मैवम्

पूर्वपक्षसमर्थनेन शङकामाधानकथनम्

तात्पर्यचन्द्रिका

मैवम् । ‘‘संवत्सर एव प्रध्वंसयन् तस्यैतस्यासावादित्योरस’’ इति संवत्सराधिपतित्वरूपसंवत्सरसारत्वलिंगात् ‘‘यश्चासावादित्य’’ इति प्रसिद्धार्थयच्छब्दोपबन्धात् ‘‘तस्मात्पुरुषं पुरुषं प्रत्यादित्यो भवती’’ति सर्वपुरुषाभिमुख्यलिङ्गाच्चादित्यशब्दस्य प्रसिद्धादित्यपरत्वात् । अत एव भाष्यटीकयोरादित्यशब्दस्य प्रसिद्धपरत्वं लिङ्गाधीनमिति दर्शयितुं ‘‘तस्यैतस्यासावादित्योरस’’ इत्यादिलिङ्गप्रतिपादकांशोप्युपात्तः । उक्तं ह्यनुव्याख्याने ‘‘पुनश्च प्रापकाद्धेतोस्तत्राधिकरणान्तर’’मिति । न चैवं सत्यावश्यकत्वाल्लिङ्गैरेव पूर्वपक्षः लिङ्गसाहचर्यादेव सर्वगतत्वस्यान्यत्र प्रसिद्धत्वं चोच्यताम् किं तदुपजीविश्रुत्युपन्यासेनेति वाच्यम् । उक्तलिङ्गानामादित्यविशेषणतयैव प्रतीत्या सर्वगतविशेषणत्वाप्रतीतेः साक्षात्तैः पूर्वपक्षाद्यसम्भवात् । तदेतदभिप्रेत्योक्तं न्यायविवरणे ‘‘बहवो ह्यत्रादित्यशब्दाः । क्षित्यादिषूक्त्वाऽऽदित्येऽनुक्तिरित्यादिलिङ्गं चे’’ति । यद्वा अन्तराद्यधिकरणेष्विन्द्रादिशब्दानां तैस्तैर्लिङ्गैर्विष्णुपरतैव व्युत्पादिता । न तु तत्र मुख्यता । ‘‘तस्मान्मुख्यार्थता विष्णोरिति कृत्वा हृदि प्रभुः । समन्वयं साधयती’’त्यनुव्याख्याने मुख्यत्वोक्तिराकाशादिपदप्रवृत्तिनिमित्तस्य भगवदधीनत्वोक्तिश्च स्थितायां त्रिपाद्यां प्रवृत्ते ‘‘तदधीनत्वा’’दित्यत्र सर्वशब्दानां भगवति मुख्यताया वक्ष्यमाणत्वात्तदभिप्राया । अत एव हृदिकृत्वेत्युक्तम् । ईक्षत्यधिकरणे वाच्यत्वोक्तिरपि तदुपयोगितया । टीकायां प्रत्यधिकरणं तत्तच्छब्दवाच्यत्वोक्तिरपि तदभिप्राया । तत्तच्छब्दप्रवृत्तिनिमित्तगुणलाभस्य वक्ष्यमाणसापेक्षत्वेपि तत्तत्प्रकरणस्थगुणमात्रलाभः पूर्वाधिकरणाक्षेपः समाधानं च तत्तदधिकरणमात्रसाध्यम् । एवं चादित्यादिशब्दानां विष्णौ मुख्यताया अनुक्तत्वात्तैः पूर्वपक्षोदय इति न्यायविवरणाभिप्रायः ।

