भामत्यां तु निश्चिते जिज्ञासायोगात्सन्दिग्धत्वेन ब्रह्मैव विषयः

विषयफलयोः भामत्युक्तजिज्ञासापदलभ्यत्वपरीक्षा

तात्पर्यचन्द्रिका

भामत्यां तु निश्चिते जिज्ञासायोगात्सन्दिग्धत्वेन ब्रह्मैव विषयः । ज्ञानमेवेच्छा-विषयत्वेन प्रयोजनमिति जिज्ञासापदेनैव विषयप्रयोजने सूचिते इत्युक्तम् । तन्न । न हि पूर्वपक्षिणा ब्रह्मज्ञाने इच्छामङ्गीकृत्य तद्विचार आक्षिप्तः । किं तु विषयाद्य-भावेनेच्छैव नोदेतुं युक्तेत्याक्षिप्तम् । न च तं प्रतीच्छाया विषयादिसाधनं युक्तम् । विवरणे तु अथशब्देनाधिकारी जिज्ञासापदेनेच्छाविषयत्वेन ब्रह्मज्ञानं प्रयोजनं अर्थादधिकारिविशेषणं मोक्षो ब्रह्मज्ञानफलं विषयश्च सूचित इत्युक्तम् । तदपि न । त्वन्मते जिज्ञासापदस्य विचारलक्षकत्वेनेच्छापरत्वस्याभावात् । न हि विषं बुभुक्षते, कूलं पिपतिषतीत्यनेन विषभक्षणादेरिष्टत्वसिद्धिः । प्रतीतस्यापि मुख्यार्थस्य त्यक्तत्वात् । पूर्वपक्षिणेच्छानङ्गीकाराच्च । त्वन्मते ज्ञानेच्छाऽसम्भवस्योक्तत्वाच्च । मुमुक्षाया अधिकारिविशेषणत्वनिरासाच्च । विषयसूचनं त्वसन्दिग्धादन्यसूचनं विना न शक्यम् । अन्यथा शास्त्रारम्भसामर्थ्यादेव वा कर्तव्यतोक्तिसामर्थ्यादेव वा तत्प्रयोजकविषयादिसूचनसम्भवाज्जिज्ञासापदादिना तत्सूचनोक्त्ययुक्तिरिति ।

प्रकाशिका

स्वयं ब्रह्मातःपदाभ्यां विषयफलसिद्धिमुक्त्वा जिज्ञासापदेन तल्लाभं निराह ।। भामत्यां त्विति ।। निश्चिते ज्ञानेच्छारूपजिज्ञासायोगाज्जिज्ञासापदोपादानेन जिज्ञास्यं ब्रह्म सन्दिग्धमिति सूचनात्तद्विषयः काम्यमानस्य च फलत्वेन जिज्ञासेत्यत्र प्रत्ययार्थभूतेच्छाविषयभूतं प्रकृत्यर्थरूपं ज्ञानं प्रधानप्रयोजनमित्यर्थः ।। न हीति ।। न च सर्वजनीनाहमनुभवसिद्ध आत्मा सन्दिग्धो वा सप्रयोजनो वा येन जिज्ञास्यः सन् विचारं प्रयुञ्जीतेति त्वदीयपूर्वपक्षोपसंहारे जिज्ञासाक्षेपपूर्वं विचारस्याक्षिप्तत्वादिति भावः ।। न चेति ।। ज्ञानेच्छायां सिद्धायां विषयप्रयोजनसिद्धिः । तत्सिद्धौ च तत्सिद्धिरित्य-न्योन्याश्रयादिति भावः ।। प्रयोजनमिति ।। अवान्तरप्रयोजनम् । न तु भामतीमत इव मुख्यमित्यर्थः ।। सूचित इति ।। जिज्ञासापदेनेत्यन्वयः । मोक्षफलं त्वथशब्देन ।। न हीति ।। ‘‘विषं बुभुक्षते’’ इत्येतच्छत्रुगृहभोजननिषेधस्य लक्षकमिति न विषभोजनेच्छा-परम् । ‘कूलं पिपतिषति’ इत्येतत्कूलपतनमाशङ्क्यत इत्येतत्परम् । न तु पतनेच्छापरम् । ‘‘आशङ्कायां सन्वक्तव्यः’’ इति कात्यायनस्मरणात् । तथा च तत्रोभयत्रान्यार्थपरत्वा-द्विषभक्षणादेरिष्टत्वं नास्ति । तद्वज्ज्ञानमपि नेष्टमिति न प्रयोजनस्य तेन लाभ इति भावः ।। पूर्वपक्षिणेति ।। तथा चान्योन्याश्रय इति भावः ।

