सिद्धान्तस्तु
सिद्धान्तनिरूपणम्
तात्पर्यचन्द्रिका
सिद्धान्तस्तु ।।
शूद्रशब्दस्य रूढत्वे रथवत्त्वादिबाधकम् ।
रथकारादिशब्दे तु रूढेर्नैवास्ति बाधकम् ।। १ ।।
अस्ति ह्यत्र ‘‘अयमश्वतरीरथ’’ इति वाक्यशेषस्थं पौत्रायणस्य रथवत्त्वं रूढेर्बाधकम् । भाष्योक्तस्मृत्या शूद्रे रथायोगात् । यद्यपि ‘‘न वेदो यत्र नो रथ’’ इति स्मृत्या रथस्य वेदं प्रति व्याप्यत्वेऽपि पूर्वपक्षिणा शूद्रेऽपि वेदाङ्गीकारान्न रथेन लिङ्गेन वेदानुमानद्वारा शूद्रत्वाभावसिद्धिः । तथापि क्षत्रिये रथस्य स्वाभाविकत्वात्तदन्यत्र चागन्तुकत्वात्स्वाभाविकसम्भवे च नैमित्तिकग्रहणायोगात्साक्षाद्रथेनैव क्षत्रियत्वसिद्धिः ।
न च शूद्रश्रुतेः स्वारस्याय लिङ्गस्यास्वारस्यमिति युक्तम् । हारेत्वातवैवेतीत्वशब्दार्थरथसम्बन्धवाचिन्यास्तवेति षष्ठ्याः क्षत्रियत्वे लिङ्गत्वेऽपि रथसम्बन्धे श्रुतित्वात् । वाक्यशेषस्थं क्लृप्तं शुचा द्रवणरूपं योगं विहाय ‘‘जानश्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आस सह सर्वत आवसथान्मापयांचक्रे सर्वत एव मेत्स्यन्ती’’त्यादिपूर्ववाक्यस्थेन सर्वत आवसथ निर्माणादिना तथा ‘‘अयं ग्रामो यस्मिन्नास्स’’ इत्याद्युत्तरवाक्यस्थेन ग्रामेशत्वादिना तथा ‘‘राजा पौत्रायणः शोकाच्छूद्रेति मुनिनोदित’’ इत्यादिस्मृत्या च क्षत्रियत्वावगतेस्तद्विरुद्धरूढिग्रहणायोगाच्च । अत एव सूत्रे ‘‘क्षत्रियत्वावगते’’रित्येवोक्तम् । भाष्ये त्वागन्तुकस्यापि रथस्य वेदं विनाऽयोगाद्वेदस्य च ‘‘संस्कारपरामर्शा’’दित्याद्युत्तरसूत्ररीत्या शूद्रेऽयोगाद्रथेन वेदानुमानद्वारेणाशूद्रत्वसिद्धिरुक्ता ।
यद्वा निषादस्य वेदाभावेऽपि तात्कालिकोपदेशात् ‘‘एतया निषादस्थपतिं याजये’’दिति वाक्यविहितस्थपतीष्टिमात्र इव पौत्रायणस्यापि शूद्रत्वेन वेदाभावेऽपि संवर्गविद्यामात्राधिकारोऽस्त्विति शङ्कानिरासायागन्तुकस्यापि रथस्य वेदव्याप्यतोक्ता भाष्ये । विप्रक्षत्रार्थमपलायनमपि शूद्रस्य पदातितयैवेति टीकायामेवोक्तम् । न च पौत्रायणेन रैक्वाय दीयमानो रथोऽन्यदीय इति युक्तम् । स्वत्वाभावे दानायोगात् । स्वतः प्राप्ततदीयत्वे बाधकाभावाच्च । तवैव सह गोभिरिति वाक्यशेषविरोधाच्च । तस्माद्बाधकाच्छूद्रशब्दे रूढित्यागः । रथकारादिशब्देषु तु न रूढिबाधकमस्तीति वैषम्यम् ।
प्रकाशिका
द्वितीयसूत्रभाष्याद्युक्तबाधकाच्छ्रौतशूद्रशब्दस्य रूढित्यागेनाद्यसूत्रभाष्याद्युक्तदिशा यौगिकत्वावश्यंभावात् कल्पकाभावेन, संस्कारादिसूत्राद्युक्तोपनयनाद्यभावश्रुतिलिङ्गदर्शनादिनाऽधिकारप्रयोजकाध्ययनादेरयोगान्नाधिकार इति भावेन द्वितीयसूत्रभाष्याद्युक्तं प्रमेयं तावत्सङ्गृह्याह ।। शूद्रशब्दस्येति ।। आदिपदेन वक्ष्यमाणग्रामेशत्वादिग्रहः । अतिप्रसङ्गं निराह ।। रथकारेति ।। पूर्वार्धं व्यनक्ति ।। अस्ति हीति ।। ‘‘रैक्वेदं सहस्रं गवामयं निष्कोऽयमश्वतरीरथ इयं जायाऽयं ग्रामो यस्मिन्नास्स’’ इति