सिद्धान्तस्तु
सिद्धान्ते ज्योतिरादिशब्दमुख्यार्थो ब्रह्मैव
तात्पर्यचन्द्रिका
सिद्धान्तस्तु ।। ज्योतिरादिशब्दमुख्यार्थो ब्रह्मैव । तं यच्छतं वर्षाण्यभ्यार्चत्तस्माच्छतर्चिनस्तस्माच्छतर्चिन इत्याचक्षत एतमेव सन्तं स इदं सर्वं मध्यतो दधे यदिदं किंच तस्मान्माध्यमास्तस्मान्माध्यमा इत्याचक्षत एतमेव सन्त’’मित्यादिना ‘‘तावा एताः सर्वा ऋचः सर्वे वेदाः सर्वे घोषा एकैव व्याहृतिः प्राण एव प्राण ऋच इत्येव विद्या’’दित्यंतेन शतर्चिनः शतर्चिन इत्याद्यभ्याससहितेन वाक्येन ब्रह्मणः सर्वशब्दमुख्यार्थत्वोक्तेः ।
अवस्वराति गर्गरो गोधा परि सनिष्वणत् ।
पिङ्गा परि चनिष्कददिन्द्राय ब्रह्मोद्यतम् ।।
इति श्रुतौ गर्गरगोधादिशब्दानामपि परमेश्वरवाचितामुक्त्वा ब्रह्मशब्दार्थस्य वेदस्य विशिष्य तद्वाचितोक्तेश्च । ‘‘णकारो बलं षकारः प्राण आत्मे’’ति विष्णुशब्दांतर्गतणकारषकारयोरर्थमुक्त्वा ‘‘सयो हैतौ णकारषकारावनुसंहितमृचो वेदे’’ति श्रुतौ णकारषकारार्थः सर्वत्र पूर्वोत्तरवर्णसंहितार्थ इत्युक्तत्वाच्च । ‘‘अः इति ब्रह्मे’’ति ब्रह्मवाचितयोक्तेनाकारेण सहसर्वशब्दानां समानार्थत्वस्य ‘‘अकारो वै सर्वा वाक्’’इति श्रुत्योक्तेश्च । ‘‘सृजतो हि श्रुतयोऽनुवर्तंते नैवासृजतः किं वा विदधते किं वा निषेधंति स्तुतिमात्रा एव ते स्यु’’रिति श्रुतौ विध्यादिभागस्यापि भगवत्स्तुतित्वोक्तेश्च । ‘‘यद्वै किं चैतदध्यगीष्टा नामैवैतन्नाम वा ऋग्वेदो यजुर्वेदः सामवेद आथर्वणश्चतुर्थ’’ इत्यादौ ‘‘नामैवैत’’दित्यंते छान्दोग्ये ‘‘यद्वाच ओमिति यच्च नेति यच्चास्याः क्रूरं यदुचोल्बणिब्णु तद्वियूययकवयोऽन्वविन्दन्नामायन्न । समतृप्यञ्छृतेधी’’त्यैतरेये च सर्व वैदिक शब्दानां भगवन्नामत्वोक्तेश्च ‘‘कश्छंदसां योगमावेद धीर’’ इति श्रुतौ ‘‘इत्यस्या हृदयं साक्षान्नान्यो मद्वेद कश्चने’’ति स्मृतौ च वैदिकयौगिकार्थस्य दुर्ज्ञानत्वोक्तेश्च ।
तत्रापि यौगिको मुख्यस्सर्वत्रास्ति स वैदिके ।
अनवस्थानिवृत्त्यर्थं यौगिके रूढिकल्पना ।।
तत्रापि परमो मुख्यो वाच्यो शेषरवैर्हरिः ।
तत्तन्मुख्याविरोधेन तदन्यार्थस्य सङ्ग्रहः।। इत्यादिस्मृतेश्च ।
न च ‘‘तं यच्छत’’मित्यादिवाक्यस्यापि ब्रह्मणि पदसमन्वयान्नानेन सर्वशब्दवाच्यत्वसिद्धिरिति शङ्क्यम् । अस्य लोकप्रसिद्धपदार्थसंसर्गाबोधकत्वे तद्बोधाधीनस्य पदसमन्वयस्यैवासिद्धिः । बोधकत्वे तु पदसमन्वयो न स्वोपजीव्यं ब्रह्मणः सर्वशब्दवाच्यत्वरूपसंसर्गं बाधते । ‘‘स्वाध्यायोऽध्येतव्य’’ इति वाक्यवच्चास्य विनियोक्तृत्वविनियोज्यत्वेन विरुद्धे ।