प्रकाशिका

एवमुक्तरीत्याऽऽदित्यश्रुतेस्सावकाशत्वेऽपि ज्योतिरित्यत्र निरवकाशप्रकरणेन ज्योतिश्श्रुतेरिव निरवकाशादित्यलिङ्गवशेनादित्यश्रुतेर्निरवकाशत्वेन वा पूर्वं विष्णौ समन्वयेऽपि मुख्यत्वस्यानुक्त्या सावकाशत्वशङ्काभावेन स्वतो निरवकाशत्वेन वा तन्न्यायाविषयत्वेन तत्रास्यास्समन्वयस्यैवाभावेन वा त्रेधा श्रुतेर्निरवकाशत्वेन तया पूर्वपक्षोदयो युज्यत इति भावेनाह ।। संवत्सर एवेति ।। ‘‘महापुरुष इति यमवोचाम संवत्सर एव प्रध्वंसयन्नन्यानि भूतान्यैक्याभावयन्नन्यानि तस्यैतस्यासावादित्योरसः सयश्चायमशरीरः प्राज्ञात्मा यश्चासावादित्य एकमेतदिति विद्यात्तस्मात्पुरुषं पुरुषं प्रत्यादित्यो भवति । तदप्येतदृषिणोक्तं चित्रं देवनामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः । आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्चे’’त्यत्र तस्यैतस्येति संवत्सरं परामृश्य रसपदेन तदधिष्ठातृत्वोक्तेस्तस्य च रथवेगेन संवत्सरकर्तरि सूर्य एव प्रसिद्धेः यच्छब्दस्य प्रसिद्धार्थकत्वात्सूर्यस्यैवादित्यत्वेन लोके प्रसिद्धत्वात् सर्वपुरुषाभिमुख्यस्य सूर्य एव प्रत्यक्षत्वेन विष्णावदर्शनाल्लिङ्गत्रयेण श्रुतेरुज्जीवनादित्यर्थः । एतेन लिङ्गबाहुल्यकथनेन ‘‘बहुलिङ्गसहितश्रुतेरपि सावकाशायाः निरवकाशश्रुत्यादीनामेव बलवत्त्व’’मिति न्यायविवरणगतबहुशब्दार्थो विवृतः ।। अत एवेति ।। लिङ्गैश्श्रुत्युज्जीवनस्याभिप्रेतत्वादेवेत्यर्थः । अन्यथा श्रुतिबाहुल्यमात्रप्रदर्शनपरत्वेऽसावादित्य इत्येतावदेवोदाह्रीयेतेत्यर्थः ।। उक्तं हीति ।। आनन्दमयाधिकरणे । तत्र पूर्वाधिकरणव्युत्पादितन्यायविषयेप्यर्थे । यदधिकरणान्तरमारभ्यते तत्पूर्वन्यायाच्छादकाधिकाशङ्कालक्षणात्पुनरधिकरणान्तरारम्भप्रापकाद्धेतोर्युक्त इत्यर्थः । ननु टीकारीत्या सर्वगतत्वस्यान्यत्रप्रसिद्धये श्रुत्यनुसरणमित्यत आह ।। लिङ्गेति ।। तदेतदिति ।। लिङ्गैश्श्रुतिमुज्जीव्य तया पूर्वपक्ष इत्येतदित्यर्थः । एतेन भाष्यन्यायविवरणयोरेकविषयत्वं विवृतम् । ‘‘आदित्यो भवितुमर्हति ।। तदीयश्रुतिलिङ्गानामत्र दर्शना’’दिति न्यायविवरणटीका च विवृता । यद्यप्यत्रादित्यशब्द एक एव तथाप्यावृत्तिबहुत्वाद्वाऽऽदित्यप्रतिपादकादित्यसूर्यमित्रशब्दानां सत्त्वाद्वा बहव इत्युक्तम् । यद्यप्यत्र शब्दा इत्यन्तमेवोदाहार्यम् । शिष्टं तु पूर्वपक्षे प्रापकान्तरत्वादुदाहृतम् । आदिपदेन चक्षुर्मयत्वादिकं जीवलिङ्गं ग्राह्यम् यद्वाऽऽदित्यपदेन संवत्सरसारत्वादिप्रागुक्तलिङ्गग्रहः । तेन तदंशोपि प्रकृतोपयोग्येवेति भावः । न्यायविवरणे लिङ्गेन श्रुत्युज्जीवनं न स्पष्टं प्रत्युत श्रुतीनामेव लिङ्गसमकक्षतया प्राबल्यं प्रतीयते । अतस्तत्स्वारस्यानुरोधेन भाष्यादौ लिङ्गांशोक्तेर्भावं विवक्षुः पक्षद्वयमाह ।। यद्वेत्यादिना ।। विष्णुपरतैवेति ।। तस्या अपि समन्वयरूपत्वात् । इह तु तत्परत्वं नास्ति । तल्लिङ्गाभावादिति भावः । नन्वेवमानन्दमयाधिकरणान्ते