वाक्यशेषस्थमित्यर्थः । वाक्यशेषेत्युक्तया रथवत्त्वस्य पक्षधर्मतोक्ता । रूढेः शूद्रशब्दे । टीकायां भाष्यदिशा शूद्रे वेदाभावेन तदविनाभूतरथाभावमुपपाद्य ‘‘क्षत्रियस्य स्वाभाविकत्वादन्येषामागन्तुकत्वात् स्वाभाविकस्यागन्तुकादाधिक्य’’दिति रथस्य क्षत्रिये स्वाभाविकत्वमुपपादितम् । तत्र भाष्योक्तं समाधिं संस्कारसूत्रावतरणपरटीकोक्तरीत्याऽऽक्षिप्य टीकोक्तमुपपादयति ।। यद्यपीत्यादिना ।। स्मृत्येति ।। ‘‘यत्र वेदो रथस्तत्रे’’ति स्मृत्येत्यर्थः ।। वेदाङ्गीकारादिति ।। तथैव प्रागुक्तेरिति भावः । तथापीत्यभ्युपगमवादः । भाष्योक्तसमाधेरपि भाष्ये त्वित्यादिनोपपादयिष्यमाणत्वात् ।। स्वाभाविकत्वादिति ।। अयं च सूत्रे चैत्ररथेनेति सम्बन्धवाच्यण्प्रत्ययप्रयोगसूचितस्समाधिः । ननु दुर्बलेन लिङ्गेन कथं श्रुतिबाधः । वैपरीत्यस्यैवौचित्यादित्याशङ्क्य निराह ।। न चेति ।। अस्वारस्यं आगन्तुकपरत्वम् ।। सम्बन्धेति ।। ‘‘षष्ठी शेष’’ इति स्वस्वामिभावादौ षष्ठ्या विधानात्सम्बन्धस्यागन्तुकत्वे श्रुतिबाधादित्यर्थः ।
ननूभयोश्श्रुतित्वाविशेषे निर्णयो न स्यात् । प्रत्युत शूद्रेति प्रातिपदिकश्रुत्या प्रबलया प्रत्ययश्रुतेरेवास्वारस्यं युक्तमित्यत आह ।। वाक्येति ।। ‘‘कम्वर एनमेतत्सन्तं स युग्वानं रैक्वमिवात्थे’’ति हंसकृतानादरश्रवणेन तस्य शोकोत्पत्तेः ‘‘सहसञ्जिहान एव क्षत्तारमुवाचे’’ति शयनादुत्थानानन्तरमेव रैक्वान्वेषणवचनलिङ्गेनावगमात्तेन च मुनिं प्रत्याद्रवणाच्छुचा द्रवणरूपो योगः क्लृप्त इत्यर्थः । विहायेत्यस्य तद्विरुद्धरूढिग्रहणायोगाच्चेत्यन्वयः । एतच्चाद्यसूत्रभाष्यादितात्पर्यकथनम् । ननु मुनिना सर्वज्ञेन तदीयं शुचा द्रवणं विज्ञाय तदभिप्रायेणैव शूद्रेति सम्बोधितः पौत्रायण इत्यत्र न किञ्चित्कल्पकम् । येन तथा जानीम इत्यत आह ।। जानश्रुतिरिति ।। आवसथान् आवासस्थानानि । सर्वत आगत्य मेऽन्नमत्स्यन्तीति बुद्ध्या कारयामासेत्यर्थः । यस्मिन्नास्से वर्तसे । आस उपवेशन इत्यस्य मध्यमपुरुषैकवचनम् । अयं ग्रामः तुभ्यं दीयत इत्यर्थः । ‘‘मुनिनोदितः । प्राणविद्यामवाप्यास्मात्परं धर्ममवाप्तवा’’निति छान्दोग्यभाष्योदाहृतस्मृत्येत्यर्थः । स्वाभाविकेन रथेनैव साक्षात्क्षत्रियत्वावगमो न वेदद्वारेत्युक्तम् । तत्र सौत्रं ज्ञापकमाह ।। अत एवेति ।। इत्येवोक्तं न तु लिङ्गाद्बेदानुमानद्वारा क्षत्रियत्वावगतेरित्युक्तमित्यर्थः । यद्वा न त्वशूद्रत्वावगतेरित्युक्तमित्येवकारार्थः । पारंपर्याश्रयणे हि तथा निर्देशस्स्यादिति भावः । एवं सति भाष्ये पारंपर्याश्रयणं किमर्थमाश्रितम् । कथमुपपद्येत च । शूद्रेऽपि वेदाभ्युपगमात् । त्रैवर्णिकमात्रचिह्नेन रथेन त्रैवर्णिकविशेषक्षत्रियत्वावगमायोगाच्चेत्यतोऽभिप्रायं द्वेधा व्यनक्ति ।। भाष्ये त्विति ।। उत्तरसूत्रेति ।। व्यक्तमेतदनुपदमेवेति भावः ।। अशूद्रत्वेति ।। एतेनास्मिन्पक्षे भाष्यादौ क्षत्रियत्वपदमशूद्रत्वपरमिति