अव्यवधानेन सूतिहेतुत्व..
एतेनाधिकरणम्
तात्पर्यचन्द्रिका
शून्यादिशब्दा: अपि ब्रह्मवाचका इति समर्थनम्
।। ॐ एतेन सर्वे व्याख्याता व्याख्याताः ॐ ।।
अव्यवधानेन सूतिहेतुत्व रूपप्रकृतित्वमुक्तरीत्या ब्रह्मणि युक्तम् । रूपाहानेः । न तु निषेध्यत्वादिरूपमसत्त्वादिकम् । रूपहानेः । तस्मात् ‘‘असद्वा इदमग्र आसी’’दित्यादिवाक्यस्थासच्छून्यादिशब्दवाच्यो न विष्णुः । न चासत्त्वस्य तद्गतत्वाभावेऽपि तदधीनत्वादसच्छब्दवृत्तिः । असतो निःस्वरूपस्य नियमनाभावेनेशानधीनत्वादित्याक्षेपात्सङ्गतिपूर्वपक्षौ ।
सिद्धान्तस्तु ।। प्रसिद्धस्य शून्यत्वादेर्ब्रह्मगतत्वाभावेऽपि ‘‘शमूनं कुरुत’’ इत्यादिभाष्योक्तस्यानुव्याख्यानोक्तस्य दुर्जनाव्यक्तत्वस्य च निमित्तस्य तद्गतत्वात्प्रसिद्धस्यापि तदधीनत्वाच्च शून्यादिशब्दवृत्तिः । शशविषाणादेरप्यत्यंताभावप्रतियोगित्वमीशाधीनम् ।
उत्पिपादयिषेदीशो यदि शृङ्गं शशादिके ।
गवादाविव जायेत तदभावादभूदसत् ।। १ ।।
प्रकाशिका
अत्र निषेधार्थाः शून्यादिशब्दा उदाहरणमिति प्रागेवोक्तम् । ‘‘असद्वा इदमग्र आसी’’दित्यादिश्रुतिगतासदादिशब्दाः किमन्यपरा उत ब्रह्मपरा इति चिन्ता । तदर्थमसदादिशब्दप्रवृत्तिनिमित्तं ब्रह्मणि न युक्तमुत युक्तमिति चिन्ता । तदर्थं किं प्रसिद्धं निस्स्वरूपत्वादिकमेवासदादिशब्दप्रवृत्तिनिमित्तमुतान्यदिति । तथा प्रसिद्धत्वेऽपि तत्प्रति स्वातन्त्र्यं न युक्तमुत युक्तमिति चिन्तापरंपरा सुज्ञा(ते)नेति तामनुक्त्वा पूर्ववैषम्येण पूर्वपक्षटीकां विवृण्वन् सङ्गतिं चाह ।। अव्यवधानेनेति ।। सङ्गतीति ।। प्रत्युदाहरणरूपेत्यर्थः । एतेन ‘‘तेषां निषेधमुखवेद्यवस्तु वाचित्वा’’दित्यादिटीका विवृता । ‘‘दुर्जनानामव्यक्तत्वादिने’’त्यादिटीकां विवृण्वन् सिद्धान्तयति ।। प्रसिद्धस्येति ।। शमूनं कुरुते विष्णुरदृश्यस्सन् परस्स्वयम् । तस्माच्छून्य’’ इत्यादिकौर्मस्मृत्युक्तस्यैव ‘‘कम्पना’’दित्यत्रोक्तन्यायेन श्रुतौ ग्राह्यत्वादिति भावः ।। उक्तस्येति ।। ‘‘उत्पादनं स्वदेहाच्च दुर्जनाव्यक्तता तथे’’त्युक्तस्येत्यर्थः । ‘‘न चासतोऽन्याधीनत्वायोग’’ इत्यादिटीकां व्यनक्ति ।। प्रसिद्धस्यापीति ।। तदेव व्यनक्ति ।। उत्पिपादयिषेदिति ।।
चन्द्रिकाबिन्दुः
प्रसिद्धस्यापीति ।। अत्यन्ताभावप्रतियोगित्वादेरित्यर्थः । तदभावात् उत्पिपादयिषाभावात् ।