अतो नारायणो देवो निश्शेषगुणवाचकैः ।

गुणिसामान्यवचनैरपि मुख्यतयोदितः ।।

अध्यात्मगैश्च प्राणाद्यैस्तथैव ह्यधिभूतगैः ।

अन्नादिशब्दैर्भगवानेको मुख्यतयोदितः ।। इत्युपक्रम्य

शब्दप्रवृत्तिहेतूनां तस्मिन्मुख्यसमन्वयात् ।

अन्यार्थेष्वल्पताहेतोस्तन्निमित्तत्वतस्तथा ।।

इत्यादिना भगवति विद्वद्रूढिमहायोगावभिधाय तस्मादिति श्लोके तस्मान्महायोगविद्वद्रूढिसत्त्वात्सर्वशब्दमुख्यार्थता विष्णोरुपपन्नेति मुख्यत्वोक्तेः तन्निमित्तत्वत इत्यादिनाऽन्यगतप्रवृत्तिनिमित्तस्य भगवदधीनत्वोक्तेश्च ईक्षत्यधिकरणे वक्ष्यमाणसमन्वयोपयोगितया वाच्यत्वोक्तेश्च टीकायां तस्मादशेषाधिदैवगतशब्दवाच्यो हरिरित्यादिना सर्वत्र तत्तच्छब्दवाच्यत्वोपसंहारात्तद्विरोध इत्यतस्सर्वस्य गतिमाह ।। तस्मादिति ।। उक्तिश्चेति ।। अनुव्याख्यान इत्यन्वेति । तदभिप्रायेत्यन्वयः । पादत्रये नानावाक्यगतभगवल्लिङ्गैस्तत्तद्वाक्यगताधिदैविकादिसर्वशब्दानां भगवत्परत्वे सर्वस्य तदधीनत्वे च निर्णीते सति किं तेषां तत्परत्वमैंद्य्रागार्हपत्यपरत्वस्येवामुख्यवृत्त्योत मुख्यवृत्त्येति तथा त्रिपाद्यां तत्तच्छद्बप्रवृत्तिहेतोरीशाधीनत्वोक्तेः किं फलमिति च शङ्कायाः पादत्रयानन्तरमेवोदयात् तच्छङ्कानिवृत्त्यर्थं त्रिपाद्यनन्तरं प्रवृत्ते तदधीनत्वादित्यव्यक्तनयगुणसूत्रे स्वातंत्र्यस्य शब्दवृत्तौ मुख्यनिमित्तत्वात्सर्वस्वतन्त्रे भगवत्यव्यक्तादिशब्दोपलक्षितसर्वशब्दानां मुख्यवृत्तिरिति वक्ष्यमाणत्वात्तदभिप्रायेणात्र मुख्यत्वाद्युक्तिरित्यर्थः । तदुपयोगितया वक्ष्यमाणमुख्यत्वोपयोगितया । अन्यथा ब्रह्मण एवावाच्यत्वे शब्दानां तत्र मुख्यत्वोक्तिरसङ्गता स्यादिति भावः । ननु शब्दप्रवृत्तिनिमित्तस्य गुणस्याव्यक्तनयेनैव लब्धत्वात्किं पूर्वतनैरधिकरणैरित्यत आह ।। तत्तच्छब्दप्रवृत्तीति ।। अवयवशक्तिलभ्यपरमैश्वर्यादिमत्त्वरूपगुणलाभस्येत्यर्थः । ननु तत्र त्रिपाद्यां सिद्धं स्वातन्त्र्यं शब्दप्रवृत्तौ निमित्तं भवति नेति विशये नेति प्राप्ते भवतीति सिद्धान्तयिष्यते । न तु तत्तच्छब्दप्रवृत्तिनिमित्तमपि भगवद्गतमिति । तथाच कथमेवमुक्तिरिति चेत्सत्यम् । ‘‘सूक्ष्मं तु तदर्हत्वा’’दित्यनेनोपलक्षणतयाऽशेषशब्दप्रवृत्तिहेतूनामपीशगतत्वव्युत्पादनमस्तीत्याशयात् । यद्वा तत्तच्छब्दप्रवृत्तिनिमित्तगुणलाभस्येत्यस्य स्वातन्त्र्यरूपगुणलाभस्येत्येवार्थः । स्वातन्त्र्यमपि तदधीनत्वादित्यत्रैव वक्ष्यतीति भावः ।

चन्द्रिकाबिन्दुः

न्यायविवरणस्वारस्यमभिप्रेत्य पक्षान्तरमाह ।। यद्वेति ।। तत्र यतो वेति, यया कयाचन वृत्त्येति शेषः । तर्हि त्रिपाद्यामेव ईक्षत्यधिकरणे वाच्यत्वसमर्थनं न स्यादित्यत आह ।। ईक्षत्यधिकरण इति ।। तदुपयोगितयेति ।। उत्तरत्र समर्थयिष्यमाणं यन्मुख्यवाच्यत्वं तदत्र सम्यक् शब्दार्थवाच्यत्वेन विवक्षितं तदुपयोगितयेत्यर्थः । तदभिप्रायमुत्तरत्र समर्थयिष्यत इत्यभिप्रायमूलम् । तत्तदधिकरणेति ।। त्रिपादीस्थतत्तदधिकरणेत्यर्थः । एवं सति लिङ्गप्रतिपादकांशोदाहरणस्य टीकाकारीयस्य प्रयोजनं दर्शयति ।।