प्रकाशिका
अत्र कर्मानुष्ठानविरोधं व्युत्पत्त्यशक्यत्वं चाग्रे ‘‘न चैव’’मित्यादिना ग्रन्थेन परिजिहीर्षुस्सौत्रप्रतिज्ञाहेतूक्तिपरभाष्यटीकां ‘‘ज्योतिष्टोमदी’’त्यादिकां ‘‘इति भाव’’ इत्यन्तां विवृण्वन्नाद्यसूत्रार्थं निष्कृष्याह ।। ज्योतिरादीति ।। सूत्रे ज्योतिश्शब्द उपलक्षणमिति भावः । इमं लेकमभ्यार्चदिति प्रकृतं लोकशब्दितं तं देहं शतं वर्षाणि अत्यन्तसंयोगे द्वितीया । अभ्यार्चत् प्राणः प्रकृतः । एतमेव प्राणमेव सन्तं प्रवृत्तिनिमित्तवत्तया विद्यमानमित्यादिना इत्यंतेन वाक्येनेत्यन्वयः । तावा एता इति श्रुत्यर्थष्टीकायां व्यक्तः । अस्मिन्वाक्ये वृत्त्यंतरेणापि सर्वशब्दप्रतिपाद्यत्वमिति शङ्कापनुत्तये योगरूढिप्रदर्शनाय ‘‘त’’मित्यादिपूर्ववाक्यमुक्त्वा ‘‘इत्यादिने’’त्युक्तम् । प्राणो विष्णुरेवेत्यग्रे व्यक्तम् । मुख्यार्थत्वे कर्मनिर्णयोक्तश्रुत्यन्तरमाह ।। अवस्वरातीति ।। गर्गरः पादभूषणम् । अवस्वरति नीचै रौतीति यत्तदिन्द्राय । गोधा पल्ली । परिसनिष्वणत् अतिशयेन स्वनतीति यत्तदपीन्द्राय । ष्वणशब्द इति धातोः । पिङ्गा चकोरी च । परिचनिष्कदत् ध्वनतीति यत्तदपीन्द्राय । गर्गरादिसर्वस्वनोऽपि नादशब्दितवर्णाभिव्यक्तिद्वारा विष्णुविषयक इत्युक्त्वा ‘‘उद्यत’’मिति विशिष्य सतात्पर्यं तद्वाचितोक्तेरिति भावः । इन्द्रश्च विष्णुर्मुख्यत इत्यंतर्नये निर्णीतमिति भावः ।
पादभूषाच धिक्कारं तत्कृतं स्वरितो वदेत् ।
अद्भुतत्वं हरेर्वक्ति पिङ्गा कण्ठगशब्दवत् ।।
तामेवाद्भुततां वक्ति गृहगोधा परापि च । इति
कर्मनिर्णयोक्तस्मृत्यैतन्मन्त्रार्थो बोध्यः ।
विष्णुनामार्थरूपत्वं संहितादेरथाब्रवीत् ।
णकारं च षकारं च बलचेष्टात्मकं वदन् ।
तज्ज्ञानपूर्वकत्वेन संहिताध्ययनं तथा ।
उपसर्गत्वतो वेस्तु ताच्छील्यार्थादुनस्तथा ।
णकारश्च षकारश्च नामरूपतया स्मृतौ ।।
