पूर्वाधिकरणेष्वेकैकगुण एकैकदोषाभावे च युक्तयविरोध उक्तः
तात्पर्यचन्द्रिका
विष्णो: सर्वगुणपूर्णत्वनिर्दोषत्वसमर्थनम्
ॐ सर्वधर्मोपपत्तेश्च ॐ ।।
पूर्वाधिकरणेष्वेकैकगुण एकैकदोषाभावे च युक्तयविरोध उक्तः । अत्र तूपसंहारसूत्रे सर्वत्रेति सङ्गत्यादिकम् । अत्र विष्णोरुक्तं निर्दोषगुणपूर्णत्वं न युक्तमुत युक्तमिति चिन्ता । तदर्थं किं गुणित्वे कदाचिद्दोषित्वं प्रयोजकं अत एव दोषाभावे गुणाभाव उत दोषित्वे दोषपरिहाराशक्तिर्गुणाभावे च गुणसम्पादनाशक्तिः प्रयोजिकेति । पूर्वपक्षस्तु । गुणिनः कदाचिद्दोषित्वनियमादीश्वरस्य गुणित्ववद्दोषित्वं वा दोषाभाववद्गुणाभावो वा । न तु चेतनान्तरेष्वदृष्टासर्वगुणपूर्तिर्दोषमात्रराहित्यं चेति । सिद्धान्तस्तु ।
नित्यनिर्मुक्तदोषं च सदासम्प्राप्तसद्गुणम् ।
परं ब्रह्म भवेत्तत्र प्रेप्साशक्तियुतत्वतः ।। १ ।।
ब्रह्म सदाप्राप्तसर्वसद्गुणं तत्प्रेप्सुत्वे सति तत्र शक्तत्वात्संमतवत् । तथा सदा त्यक्तसर्वदोषं तज्जिहासुत्वे सति तत्र शक्तत्वात् । संमतवत् । प्रेप्सादिकं च प्रेक्षावत्त्वेनेत्युपपत्त्यनुगृहीतया सौत्रचशब्दोपात्तया ‘‘गुणाः श्रुता’’ इत्यादिभाष्योदाहृतया श्रुत्या गुणदोषाभावरूपसर्वधर्मसिद्धिरिति । इदं सूत्रं सर्वधर्मविनिर्मुक्तब्रह्मवादिनां प्रतिकूलमिति स्फुटमेव । अस्मिन्पाद आद्येऽधिकरणत्रिके वेदस्याप्रमाणत्वादीश्वरस्यैवाभावाज्जन्मादिसूत्रोक्तं लक्षणमसम्भवीत्याक्षिप्य तन्निरास इत्याद्यत्रिकमेका पेटिका । तत्राप्याद्येऽधिकरणे स्मृतिविरोधेन साक्षात्सर्ववेदप्रामाण्याक्षेपः । द्वितीये कारीर्यादिविधिवाक्याप्रामाण्यसाधकयुक्तिविरोधमुखेन सर्ववेदप्रामाण्याक्षेपः । तृतीये ‘‘मृदब्रवी’’दित्यादि सिद्धार्थवाक्याप्रामाण्यसाधकदृष्टयुक्तिविरोधमुखेन सर्ववेदप्रामाण्याक्षेपः । चतुर्थमारभ्याधिकरणचतुष्टये वेदप्रामाण्यमीश्वरस्वरूपं च स्वीकृत्योक्तलक्षणाक्षेप इत्यधिकरणचतुष्टयमेका पेटिका । तत्राद्ये श्रुत्युपसर्जनकयुक्तिविरोधेन लक्षणमसम्भवीत्याक्षेपः । द्वितीये बहुश्रुतिसिद्धयुक्तिविरोधेन लक्षणमसम्भव्यतिव्याप्तं चेत्याक्षेपः । तृतीये विष्णोः कर्तृत्वेऽपि बहुयुक्तिविरोधाज्जन्मादिसूत्राभिप्रेतं स्वतन्त्रकर्तृत्वमसम्भवीत्याक्षेपः । चतुर्थे तु विष्णोर्महदादौ स्वतन्त्रकर्तृत्वेऽपि श्रुतिप्रत्यक्षसंवादियुक्तिविरोधान्न घटादिकर्तृत्वमित्याक्षेपः । अष्टमे सप्तमोक्तो जीवस्य स्वतन्त्रकर्तृत्वे यस्तर्कविरोधः सर्व ईश्वरेऽपि सम इति व्याघातपर्यवसायितर्कविरोधे शङ्किते शुष्कतर्कागोचरत्वादिना तदुद्धारः । एवं हेतुमुखयुक्तिविरोधेषु निरस्तेषु नवमदशमाभ्यां फलमुखैरीश्वरस्य दोषित्वपर्यवसायिभिर्लिङ्गश्रुत्यनुगृहीतैर्दृढतर्कैर्विरोधे शङ्किते तन्निरास इति द्विकमेका पेटिका । एकादशे तु जिज्ञासासूत्रब्रह्मशब्देन सूचितस्य जन्मादिसूत्रे सम्भावितस्य पूर्णगुणत्वस्याक्षेपे तदुद्धार इति द्रष्टव्यम् । अत्रानुव्याख्याने
स्मृतियुक्तिश्रुतिगुणयुक्तयो बहुयुक्तयः ।
एवं चतुर्विधा नैव विरुध्यंतेऽन्वयं प्रति ।।
इत्येतत्पादीयाधिकरणानामुपाधय उक्ताः । तत्राद्येऽधिकरणे स्मृत्या द्वितीये युक्तया तृतीये दृढयुक्तया चतुर्थे श्रुतिसंवादियुक्तया विरोधनिरास इति स्पष्टम् । स्मृतियुक्तीत्यत्र युक्तिशब्दस्य दृढादृढयुक्तिपरत्वात् । पञ्चमे बहुश्रुतिसिद्धयुक्तया षष्ठे बहुयुक्तिभिः सप्तमे बहुप्रमाणसंवादियुक्तया अष्टमे व्याघातपर्यवसायितया बहुमतयुक्तया नवमे प्रयोजनोद्देशेनुद्देशे च दोष इति बहुसुदृढयुक्तया दशमे कर्मादिसापेक्षत्वेऽनपेक्षत्वे च दोष इति बहुमुखदृढयुक्तया एकादशे निर्दोषत्वेति पूर्णगुणत्वमहाप्रमेयविरोधित्वेन बहुमतयुक्तया विरोधनिरास इति पञ्चममारभ्य सप्ताप्युपाधयो बहुयुक्तिशब्देन विवक्षिता इति ।। द्रष्टव्यम् ।। छ ।। सर्वधर्मोपपत्त्यधिकरणम् ।। ११ ।।
इति श्रीमद्ब्रह्मण्यतीर्थपूज्यपादानां शिष्येण व्यासयतिना विरचितायां श्रीमद्भाष्यटीकाविवृतौ तात्पर्यचन्द्रिकायां द्वितीयाध्यायस्य प्रथमः पादः ।। २ ।। १ ।।
प्रकाशिका
‘‘उपसंहरती’’ति भाष्यादिसूचितमाह ।। एकैकेति ।। कर्तृत्वादौ वैषम्याद्यभावादौ चेत्यर्थः । अधिकरणोपाधिरगतार्थता चादिपदार्थः । ‘‘विष्णोर्गुणपूर्णत्वं विषय’’ इत्यादिटीकां व्यनक्ति ।। अत्रेति ।। यदि दोषित्वप्रयुक्तं गुणित्वं तदभावे च तदभावस्तदा विष्णोर्दोषित्वे विशेषणाभावाद्दोषाभावे च विशेष्याभावान्न निर्दोषगुणपूर्णत्वम् । यदि तु द्वितीयस्तदोभयत्र शक्तत्वान्निर्दोषगुणपूर्णं ब्रह्मेति स्पष्टः फलफलिभाव इति भावः । टीकायामस्फुटत्वात्सुधातात्पर्यविवरणेन टीकां