सूचितम् । अत एव टीकायां ‘‘नन्वेवं वैदिकमात्रे विद्यमानं रथित्वं कथं क्षत्रियत्वे लिङ्ग’’मित्याक्षिप्य रथस्य क्षत्रिये स्वाभाविकत्वेनैव समाधानमुक्तमिति भावः । नन्वेवं सूत्रादावशूद्रत्वावगतेरित्येव वाच्यम् । लाघवादिति चेन्न । वस्तुतस्तस्य क्षत्रियत्वेन तदभिप्रायात् । स्वाभाविकरथस्वीकारपक्षे तथैव वक्तव्यत्वाच्चेति ध्येयम् ।। इति शङ्कानिरासायेति ।। विद्यामात्रेऽधिकाराभावेऽपि तद्विशेषसंवर्गविद्यायामधिकारोऽस्त्वित्याशङ्कायां शूद्रे वेदाभावेन तद्व्याप्यरथोऽपि नेति नायं संवर्गविद्यायामधिकारीति वक्तुं वेदव्याप्यतोक्ता भाष्य इत्यर्थः । ननु शूद्रे स्वाभाविकस्यान्तुकस्य वा रथस्यायोगेन नायं शूद्रशब्दो रूढ इति यदुक्तं तदयुक्तम् । ‘‘अपलायनं हि शूद्रस्य विप्रक्षत्रार्थमिष्यत’’ इत्यष्टादशाध्याय गीतातात्पर्योक्तस्मृत्या शूद्रस्यापि युद्धप्रतीत्या रथवत्त्वसिद्धेरित्यत आह ।। विप्रेति ।। ‘‘न च वाच्यं पौत्रायणेन दीयमाने’’त्यादिटीकां विवृण्वन् लिङ्गस्यान्यथासिद्धिमाशंक्य निरवकाशतामाह ।। न चेति ।। एवं पूर्वार्धविवरणमुखेन टीकाभाष्यार्थं प्रपञ्च्य ‘‘रथकारे’’त्युत्तरार्धं व्यनक्ति ।। रथकारेति ।।
चन्द्रिकाबिन्दुः
रथेन लिङ्गेनेति ।। शूद्रस्यापि वेदेऽधिकारं वदन्तं प्रति रथेन वेदमनुमाय वेदवत्त्वादयमशूद्र इति वक्तुमुचितं न भवतीति भावः । स्वयं सूत्रस्यार्थान्तरमभिप्रेत्य स्वाभाविकरथवत्त्वलिङ्गेन क्षत्रियत्वमेव साधितमिति सूत्रार्थमाह ।। तथापीति ।। लिङ्गस्यास्वारस्यमिति ।। रथवत्त्वमेवोच्यते न तु स्वाभाविकरथवत्त्वं, येन क्षत्रियत्वावगतिः स्यादिति भावः । रथसम्बन्धो हि लिङ्गं क्षत्रियत्वे, स च श्रौत एव, शूद्रश्रुतिवत् रथसम्बन्धे षष्ठ्या अपि श्रुतित्वादिति भावः । बहुपाक्यः बहुस्थलेषु पाककारयिता । अत एव रथसम्बन्धस्य साक्षात् क्षत्रियत्व एव लिङ्गत्वात् । तर्हि भाष्ये रथेन वेदानुमानपर्यन्तधावनं किमर्थमित्यत आह ।। भाष्ये त्विति ।। शूद्रे आगन्तुकरथनिरासस्यापि किं प्रयोजनमित्यतः प्रयोजनं दर्शयन् पक्षान्तरमाह ।। यद्वेति ।। वेदव्याप्यतोक्तेति ।। वेदश्चोपनयनादिसंस्कारसापेक्षः । स च शूद्रे निषिद्धः । अतो न वेदः,अतो न रथः तस्मान्न शूद्रः । ननु आगन्तुकरथस्यापि कथं निषेधः । विप्रक्षत्रार्थमित्युक्तेरित्यत आह ।। विप्रेति ।।
पाण्डुरङ्गि
हारेत्वातवैवेति ।। तथा च लिङ्गस्य निरवकाशत्वान्न श्रुतिस्वारस्यार्थं लिङ्गास्वारस्यमित्यर्थः ।। अत एवेति ।। साक्षाद्रथेनैव क्षत्रियत्वसिद्धेः संमतत्वादेवेत्यर्थः । तर्हि भाष्ये मध्ये वेदोक्तिरयुक्तेत्यत आह ।। भाष्ये त्विति ।। अनेन संस्कारपरामर्शादित्युत्तरसूत्रसहितस्यैव क्षत्रियत्वावगतेश्चेत्यस्य सूत्रस्य पौत्रायणस्य क्षत्रियत्वसाधकत्वं न केवलस्येति प्राप्तम् । अतः पक्षान्तरमाह ।। यद्वेति ।। दानायोगादिति ।। स्वस्वत्वपरित्यागेन परस्वत्वापादनस्यैव दानशब्दार्थत्वादिति भावः ।