इत्यनुव्याख्यानं हृदि कृत्वा विष्णोस्सर्वशब्दमुख्यार्थत्वे हेत्वंतरमाह ।। णकार इति ।। णकारषकारौ विष्णोर्बलचेष्टाप्रतिपादकावित्यर्थः ।। विष्णुशब्देति ।। वीत्यस्योपसर्गत्वेनोत्तरपदार्थविशेषकत्वादुन्प्रत्ययस्य ताच्छील्यार्थत्वादुपसर्जनत्वं मन्वानस्य वेदस्य णकारषकारौ द्वावेव नामस्वरूपतयाऽभिमताविति भावः । ऋचोऽनुसंहितं ऋचां सर्वसंहितासु । णकारषकारौ योवेद णकारषकारतत्संहिताभिः प्रतिपाद्यो योऽर्थस्तमेव सर्वत्र पूर्वोत्तरवर्णतत्संहिताभिः प्रतिपाद्यतया यो वेदेत्यर्थः । णकारषकारार्थ इत्युपलक्षणम् । तत्संहितार्थ इत्यपि ध्येयम् । एतेन फलोक्तेर्भावेन तत्र तात्पर्यमपि सूचितम् ।
अ इति ब्रह्म कथितं तद्य्वाख्यानात्मता तथा ।
शब्दानामपि सर्वेषां नामवित्कृतकृत्यता ।।
इत्यनुव्याख्यानं हृदि कृत्वा वाक्यांतरेण विष्णोस्सर्वशब्दवाच्यतामाह ।। अःइतीति ।। ब्रह्मवाचितयेति ।। अभेदार्थत्वेत्विति करणवैयर्थ्यमिति भावः ।। समानार्थत्वस्येति ।। साक्षादैक्यस्य प्रत्यक्षादिविरुद्धत्वेन लक्षणाश्रयणस्यावश्यकत्वादिति भावः । ननु सिद्धार्थकस्य ब्रह्मार्थकत्वेऽपि न क्रियार्थस्येत्यत आह ।। सृजत इति ।। श्रुतिगीतातात्पर्योक्तशाण्डिल्यश्रुतौ स्तुतित्वोक्तेरित्यर्थः । ‘‘नामवित्कृतकृत्यते’’त्यत्र नामपदेन तुल्यन्यायतया सूचितश्रुत्या तदुपात्तश्रुत्या चैतमर्थं साधयति ।। यद्वा इति ।। नारदं प्रति सनत्कुमारवचनं छान्दोग्ये सप्तमेऽध्याये ।। यदिति ।। वाचः वाक्समूहस्य मध्ये । यदोमिति पदं अङ्गीकारवाचीति यावत् । यच्चनेति पदं प्रतिषेधार्थम् । यच्चास्या वाचोमध्ये क्रूरं अर्थतःकठिनम् । यदुचोल्बणिष्णु शब्दतः कठिनम् । उपलक्षणमेतत् । यावद्वैदिकं पदजातं तत्सर्वम् । वियूय विचार्य । कवयः ज्ञानिनः । नामायत्तानि नामप्रकाश्यतया नामाधीनानि तत्तच्छब्दप्रवृत्तिनिमित्तानि । अन्वविन्दन् विदितवन्तः । तस्मिन्वेदने शृते परिपक्वे सत्यनन्तरं समतृप्यन् कृतकृत्या मुक्ता अभूवन्नित्यर्थः । अस्त्वेवं सर्ववैदिकशब्दानां भगवन्नामत्वम् । तद्योगेनेति कुतः । वृत्त्यंतरेणाप्युपपत्तेरित्यतो वा श्रुत्यादौ योगार्थस्य दुर्ज्ञानत्वोक्तयन्यथानुपपत्त्या च हरेः सर्वशब्दमुख्यार्थत्वं वाक्यसमन्वयपक्षे तदयोगादिति भावेन वा
कश्छन्दसां योगमिति श्रुतेर्योगार्थतत्ववित् ।
ब्रह्मैको नैव चान्योऽस्ति क इत्यस्योभयार्थतः ।।
इत्यनुभाष्यसुधोक्ततात्पर्यादपि तात्पर्यांतरमुपेत्याह ।। कश्छन्दसामिति ।। को धीरः छन्दसां योगं ब्रह्मणि योगवृत्तिं आवेद । नकोऽपीत्यर्थः ।
मां विधत्तेऽभिधत्ते मां विकल्प्योपोह्य इत्यहम् ।
इत्यस्या हृदयं साक्षान्नान्यो मद्वेद कश्चन ।।
