अन्ये तु

परमतपरीक्षा

तात्पर्यचन्द्रिका

अन्ये तु ब्रह्म कार्यं कारणत्वात् पटादिवदिति प्राप्ते सन्मात्रं हि ब्रह्म । तस्य न तावत्सन्मात्रादुत्पत्तिः । अतिशयाभावे कार्यकारणभावायोगात् । नापि सत् विशेषात् । विशेषात्सामान्यस्यानुत्पत्तेः । नाप्यसतः । तस्य निरात्मकत्वादिति सिद्धान्त इत्याहुः । तन्न । मम रीत्या ‘‘असतः सदजायते’’त्यादिश्रुत्या ब्रह्मणः कार्यत्वशङ्कायाः पादसङ्गतायाः सम्भवेऽप्रयोजकेन कारणत्वेन तदसङ्गततच्छङ्कायोगात् । यच्चोक्तं सत्सामान्यं ब्रह्मेति । तन्न । परमार्थसतो ब्रह्मणो व्यावहारिकसदाद्यनुगत्ययोगात् । परमार्थसति च सामान्यविशेषभावाभावात् । सद्व्यक्तीनां च सत्त्वाविशेषेऽपि शक्तशक्यत्वादिविशेषेणैव द्रव्यादिव्यक्तीनामिव कार्यकारणतोपपत्तेः । यत्तूक्तं भामत्यां अधिष्ठानार्थमपेक्षितेन सत्त्वेन ब्रह्मण आरोपितत्वमिह निषिध्यते । आरोपितता हि कार्यतेति । तत्र प्रक्रमानानुगुण्यम् । न हि पूर्वाधिकरणयोः ‘‘आत्मन आकाशः सम्भूत’’ इत्यादिश्रुत्याऽऽकाशवाय्वादेरात्माकाशादावारोपितत्वमुक्तम् । येनेह ब्रह्मणि तदाशङ्क्य निषिध्येत । सौत्रासम्भवपदास्वारस्यं च । ‘‘नात्मा श्रुते’’रित्यनेन पौनरुक्तयं च । न चात्र ब्रह्मणोऽनुत्पत्त्युक्तिः । नात्मेत्यत्र तु तस्माद्भिन्नस्य जीवस्येति वाच्यम् । विशिष्टरूपस्य जीवस्य ब्रह्मणश्चारोपितत्वात् । आरोपितस्य च निवृत्तिनियमात् । चिन्मात्रानारोपस्य चैकेनैव सिद्धेः ।

केचित्तु असम्भवोऽनुत्पत्तिः सत एव ब्रह्मण एव । अन्यत्तु महदादिकमुत्पद्यत इत्येवं महदादेरुत्पत्त्यर्थमिदं सूत्रमित्याहुः । तन्न । अवक्तव्योक्तेरवश्यवक्तव्यानुक्तेश्च । वियदधिकरणोक्तैरेकविज्ञानेन सर्वविज्ञानादिन्यायैः सिद्धा हि महदादेरुत्पत्तिः पृथगवक्तव्या । अवश्यवक्तव्या च सतोऽनुत्पत्तिः ‘‘सदजायते’’त्यादिश्रुत्यविरोधाय ।। छ ।। असम्भवाधिकरणम् ।। ३ ।।

