अस्पृष्टदोषगन्धाय कल्याणगुणसिन्धवे
।। श्री वेदव्यासाय नमः ।।
श्रीब्रह्मण्यतीर्थश्रीपादशिष्यश्रीव्यासतीर्थविरचिता
तात्पर्यचन्द्रिका
प्रथमाध्यायस्य प्रथमः पादः
जिज्ञासाधिकरणम्
मङ्गलपद्यानि
अस्पृष्टदोषगन्धाय कल्याणगुणसिन्धवे
अस्पृष्टदोषगन्धाय कल्याणगुणसिन्धवे ।
नमोनमो भक्तमुक्तिदायिने शेषशायिने ।। १ ।।
शमयन् भवसन्तापं रमयन् साधुचातकान् ।
कृष्णमेघः कृपादृष्टिवृष्ट्या पुष्णातु मामपि ।। २ ।।
श्रीमदानन्दतीर्थार्यपादपङ्कजरेणवः ।
पवित्रयन्तु मां नित्यं पापपाटनपण्डिताः ।। ३ ।।
शारदावासवदनशारदाम्बुरुहान्मुहुः ।
पद्मनाभमुनीन् वन्दे सर्वशास्त्रविशारदान् ।। ४ ।।
मिथ्यासिद्धान्तदुर्ध्वान्तविध्वंसनविचक्षणः ।
जयतीर्थाख्यतरणिर्भासतां नो(मे)हृदम्बरे ।। ५ ।।
कंसध्वंसिपदाम्भोजसंसक्तो हंसपुङ्गवः ।
ब्रह्मण्यगुरुराजाख्यो वर्ततां मम मानसे ।। ६ ।।
पदवाक्यप्रमाणाब्धिविक्रीडनविशारदान् ।
लक्ष्मीनारायणमुनीन्वन्दे विद्यागुरून्मम ।। ७ ।।
श्री राघवेन्द्रतीर्थविरचिता प्रकाशिका
प्रकाशिका
समस्तगुणसम्पूर्णं सर्वदोषविवर्जितम् ।
ज्ञानिप्रियतमं वन्दे मुक्तिदं कमलापतिम् ।। १ ।।
शर्वादिसर्वगीर्वाणनिर्वाणगतिहेतवः ।
पूर्णप्रज्ञपदाम्भोजपांसवः पान्तु नः सदा ।। २ ।।
विधूतदुर्मतध्वान्तो विशदीकृतपद्धतिः ।
यः सज्जनानुज्जहार जयतीर्थरविं भजे ।। ३ ।।
पदवाक्यप्रमाणज्ञान्सम्प्रदायार्थकोविदान् ।
व्यासतीर्थमुनीन्सेवे दुर्वादिफणिपक्षिपान् ।। ४ ।।
अस्मद्देशिकपादानां प्रणम्य चरणाम्बुजम् ।
तात्पर्यचन्द्रिकाव्याख्यां विधास्यामि यथामति ।। ५ ।।
तत्वप्रकाशिकाव्याख्याव्याजेनाधिसूत्रं प्रवर्तमानेषु ग्रन्थेषु दुर्गमार्थान् सुगमान्विधित्सु-र्व्यासतीर्थमुनिः प्रारिप्सितग्रन्थपरिसमाप्त्याद्यर्थं अध्यायचतुष्टयोक्तगुणविशिष्टदेवतानतिरूपं मङ्गलं विदधाति ।। अस्पृष्टेति ।। असम्बद्धदोषलेशायेति द्वितीयाध्यायार्थः । ‘‘गन्धो गन्धक आमोदे सम्बन्धे लेशगर्वयोः’’ इत्यभिधानात् । यं दोषलेशोऽपि न स्पृशति तस्मा इति यावत् । बहुव्रीहेर्दोषगन्धपदान्तत्वेन केवलगन्धपदान्तत्वाभावात् ‘‘अल्पाख्यायाम्’’ इतीत्वं न भवति । कल्याणानां गुणानां धर्माणां सिन्धुरिव सिन्धुराश्रय इत्याद्या-ध्यायार्थः । सत्त्वादीनां श्रुत्यादौ गुणत्वप्रसिद्धेः मतान्तरे दुःखादीनां गुणत्वोक्तेश्च तद्व्युदासाय कल्याणेति ।। आद्यार्थस्यादौ वाच्यत्वेऽपि द्वितीयार्थस्याद्यार्थहेतुत्वादा-दावुक्तिः । कल्याणधर्मत्वोपपादकत्वाद्वा । सदोषत्वे तस्यायोगात् । विघ्नादिदोषनिवृत्ते-रादावपेक्षितत्वाद्वा । ‘‘तं यथा यथोपासते’’ इत्यादेः । भक्तेभ्यो भक्त्युपलक्षित-वैराग्यश्रवणमननादिसाधनवद्भ्यः मुक्तिदायिन इत्यनेन तृतीयचतुर्थार्थोक्तिः । नमोनम इत्यादराद्द्विरुक्तिः । ‘‘नमः स्वस्ति’’ इत्यादिना चतुर्थी । एवंविधश्च नारायण इति सूचयति । शेषशायिन इति ।। १ ।। प्रतिपाद्यदेवतां नत्वा सूत्रकर्तुः कृपादृष्टि-मात्मन्याशास्ते ।। शमयन्निति ।। कृष्णमेघः वेदव्यासाख्यमेघः । पुष्णातु ज्ञान-भक्त्यादिभिः, भवसन्तापशान्तिविशिष्टस्वरूपानन्दानुभवलक्षणरमणदानेन वा पुष्टङ्करोतु । तस्य मेघत्वोपपादनं विशेषणद्वयेन । इष्टदेवतात्वाद्वसुदेवसुतः कृष्णोऽपि ग्राह्यः ।। २ ।।
भाष्यकर्तुरादिगुरोः पादरेणुभ्यः कामान्तरं याचते ।। श्रीमदिति ।। कथं तेषां पवित्रीकरणशक्ततेत्यत उक्तम् ।। पापेति ।। भजकानामिति शेषः ।। ३ ।। प्राचीन-टीकाकर्तॄन्नमति ।। शारदेति ।। सरस्वत्यावासभूतं वदनाख्यशरत्कालसम्बन्धि पङ्कजं येषां तान् । एतदुपपादयति ।। सर्वेति ।। गुरुत्वाद्बहुवचनम् ।। ४ ।। व्याख्येयग्रन्थकर्तुर्हृद्यावासं प्रार्थयते ।। मिथ्येति ।। तस्य तरणित्वोपपादकमेतत् ।। ५ ।। यतः स्वस्य पारमहंस्यं तस्य गुरोः हृद्यावासमर्थयते ।। कंसेति ।। कंसध्वंसी कृष्णः । तस्य पदाख्याम्बुजानुरक्तः । परमहंसाश्रमीत्यर्थः ।। ६ ।। स्वस्य विद्योपदेष्टॄन्नमति ।। पदेति ।। इदं तु गुरुत्वे शक्त्युपपादकम् ।। पदं शब्दशास्त्रम् । वाक्यं मीमांसायुग्मम् । प्रमाणं तर्कशास्त्रम् । बहुवचनं प्राग्वत् ।। ७ ।।
श्रीसत्यप्रियतीर्थविरचितः चन्द्रिकाबिन्दुः
चन्द्रिकाबिन्दु
अस्पृष्टदोषगन्धाय कल्याणगुणसिन्धवे ।
नमोनमो भक्तमुक्तिदायिने शेषशायिने ।।
।। अस्पृष्टेति ।। ‘शेषशायिने’ इति पदोपादानं, सुखासनस्य परमात्मप्रार्थनेन स्वस्य मनस्समाधानसिध्द्या ग्रन्थकरणं युक्तमित्यभिप्रायेण । साधनाध्यायार्थः ‘‘भक्त’’ इत्यनेन सूचितः । ‘मुक्तिदायिने’ इत्यनेन फलाध्यायार्थः । दुःखनिवृत्त्यनन्तरमेवानन्दादि-गुणावाप्तिलक्षणमोक्ष इत्यभिप्रेत्य परमात्मविशेषणमादावुपात्तम् ।। अस्पृष्टेति, अनन्तरं कल्याणेति ।। अनेन ‘‘वीर्यदिदेह’’ इत्यत्रादिशब्देन कल्याणगुणा एव ग्राह्या इति सूचितं भवति । ‘दोषगन्धाय’ इत्यत्र गन्धपदोपादानं दोषातिदूरमिति अतिदूरपदाभि-प्रायेण । कृष्णवेदव्यासोभयाभिप्रायेण ‘शमयन्’ इति श्लोकः । पण्डिताः कुशलाः । पदवाक्यप्रमाणपदानि व्याकरणमीमांसाब्रह्मतर्कपराणि ।