इत्येकादशस्कन्धतात्पर्यस्मृतिः समन्वयसूत्रटीकायां व्याख्याता । कर्मविधात्री श्रुतिर्मां प्रत्येव तद्विधत्ते । इन्द्राद्यभिधात्री च मामभिधत्ते । ‘‘चत्वारिवा’’गिति श्रुत्याऽहं विविधरूपत्वेन कल्प्यः । ‘‘न सुरां पिबे’’दित्यादिश्रुत्या अहमेवाप्रियादपोह्यः । एवं भूताया अस्याश्श्रुतेरित्यभिप्रायमहमेव वेद न मत्तोऽन्य इति । श्रुतौ छन्दःपदस्य कर्मकाण्डान्यत्वसङ्कोचशङ्काव्यावृत्तये स्मृत्युक्तिः ।। यौगिकार्थस्येति ।। स्मृतौ योगशब्दाभावेऽपि सर्वाभिधेयत्वस्य रूढ्याऽयोगेन योगवृत्त्यैव वाच्यत्वात्तल्लाभ सति भावः । ननु रूढार्थस्यैव लोके मुख्यत्वव्यपदेशात्कथं यौगिकस्य मुख्यत्वम् । येन सर्वशब्दमुख्यार्थो ब्रह्मैवेति प्रतिज्ञा युक्ता स्यादित्यतो वा पूर्वपक्षोक्तदिशा न सर्वशब्दयौगिकत्वं युक्तमित्यतो वा सर्ववैदिकशब्दयौगिकत्वं कुत इत्यतो वाऽऽह ।। तत्रापीति ।। ‘‘रूढियोगौ विना कश्चिन्नैवार्थो वेदगो भवेत् । तत्रापी’’ति कर्मनिर्णयोक्तब्रह्मतर्कस्मृतेरर्थष्टीकायामुक्तः । तत्रापि रूढियोगयोर्मध्येऽपि । स योगस्सर्वत्र वैदिके रूढेऽर्थेस्ति । न चानवस्थापत्त्या योगानुपपत्तिः । अवान्तरपदानां योगस्तदवान्तरपदानामपि योग इत्यनवस्थानिरासायावयवानां रूढिमुपेत्य योगोक्तेरिति । एवं तर्हि कर्मादिपरिलोपस्स्यादित्यतो वा अन्यस्यापि मुख्यार्थत्वे ब्रह्मैव मुख्यार्थ इत्यनुपपत्तिः । शब्दानामक्षादिशब्दवन्नानार्थत्वापत्तिश्चेत्यतो वा कर्मनिर्णयोक्तस्मृत्यंतरमाह ।। तत्रापीति ।। ‘‘मुख्यार्थानां च सर्वेषां तारतम्यं तु विद्यते । तत्रापि परमो मुख्य’’ इत्यादि । तदन्यार्थस्य कर्मदेवतादिरूपस्येत्यर्थः । एतेन ‘‘कल्पने’’ति सूत्रभावोऽपि स्मृत्यैव विवृतः । श्रुतावनुपपत्तिमाशङ्क्याह ।। न चेति ।। पदसमन्वयदशायां वाक्यत्वाभावेन वाक्यार्थाभावादिति भावः ।। बोधकत्व इति ।। तादृशसंसर्गस्येत्यन्वयः । ‘‘सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्ये’’ति न्यायादिति भावः । संसर्गं वाक्यार्थरूपम् । नन्वेतद्वाक्यगतपदानां स्थलांतरेऽपि तत्र तत्र श्रवणात्तत्रत्यानामेव वर्णपदादिरूपेण ब्रह्मणि समन्वये तत्तन्नामनिमित्तगुणलाभसंभवादत्रत्यानां तथासमन्वयो विफल एव । अस्य वाक्यविधयैव ब्रह्मणि सर्वशब्दपरत्वरूपार्थपरत्वे काप्यनुपपत्तिर्नास्ति । येनैवं समाधानमनुसर्तव्यमिति चेत्समाहितमेतत्प्रागेव सर्ववेदगतशब्दवाच्यत्वस्यापि मुमुक्षुणा ज्ञेयत्वादिति । एतेन वर्णानां