प्रकाशिका

अन्ये त्विति ।। ‘‘सदेकस्वभावस्योत्पत्त्यसम्भवः । कुतः । अनुपपत्ते’’रिति सूत्रार्थो भामत्यां व्यक्तः । तत्र सतोऽनुपपत्तेरित्यंशार्थो भाष्य उपपादितः । तमनुवदति ।। सन्मात्रं हीति ।। पादसङ्गताया इति ।। श्रुतिविप्रतिषेधशङ्काया एव पादसङ्गतत्वेन युक्तिविरोधशङ्काया असङ्गतत्वादित्यर्थः । सन्मात्रमित्यस्य किं व्यावहारिकप्रातिभासिकरूपसद्विशेषानुगतसन्मात्रमित्यर्थ उत पारमार्थिकसद्विशेषायावन्तस्तावदनुगतपरमार्थसन्मात्रं वेत्यर्थ इति विकल्पौ हृदि कृत्वाऽऽद्य आह ।। परमार्थसत इति ।। द्वितीय आह ।। परमार्थसतीति ।। तथा च सन्मात्रमित्यस्य परमार्थसन्मात्रमित्यर्थो न युक्त इति भावः । यदपि तस्य न तावत्सन्मात्रादुत्पत्तिरिति तदपि नेति भावेनाह ।। सद्व्यक्तीनां चेति ।। यथा दण्डघटतन्तुपटादिद्रव्यव्यक्तीनां द्रव्यत्वाविशेषेऽपि दण्डादिघटादिजनने शक्तं घटादिकं तु दण्डादिनिष्ठशक्तिविषय इति शक्तशक्यत्वरूपविशेषेण पूर्वापरीभावलक्षणविशेषेण वा कार्यकारणभाववद्भवति तथा सत्त्वाविशेषेऽपि शक्तशक्यत्वादिविशेषेणैव तथाभावोपपत्तेरित्यर्थः ।। अधिष्ठानार्थमिति ।। जगदारोपस्य निरधिष्ठानत्वानुपपत्त्या ब्रह्मणोऽधिष्ठानस्य सत्त्वमवश्यमपेक्षितमिति तेन सत्त्वेन हेतुनाऽऽरोपितत्वं ब्रह्मणो नेत्युच्यतेऽसम्भवस्त्विति सूत्र इत्यर्थः । ‘‘विवर्तता हि कार्यते’’ति कल्पतरूक्तमाह ।। आरोपितता हीति ।। सौत्रासम्भवपदेति ।। यद्यपि भामत्यां ‘‘उत्पत्त्यसम्भव’’ इत्येवार्थ उक्तः । न त्वसम्भवपदस्यैवानुत्पत्त्यर्थकत्वम् । येनासम्भवपदस्यानारोपार्थत्वमस्वरसं स्यात् । तथा चारोपासम्भव इत्येवार्थोऽभिमतः । तथापि भाष्ये ‘‘सत उत्पत्तिर्नाशङ्कितव्ये’’त्युक्तयाऽसम्भवपदस्यैवानुत्पत्तिरर्थः परभाष्येऽभिमत इति तद्रीत्या वा उत्पत्त्यसम्भव इत्यर्थवर्णनापेक्षया श्रुतासम्भवपदस्यैवानुत्पत्त्यर्थत्वमुचितमित्युपेत्य वाऽऽरोपार्थत्वे तत्पदास्वारस्यमिदमुक्तमिति ध्येयम् । यत्तु कल्पतरावेतदेव पौनरुक्तयमाशङ्क्य ‘‘तत्र हि ब्रह्मनित्यत्वमुपेत्यैव जीवस्य तदुत्पत्तिराशङ्किष्यत’’ इत्यादिना समाहितं तदनूद्य निराह ।। न चात्रेति ।। अनुत्पत्त्युक्तिरिति ।। तत एव नित्यत्वोक्तिश्चेत्यपि ध्येयम् । किं ब्रह्मजीवशब्दाभ्यां विशिष्टमभिमतमुत चिन्मात्रमिति कल्पौ हृदि कृत्वा क्रमेण प्रत्याह ।। विशिष्टेति ।। आरोपितत्वादिति ।। आरोपस्यैवोत्पत्तिपदार्थत्वोक्तेरनुत्पत्त्युक्तिरयुक्तेत्यर्थः । नित्यत्वोपगमश्चायुक्त इत्याह ।। आरोपितस्य चेति ।। एकेनैव अधिकरणेनेत्यर्थः । ‘‘अन्ये त्वेवं व्याकुर्वत’’ इत्यादिसुधोक्तं विवरितुमाह ।। केचित्त्विति ।। तन्मते हि नेदमधिकरणान्तरम् । अपि तु ‘‘एतेने’’ति सूत्रवदिदमपि पूर्वशेष एव । तत्र ‘‘असम्भवस्तु सत’’ इत्येतदंशार्थमनुवदति ।। असम्भवोऽनुत्पत्तिरिति ।। तुशब्दोऽवधारणार्थः । असम्भवः अनुत्पत्तिः । सतः ब्रह्मण एवे’’ति सद्भाष्योक्तेरिति भावः । अनुपपत्तेरित्यस्यैकविज्ञानेन सर्वविज्ञानानुपपत्तेरित्यर्थकस्य एवकारव्यावर्त्यतया प्राप्तेन महदादिकमुत्पद्यत इति साध्येनान्वयः । ब्रह्मणोऽनुत्पत्तेरदृश्यत्वाधिकरणे ‘‘नित्यं विभुं सर्वगतं सुसूक्ष्मं स बाह्याभ्यंतरो ह्यज’’ इति नित्यत्वाजत्वयोरुक्तया सिद्धत्वेनावक्तव्यत्वाद्वियन्मातरिश्व नोरुत्पत्तेरुक्तत्वात्परिशेषान्महदादेरुत्पत्त्यर्थमिदं सूत्रमित्याहुरित्यर्थः ।। पृथगवक्तव्येति ।। प्रागुक्तस्योपरि मन्मते ‘‘एतेने’’त्यत्रेव ‘‘ज्ञोत एवे’’त्यत्रेव च त्वन्मते विशेषशङ्कानुक्तेरिति भावः । अवश्यवक्तव्यत्वे बीजमाह ।। सदजायतेति ।। छ ।। असम्भवाधिकरणम् ।। ३ ।।

चन्द्रिकाविवृतिः

अतिशयाभावे इति ।। कारणात्कार्ये कश्चिदतिशयः सर्वत्रानुभूयत एवेति भावः ।। पादसङ्गताया इति ।। न तु कारणत्वादियुक्ति-विरोधशङ्काश्रुतिविरोधपरिहारात्मके पादेऽस्मिन् सङ्गतेति परपक्षे दूषणं सूचितमिति ध्येयम् । ।। परमार्थसतो ब्रह्मण इति ।। ब्रह्मणः सत्सामान्यत्वे त्रिविधसत्ताश्रयत्वमपि वक्तव्यमेव । तच्चायुक्तम् । तस्य पारमार्थिकत्वेन इतरसत्ताश्रयत्त्वायोगादिति भावः ।। परमार्थतत्सामान्यत्वमस्त्वित्याशङ्क्य परमार्थसद्य्वतिरेकत्त्वात्परमार्थसत्सामान्यमपि न ब्रह्मण इत्याह ।। परमार्थसतीति ।। शक्तशक्यत्वादीति ।। किंचिच्छक्तं किंचिच्छक्यं किंचिद्विशेषणकं किंचिद्विशेष्यकमित्यादीत्यर्थः ।। ननु ब्रह्मणः आरोपितत्वनिषेधेऽपि न कार्यत्त्वनिषेध इत्यत आह ।। आरोपितताहीति ।। आत्माकाशादाविति ।। आत्मनि कथंचिदाकाशारोपसम्भवाभिमानेप्यनाकाशे वाचारोपासम्भवात्तस्मात्स्वरूपोत्पत्तिरारोपाति-रिक्तांगीकार्येति भावः ।। असम्भवपदेति ।। सम्भवपदस्य•ोके उत्पत्तावेव प्रसिद्धत्त्वेनारोपेऽप्रयोगादिति भावः ।। ब्रह्मजीवशब्दाभ्यां विशिष्टचिद्गृह्यते चिन्मात्रं वेति विकल्प्याद्यं दूषयति ।। विशिष्टरूपस्येति ।। द्वितीयमाह ।। चिन्मात्रानारोपस्येति ।। अवक्तव्योक्तिं अवश्यवक्तव्यानुक्तिं च क्रमेणोपपादयति ।। वियदधिकरणोक्तैरित्यादिना ।