पाण्डुरङ्गि

तत्रादित्यश्रुतिमात्रेणैव पूर्वःपक्ष इत्यभिप्रेत्यादित्यशब्दस्य ब्रह्मपरत्वमन्तरधिकरणन्यायेनेति शङ्कां परिहरन्नेव प्रसिद्धादित्यपरत्वमुपपादयति ।। मैवमित्यादिना ।। ननु संवत्सरसारत्वमपि शतसंवत्सरत्वादिवदन्तर्यामिणि सावकाशं नादित्यश्रुतेः प्रसिद्धादित्यपरत्वं संपादयितुमलमित्यत आह ।। यश्चासावादित्य इति ।। प्रसिद्धार्थयच्छब्दोपसंबन्धादिति ।। यच्छब्दोहि प्रसिद्ध्यर्थः । प्रसिद्धिर्हि लोकतः । स चादित्य एवेति प्रसिद्ध्यर्थकयच्छब्दसमभिव्याहारादादित्यशब्दः प्रसिद्धादित्यपर इत्यर्थः । ननु च यच्छब्दोपबन्धोपि सयश्चायं पुरुषे यश्चासावादित्य इत्यादि प्रसिद्धे ब्रह्मण्यपि सम्भवतीति कथमेतदनुसारेणादित्यश्रुतेः प्रसिद्धपरत्वमित्यरुचेराह ।। तस्मादिति ।। ब्रह्मण एवादित्यत्वे तस्यैव पुरुषाभिमुख्यमभ्युपेयम् । न च तत्सम्भवः । तस्य पुरुषाभिमुख्यताया असम्भवादिति भावः ।। अत एवेति ।। लिङ्गोपोद्बलितादित्यश्रुतेः प्रसिद्धादित्यपरत्वस्य भाष्यटीकयोरभिप्रेतत्वादेवेत्यर्थः ।। तदेतदभिप्रेत्योक्तं न्यायविवरण इति ।। आदित्यशब्दस्य लिङ्गाधीनमन्यपरत्वं लिङ्गैरेव पूर्वपक्षासम्भवं चाभिप्रेत्येत्यर्थः । एवमधिकाशङ्कापक्षे पूर्वपक्षोदयं किञ्चिदुद्घाट्य प्रागुक्तयथाभाष्यपूर्वपक्षसिद्धान्तमवलम्ब्याह ।। यद्वेति ।। अथवा ननु तथापि किं श्रुतिमात्रेण पूर्वः पक्ष उत लिङ्गैर्वा । नाद्यः । अन्तरधिकरणन्यायेन श्रुतिमात्रस्य भगवत्परत्वेन पूर्वपक्षासाधकत्वस्योक्तत्वात् । लिङ्गानामप्यन्तर्यामिणि सावकाशत्वान्न द्वितीयोपीत्यरुच्या पक्षान्तरमाह ।। यद्वेति ।। ननु यद्यन्तराद्यधिकरणेष्विन्द्रादिशब्दानां भगवति मुख्यत्वं नाभिप्रेतं तर्ह्यनुव्याख्यानविरोधस्स्यात् । तत्रेन्द्रादिशब्दानां भगवति मुख्यत्वस्याभिधानादित्यत आह ।। तस्मादिति ।। अत्रैवानुव्याख्यानीयं ज्ञापकमाह ।। अत एवेति ।। अन्यथा हृदीत्यस्य वैयर्थ्यं स्यादित्यर्थः । ननु समन्वयसूत्रे सर्वेषां शब्दानां मुख्यवृत्त्या भगवत्परत्व उक्ते अवाच्यत्वात्कथं तत्र शब्दानां मुख्यत्वमित्याशङ्का ईक्षतेरित्यनेन वाच्यत्वोपपादनेन परिहृतेति शब्दानां मुख्यार्थत्वमेवाभ्युपेयम् । अन्यथा ईक्षत्यधिकरणे वाच्यत्वोपपादनमयुक्तं स्यादित्यत आह ।। ईक्षत्यधिकरण इति ।। तदुपयोगितया तदधीनत्वादित्यत्रोच्यमानमुख्यतोपयोगितयेत्यर्थः । ननु तथापि प्रत्यधिकरणं टीकायामाकाशशब्दवाच्यत्वसमर्थनादित्युपक्रमे तस्मादाकाशोपलक्षितसकलशब्दवाच्य-मित्युपसंहारटीकायां च वाच्यत्वोक्तेः का गतिरित्यत आह ।। टीकायामिति ।। उक्त एवाभिप्रायः । नन्वेवं तदधीनत्वादित्यधिकरणसिद्धान्तेनैव सकलपूर्वपक्षाणां निराससम्भवेनाधिकरणान्तरस्य वैयर्थ्यमित्यत आह ।। तत्तदिति ।।