सदृष्टांतं परिहरति ।। परोक्तरीत्या श्रुतेरित्यादिना ।। सस्मृतिकश्रुत्याऽतिबाध इति पक्षमुपपादयति ।। अतिविमर्शे त्विति ।। ननु शिवविषयश्रुतिरेव तत्साहचर्यादस्त्वित्यत आह ।। श्रुतीनां त्विति ।। श्रुत्या स्मृतिसहितश्रुत्या ।। ननु सस्मृतिकश्रुत्या बाध इति पक्षः सूत्रकारस्यानभिमत एव किं न स्यादित्यत आह ।। उक्तस्य श्रुतिसमन्वयस्येति ।। स्वयमिदानीमतितरां बाधमुपपादयति ।। उत्तराधिकरणन्यायेनेति ।। स्वत एवेति ।। पञ्चरात्रादिस्मृतिसाहाय्यं विनेत्यर्थः । श्रुतेः प्रामाण्यार्थं न पञ्चरात्राद्यपेक्षा । पाशुपतादिस्मृतिबाधे तु तदपेक्षाऽस्त्येव इति अतितरां बाध इति भावः । अतितमां बाधमुपपादयति ।। शास्त्रयोनिसूत्र इति ।। भाष्योक्तरीत्या श्रुत्यादिविरोधात् । अन्यागमेष्वित्याद्यनुव्याख्यानरीत्या हेतुदर्शनाच्चेति योजना ।
ननु शैवागमानां साक्षात् अप्रामाण्योक्तिवत्पञ्चरात्रागमस्य प्रामाण्यमपि साक्षान्नोक्तं किं इत्याशङ्क्य भाष्यादावुक्तमित्याह ।। पञ्चरात्रप्रामाण्यं त्विति । ननु पाशुपतादिस्मृतीनां आप्तरुद्रादिप्रणीतत्वेन पञ्चरात्रस्मृतिविरोधेनापि कथमप्रामाण्यं वक्तुं शक्यमित्यत आह ।। न च रुद्रादेरिति ।। व्यभिचार इत्येतत्पदव्याख्यावसरे सुधोक्तमाप्तत्वनिश्चयसाधनप्रकारं खण्डयति ।। बुद्धादीत्यादिना ।। तथा च न बहुजनकर्तृकसार्वज्ञ्यप्रसिद्धिः साधिकाविचारादिति भावः । बहुजनपरिगृहीतत्वेन साङ्ख्यपाशुपतादि-सर्वस्मृतिसाधारण्येन प्रामाण्यं साध्यते उत त्वदभिमतपाशुपतादिस्मृतेरेव । नाद्यः इत्याह ।। न च परस्परेति ।। न द्वितीय इत्याह ।। न चेयमेवेति ।। ननु विसंवादः वैगुण्यनिमित्तक इत्यत आह ।। प्रामाण्यस्य हेत्वन्तरेणेति । हेत्वन्तरेण वेदवदपौरुषेयत्वादिरूपेण ।। न त्विति ।। प्रकृते च संवादेनैव प्रामाण्यसिद्धिर्वक्तव्या पाशुपतादीनामपौरुषेयत्वाभावेनानाशङ्कितदोषत्वाभावादिति भावः । उभयत्र अध्याहृतसाध्ये इतरेषामित्यत्र च ।। अन्यथा उक्तरीत्या इतरेषामित्यस्य प्रत्यक्षयोग्यानामित्यर्थानङ्गीकारे ।। सौत्रप्रधानेति ।। सौत्रप्रधानहेतुर्हि अधिकरणन्यायः । तदविषयत्वोपपादनपूर्वकं अभ्यधिकाशङ्कायां हि अतिदेशस्याधिकरणान्तरत्वमिति भावः ।। आद्यसूत्रस्थेति ।। एवं चैतदधिकरणोपाधिना श्रुतिविरोधि-स्मृतित्वेन योगस्मृतेरपि गृहीतत्वेन नाधिकरणान्तरविषयत्वमिति भावः ।