पाण्डुरङ्गि केशवाचार्यविरचिता भावदीपिका
पाण्डुरङ्गि
सकल सुगुणपात्रं सर्वदोषैकजैत्रं सुमतिसुगतिदात्रं सुष्ठु १सज्ज्ञाननेत्रम् ।
निखिलजनिजनित्रं२ नित्यदुष्टैकनेत्रं नवनवसुचरित्रं नौमि लक्ष्मीकलत्रम् ।। १ ।।
शुभगुणगणगात्रं शुद्धविज्ञाननेत्रं श्रुतिविततचरित्रं श्रान्ततापातपत्रम् ।
श्रमजलधिवहित्रं शा(न्त)न्तिमन्तः पवित्रं श्रयत विबुधमित्रं शक्तियोगीन्द्रपौत्रम् ।। २ ।।
विद्याख्यरत्नप्रभवाय बुद्धौ विद्योतमानाय सुबृंहिताय ।
शुद्धाय नित्यं मुनिसेविताय मध्वाद्भुताम्भोनिधये नमोऽस्तु ।। ३ ।।
श्रीमद्व्याससुशास्त्रदुग्धजलधिं मध्वोक्तसत्तर्क-
दुस्तर्काख्यामरदानवाभृतमतिश्रेष्ठाहिहृद्भूभृता ।
आलोड्याखिलतत्वभासकमहारत्नानि चाप्नोत्सुधां
सोऽयं योगिमहेन्द्रसन्निभजयार्याख्यो भवेन्मे मुदे ।। ४ ।।
वेदव्यासमतापगापतिवरं श्रीमज्जयप्रोक्तिसत्
सर्पावेष्टितमध्वसन्मुनिवरग्रन्थागवर्येण यः ।
संलोड्याखिलसन्नयामृतवरं तत्वादिसद्दीपिका
सत्तात्पर्यसुचन्द्रिकातरुवरं यस्तर्कसत्ताण्डवम् ।। ५ ।।
निष्कास्याद्भुतखण्डनत्रयमुखव्याख्यानरत्नोच्चयं
दृष्ट्वा कुत्सितयुक्त्यरातिपिहितां श्रीव्यासतीर्थो बुधः ।
स्वोक्तिं रक्षितुमत्र यः प्रतिपदं सम्यग्विशेषार्पको
विद्याधीशसुतीर्थसद्गुरुवरः किं नावतीर्णः स हि ।। ६ ।।
विद्याधीशं चन्द्रिकाब्धिविक्रीडनविचक्षणम् ।
विद्यागुरुं कुलगुरुं नौमि तं मे जगद्गुरुम् ।। ७ ।।
निशम्य सकलं शास्त्रं विद्याधीशाज्जगद्गुरोः ।
चन्द्रिकायाः प्रकाशोऽयं केशवेन प्रकाश्यते ।। ८ ।।
ग्रन्थादौ मङ्गलमाचरति ।। अस्पृष्टेति ।। अध्यायचतुष्टयप्रतिपाद्यगुणविशिष्टतया परदेवता स्तूयते । तत्र अस्पृष्टेति द्वितीयाध्यायार्थः । अस्पृष्टोऽसम्बद्धो दोषगन्धो दोषलेशो येन स तथोक्तस्तस्मै । अस्पृष्टदोषायेत्यनुक्त्वा अस्पृष्टदोषगन्धायेति गन्धपदो-पादानं तु एतद्व्याख्येय ‘‘चिन्तासन्तापलेपोद्भवमृतिमुखराशेषदोषातिदूरम्’’ इति विशेषणगतातिदूरमिति पदाभिप्रायेण । कल्याणानां गुणानां धर्माणां सिन्धुरिव सिन्धुः आश्रय इति आद्याध्यायार्थः । ‘‘सज्ज्ञानसुखशक्तिभिः पयोनिधिरिवे’’ति ‘‘ज्ञानेन सूर्य इवे’’ति ‘‘निखिलपूर्णगुणैरर्णः समुद्र इवे’’ति च तत्र तत्र टीकाकारैस्तृतीया-समासाश्रयणादत्रापि कल्याणगुणैः सिन्धुः समुद्र इवेति, ‘‘तृतीये’’ति योगविभागा-त्तृतीयातत्पुरुष इति वा । कल्याणत्वेन गुणविशेषणं तु वीर्यादिदेहमित्यत्रत्यादि-शब्दसङ्ग्राह्यतावच्छेदकधर्मसूचनार्थम् ।