पञ्चाशत्त्वाद्यत्रक्वचन गतानां तेषां समन्वयेनाप्युपपत्तेर्न सर्ववेदानां स कार्य इति प्रत्युक्तम् । अन्यथा ‘‘वेदाक्षराणि यावन्ति पठितानि द्विजातिभि’’रित्यादौ तदुक्तिर्न स्यात् । नन्विदं वाक्यं सर्ववाक्यगतानामपि पदानां ब्रह्मणि वृत्तिं ब्रुवत्स्वगतानामपि वक्तिचेत्स्ववृत्तिविरोध इत्यत आह ।। स्वाध्याय इति ।। यथा ‘‘स्वाध्यायोऽध्येतव्य’’ इति वाक्यं सर्वस्वाध्यायमध्ययनद्वारार्थज्ञाने विनियुंजानं स्वात्मानं च विनियुङ्क्ते । अन्यस्याभावात् । भावेवाऽनवस्थाद्यापत्तेः । तद्वदिदमपि । विरोधस्त्वप्रमितस्थले वा इतरसाहित्यरहितस्वात्मवृत्तिस्थले वेति भावः ।
चन्द्रिकाबिन्दुः
गर्गरेति ।। गर्गरो नाम पादभूषणम् । दधिमन्थनादयः तज्जन्याश्शब्दः गर्गरादिशब्दाः । पिङ्गशब्दः चकोरवचनः । परिचनिष्कदत् इत्यनेन तदीयशब्दानुकरणम् ।। विशिष्य तद्वाचितेति ।। ब्रह्मोद्यतमित्यनेनेति शेषः । घोषवेदसाधारण्येनाद्यश्रुतिः वेदमात्रविषये द्वितीयश्रुतिः । इदानीं वेदस्थवर्णविषये श्रुतिमाह ।। णकार इति ।। सृजतो हि श्रुतय इत्यादि ।। जगतः सृष्टौ सत्यां हि तान् विषयीकृत्य विधिनिषेधप्रवृत्तिः । प्रलयकाले तु विध्यादिरूपो वेदः परब्रह्मस्तुतिमात्ररूप इति भावः । एवं सर्ववेदादीनां भगवत्परत्वे प्रमाणानि सामान्यत उक्तवेदानीं वैदिकार्थं योगेन कृत्वा यत्किञ्चिदर्थान्तरस्वीकारलक्षणातिप्रसङ्गनिवृत्त्यर्थं, तत्तन्मुख्याविरोधेन तच्छब्दं मुख्यार्थत्वेन लोकप्रसिद्धार्थान्तराविरोधेन तं यच्छतं वर्षाणीति वाक्यस्य पदसमन्वयस्य प्रमाणत्वे बाधकमाशङ्क्य निराकरोति ।। न च तं यच्छतं वर्षाणीति ।। पदसमन्वयादिति ।। पदसमन्वयपक्षे तमिति ब्रह्म यदिति ब्रह्म शतमिति ब्रह्म एवं च ब्रह्मणश्शतशब्दवाच्यत्वलक्षणसंसर्गो न सिध्येत् । तथा च सर्वशब्दवाच्यत्वमपि न सिध्येत् । प्रमाणाभावात् । तं यश्चन्तमित्यादिवाक्यस्य लोकप्रसिद्धपदार्थसंसर्गबोधकत्वं नास्ति उतास्ति । आद्ये पदसमन्वयस्यासिध्द्या पूर्वोक्तपदसमन्वयादिति हेतुत्वसिद्धिः । द्वितीये लोकप्रसिद्धपदार्थसंसर्गबोधकमुपजीव्य प्रवृत्तः पदसमन्वयः तं संसर्गबोधं न विरुणद्धीत्यभिप्रायेण विकल्पमभिप्रेत्य दूषणमाह ।। अस्य लोकप्रसिद्धेति ।। । ननु तं यच्छतमिति वाक्यं स्वयमेव पदसमन्वयप्रयोजकं सत् स्वस्यापि पदात्मकत्वेन नियोज्यत्वं सम्पादयतीत्यत आह ।। स्वाध्यायोऽध्येतव्य इति ।।