अधिकरणसङ्गतिमाह

तदभिध्यानाधिकरणम्

तात्पर्यचन्द्रिका

विष्णो: सर्वकर्तृत्वसमर्थनम्

ॐ तदभिध्यानादेव तु तल्लिङ्गात्सः ॐ ।।

अधिकरणसङ्गतिमाह ।। एवमिति ।। अत्र पूर्वोक्तं विष्णोः सर्वसंहर्तृत्वं किं रुद्रस्य सर्वसंहर्तृत्वश्रुतिविरुद्धं न वेति चिन्ता । तदर्थं ‘‘प्राणानां ग्रन्थिरसि रुद्रो मा विशान्तक’’ इति रुद्रस्य संहर्तृत्वश्रुतिः किं स्वातन्त्र्येण सर्वसंहर्तृत्वपरा उत कतिपयसंहारे रुद्रस्य द्वारत्वमात्रपरेति । तदर्थं पितुरन्यस्यैव मारकत्वदर्शनयुक्त्यनुगृहीता रुद्रस्य संहर्तृत्वश्रुतिः किं ‘‘यमप्येति भुवनं सांपराये स नो हरि’’रिति विष्णोः सर्वसंहर्तृत्वश्रुतितः प्रबलोत नेति । तदर्थं लोके पितुरमारकत्वे पितृत्वमेव तन्त्रं (उत्पादकस्यामारकत्वे किमुत्पादकत्वमेव प्रयोजकम्) किं वा ममतादिदोषयुक्तत्वमिति । यद्यपि सृष्टेरनन्तरा स्थितिः तथापि विष्णोः स्थितिहेतुतायामविवादात्पितुरन्यस्यैव मारकत्ववत्स्थापकत्वस्यादृष्टेश्च सृष्ट्यनन्तरं लयविचारो युक्तः । ‘‘पितुरन्यस्यैव मारकत्वदृष्टे’’रिति न्यायविवरणोक्तां पूर्वपक्षयुक्तिं विवृणोति ।। पितुरन्यस्यैवेत्यादिना ।। अत्र पितृशब्देन न केवलं जनको विष्णुः किन्तु रक्षकश्च । न च रक्षकस्य संहर्तृत्वं युक्तमिति सूचितम् । ‘‘तस्याभिध्याना’’दित्यस्येच्छावत्त्वरूपेऽभिध्यातृत्वे श्रुतित्वेऽपि जन्मादिसूत्रोक्ते प्रयत्नवत्त्वरूपे कर्तृत्वे लिङ्गत्वात्सूत्रे लिङ्गशब्दो युक्त इत्यभिप्रेत्य इच्छायाः प्रयत्ने लिङ्गत्वं प्रश्नपूर्वकं दर्शयति ।। किं चात इत्यादिना ।। तत्वभावादित्यस्य व्याख्या यथार्थध्यानादिति । ननु ‘‘किमु सादेर्जगत’’ इति पूर्वभाष्येऽनुषक्तेन ‘‘तत्कर्तृत्वं प्रतीयत’’ इत्यनेनैव जगत्संहर्तृतोक्ता । सैव ‘‘इत्येतस्मादेव संहारकर्ते’’ त्युत्तरभाष्ये संहारकर्तृत्वे हेतुत्वेनोच्येत । तदयुक्तम् । साध्यावैशिष्ट्यादित्याशङ्क्य पूर्ववाक्योक्तया शक्तयोत्तरवाक्योक्तः प्रयत्नः साध्यते । अतो न दोष इत्याह ।। कर्ता विष्णुरिति प्रतीयते । शक्तस्यैव तत्सम्भवादिति ।। अत्रेति भाष्यप्रतीकम् । तस्यार्थः परतन्त्रेऽपीति ।। पूर्वत्र सम्बध्यत इति ।। पूर्वत्रापि सम्बध्यत इत्यर्थः । अन्यथा ‘‘न तु सर्वात्मनेरित’’मित्यस्य पूर्वस्य विशेषणस्य ‘‘एकदेशक्रिया चे’’त्यनेन विशेष्येणानन्वयादसङ्गतिः स्यात् । उत्तरं च समस्तमिति विशेषणं विशेष्यसाकाङ्क्षत्वादनन्वितं स्यादिति भावः । ‘‘लोकपितृवैरूप्याद्विष्णो’’रिति न्यायविवरणोक्तां सिद्धान्तयुक्तिं विवृणोति ।। ममत्वादिदोषराहित्येन लोकपितृवैलक्षण्यादिति ।।

प्रकाशिका

‘‘प्रकृताधिभूताधिदैवानि विषय’’ इत्यादिटीकां तात्पर्यतो विवृणोति ।। अत्रेति ।। पूर्वोक्तं जन्मादिसूत्रोक्तम् । ‘‘प्राणानां ग्रन्थिरसी’’त्यादिभाष्यादिसूचितां चिन्तामाह ।। प्राणानामिति ।। ‘‘लोके पितुरन्यस्यैवे’’त्यादिटीकासूचितामाह ।। पितुरिति ।। मारकत्वेति ।। सापेक्षत्वात्समासः । ‘‘ममत्वादिदोषे’’त्यादिसिद्धान्तटीकासूचितामाह ।। लोके पितुरिति ।। लयचिन्ताया असङ्गतत्वमाशङ्क्य निराह ।। यद्यपीति ।। ‘‘न स्वयमुत्पाद्य पालयितुर्विष्णोर्जगत्संहरणं न्याय्य’’मिति तत्वप्रदीपदिशा पितृशब्दार्थमाह ।। अत्र पितृशब्देनेति ।। पूर्वत्रेति ।। पूर्वत्रापीति कुतो व्याख्येत्यत आह ।। अन्यथेति ।।

चन्द्रिकाविवृतिः

।। ॐ तदभिध्यानात् ॐ ।। रुद्रस्य द्वारत्त्वमात्रपरेति ।। अनेन नच भाक्तार्थत्त्वेनाविरोध इति टीकावाक्याशयो वर्णितः ।। अत्र जनकशब्दमगृहीत्वा पितृशब्दस्य जनकरक्षकसाधारणस्य ग्रहणेन सूचितमर्थं दर्शयति ।। अत्र पितृशब्देनेति ।। ननु लिङ्गादिति व्यर्थं अभिध्यातृत्त्वे तस्याभिधानादित्यस्य श्रुतित्त्वात् ।। न च सर्वजगद्विषयप्रयत्नवत्त्वरूपे कर्तृत्त्वे तदभिध्यानािङ्गमिति कृत्त्वा लिङ्गग्रहणमिति वाच्यम् ।। तादृशकर्तृत्त्वसाधनस्यापि प्रयोजनाभावादित्याशङ्क्याह ।। तस्याभिध्यानादित्यादिना ।। जन्मादिसूत्रोक्तत्त्वात्तत्कर्तृत्त्वप्रयत्नवत्त्वरूपं साधनीयमिति भावः ।।