व्यनक्ति ।। पूर्वपक्षस्त्विति ।। ‘‘उपपत्ते’’रिति सौत्रन्यायं सुधायां विवृतं सङ्गृह्याह ।। नित्येति ।। सद्गुणं चेत्यन्वयः । न्यायद्वयमेतत् । प्रेप्सेति चोपलक्षणमिति भावेन सङ्ग्रहं व्याचष्टे ।। ब्रह्मेति ।। सत्त्वादिव्यावृत्तये सदिति गुणविशेषणम् । तेन ‘‘केवलो निर्गुणश्चे’’त्यादिश्रुतिबाधः प्रत्युक्तः । विशेषणासिद्धिं निराह ।। प्रेप्सेति ।। विशेष्यं तु ‘‘आत्मनि चैवं विचित्राश्च ही’’त्यादिना सिद्धमिति भावः । उक्तप्रमेयस्य सङ्ग्रहेण बुद्ध्यारोहाय पेटिकासङ्गतीराह ।। अस्मिन्निति ।। कथं त्रित्वमित्यतोऽवान्तरभेदमाह ।। तत्रापीति ।। समयपादीयाद्यनुव्याख्यानस्यैतत्पादीयसर्वाधिकरणोपाधिपरत्वं सुधायां न प्रतीयत इति स्वयं तद्विवृणोति ।। अत्रानुव्याख्यान इति ।। बहुमुखेति ।। अनेकत्वोपलक्षणमिति भावः ।। छ ।। सर्वधर्मोपपत्त्यधिकरणम् ।। ११ ।।
इति श्रीमत्सर्वतन्त्रस्वतन्त्रसुधीन्द्रगुरुपादशिष्यराघवेन्द्रयतिकृते
चन्द्रिकाप्रकाशे द्वितीयस्य प्रथमः पादः ।। २ ।। १ ।।
चन्द्रिकाविवृतिः
ॐ सर्वधर्मोपपत्तेश्च ॐ ।। सङ्गत्यादिकमिति ।। आदिशब्देनागतार्थता च द्रष्टव्या ।। अत एव दोषित्वस्य गुणित्वं प्रति व्यापकत्वादेव ।। स्युर्दोषाश्च कथंचनेति अनुव्याख्यनोक्तपरिहारसूचितां शङ्कां दर्शयति ।। पूर्वपक्षस्त्विति ।। तत्प्रेप्सुत्वे सति तत्र शक्तत्त्वादिति ।। अनेन तत्प्रेप्सुत्त्वे सति स्वतन्त्रत्वादिति सुधास्थो हेतुर्विवृतः ।। ननु गुणादावीश्वरस्य प्रेप्सैव नास्तीत्यत आह ।। प्रेप्सादिकं चेति ।। वेदप्रामाण्यमीश्वरस्वरूपं च स्वीकृत्येत्यनेन पूर्वपेटिकानंतर्यमुत्तरपेटिकायामुक्तमिति दर्शयति । साक्षाद्विरोधमुखेन श्रुत्युपसर्जनश्रुतिसिद्धबह्वसम्भव्यतिव्याप्तमित्याद्युक्तया तदधिकरणानामपि क्रमे निमित्तं सूचयतीति ध्येयम् ।। एवं हेतुमुखयुक्तिविरोधेष्वित्यनेन पूर्वाधिकरणानि सप्तापि हेतुमुखयुक्तिविरोध-परिहाररूपत्वेनैका पेटिकेत्यपि सूचयति ।। ननु भवदुक्तोपाधिकरणोपाधयः अनुव्याख्यानादिष्वनुक्ता इत्याशङ्क्य बहुयुक्तय इति पदेनानेकाधिकरणोपाधयः सङ्गृहीता इति मनसि निधायाह ।। अत्रानुव्याख्यान इति ।। बहुमतयुक्तया दृढत्वेन बहुमतयुक्तया । दृढत्वं च व्याघातपर्यवसायितया ।। ६ ।।
इति द्वितीयाध्यायस्य प्रथमः पादः ।। ६ ।।