यद्यपि अध्यायद्वयार्थकथनरूपटीकाग्रन्थक्रमानुरोधेन कल्याणगुणसिन्धव इत्याद्या-ध्यायार्थोक्त्यनन्तरमस्पृष्टदोषगन्धायेति द्वितीयाध्यायार्थोक्तिरुचिता न तु व्यत्यासेन । तथापि दुःखनिवृत्त्यनन्तरमेवानन्दादिगुणावाप्तिलक्षणो मोक्ष इति फलक्रममनुसृत्य तत्साधनोपासनविषययोर्निर्दोषत्वकल्याणगुणत्वयोः पौर्वापर्यमुचितमिति भावेनायं व्यत्यास इति ज्ञेयम् । यद्वा द्वितीयाध्यायार्थभूताऽपि भगवन्निर्दोषता विघ्नरूपदोषनिर्हरणाय मुमुक्षुणा प्रथममनुसन्धेयेति भावेन टीकाक्रमपरित्यागेन क्रमान्तराश्रयणमिदमिति ज्ञातव्यम् । भक्तेति तृतीयाध्यायार्थसूचनम् । ततश्च भक्तेभ्यो भक्त्युपलक्षितवैराग्यादि-समस्तसाधनवद्भ्यश्चतुर्विधमोक्षदायिन इत्युक्तं भवति । शेषशायिन इति परदेवतायाः शेषरूपमञ्चस्थत्वकथनेन तादृशस्य परमात्मनः परमानन्दमग्नत्वात्तत्प्रार्थनमविलम्बे-नापेक्षिताशेषपुरुषार्थसाधनमिति सूचितं भवति ।। १ ।।
मीमांसाशास्त्रकर्तुर्वासिष्ठकृष्णस्य स्वेष्टदेवताया यादवकृष्णस्य च स्वात्मनि कृपा-दृष्टिवृष्टिपुष्टिमाशास्ते ।। शमयन्निति ।। कृष्णस्य मेघत्वोपपादनाय विशेषणद्वयमिदम् ।। साधुचातकानिति ।। भगवत्पक्षे साधव एव चातकाः तान् रमयन्निति, कालमेघपक्षे चातकान् साधु रमयन्निति योजना ।। २ ।। भाष्यकर्तॄन् प्रार्थयते ।। श्रीमदिति ।। तेषां पवित्रीकरण शक्तिमुपपादयितुमुक्तम् ।। पापेति ।। पण्डिताः कुशलाः ।। ३ ।। आदिटीकाकर्तॄन्नमति ।। शारदेति ।। शारदायाः सरस्वत्याः आवासो यस्मिन् तच्छारदावासं तच्च तद्वदनं च शारदावासवदनम् । तदेव शारदाम्बुरुहं शरत्कालसम्बन्धि पङ्कजं येषां तानित्यर्थः । तस्यैवोपपादनम् ।। सर्वेति ।। गुरुत्वाद् बहुवचनम् ।। ४ ।। व्याख्येयग्रन्थकर्तुर्हृद्यावासं प्रार्थयते ।। मिथ्येति ।। एतच्च टीकाकर्तुस्तरणित्वोपपादनार्थं विशेषणम् ।। ५ ।। आश्रमगुरोर्हृद्यावासं प्रार्थयते ।। कंसेति ।। कंसध्वंसी श्रीकृष्णः तस्य पादाख्याम्बुजानुरक्तः। हंसपुङ्गवः चतुर्थाश्रमीत्यर्थः ।। ६ ।। विद्यागुरून्प्रणमति ।। पदेति ।। अत्र पदार्थज्ञानोपायभूतं, पद्यते शब्दार्थोऽनेनेति व्युत्पत्त्या व्याकरणं पदम् । वाक्यार्थज्ञानोपायन्यायसमर्पकं प्रमेयमीमांसाशास्त्रं वाक्यम् । उद्देशलक्षणविभागपरीक्षाभिः प्रमाणस्वरूपनिर्धारकं प्रमाणमीमांसाशास्त्रं प्रमाणमिति विवेकः ।। ७ ।।