उक्तत्वाच्चेति ।। तदीयाथशब्दार्थखण्डनप्रस्तावे । ‘‘न तावद्विचारविधौ मुमुक्षु-रधिकारी’’ इत्यादिनेति भावः ।। निरासाच्चेति ।। ‘‘मुमुक्षा च न परपक्षे युक्ता’’ इत्यादिनेति भावः । यदपि जिज्ञासापदेन विषयसूचनमिति तदपि नेत्याह ।। विषयेति ।। यदसन्दिग्धं जीवादि ततोऽन्यस्येश्वरादेः सूचनं विना न शक्यम् । तच्च ब्रह्मपदेनैवेति भावः । अयं दोषो भामतीमतेऽपि ध्येयः । ननु जिज्ञासापदोपादानसामर्थ्यादेव तत्प्रयोजकसंशयादिलाभाद्विषयादिसिद्धिर्भवति । अन्यथा तद्वैयर्थ्यमित्यत आह ।। अन्यथेति ।। जिज्ञासापदसामर्थ्यादेव तत्सूचनं इत्यर्थः । शास्त्रारम्भप्रयोजकविषयादि-सूचकमाद्यसूत्रं हित्वैव जन्मादिसूत्रमारभ्य शास्त्र आरब्धे सति यद्यत्र विषयादिकं न स्यात्तदापेक्षावान् सूत्रकारो नारभेत । आरभते चातोऽत्रास्ति विषयादीत्यारम्भसामर्थ्यादेव वा, तथा जिज्ञासाया विषयाद्यभावे कर्तव्यतोक्त्ययोगात्तत्सामर्थ्यादेव वेत्यर्थः । उपलक्षण-मेतत् । ‘‘ईक्षतेर्नाशब्दं, आनन्दमयोभ्यासात्’’ इत्यादौ साध्यनिर्देशसामर्थ्यादेव तत्प्रयोजकलाभादीक्षतेरभ्यासादिति हेतूपन्यासो व्यर्थ इत्यपि ध्येयम् । भामतीमते आक्षिप्तविचारकर्तव्यतासामर्थ्याभिप्रायेण वाक्यं योज्यम् । इतिशब्दोऽतश्शब्द-व्याख्यासमाप्तौ ।

चन्द्रिकाबिन्दु

ननु सनो विद्यमानत्वादिच्छार्थः स्यादित्यत आह । न हि कूलमिति ।। लाक्षणिकार्थस्यैव त्वयाऽङ्गीकृतत्वेन सन्मात्रस्य चाप्रयोजकत्वमिति भावः ।। ममुक्षाया इति ।। ममुक्षा च न परपक्षे इत्यादिना पूर्वं निराकृतत्वादित्यर्थः । असन्दिग्धादन्यसूचनमिति असन्दिग्धजीवादन्यविषय इति सूचनम् । विषयसमर्पक-ब्रह्मपदेन नान्यथेति भावः । यथाकथञ्चित् यत्किञ्चिदिति सामान्याकारेण विषयसूचनं तु प्रकारमन्तरेणापि स्यादित्यत आह । अन्यथेति ।। असन्दिग्धान्यविषयसूचकपदाभावेऽपि आक्षेपमात्रेण विषयादिसूचनेऽङ्गीक्रियमाण इत्यर्थः ।

पाण्डुरङ्गि

ननु पदद्वयेन विषयप्रयोजनसूचनमयुक्तम् । एकेन जिज्ञासापदेनैवोभय-सूचनसम्भवेन पदद्वयेन तत्सूचनस्य गौरवकरत्वादिति भामत्यामुक्तत्वादित्यतस्तन्मतं दूषयितुमनुवदति ।। भामत्यां त्विति ।। पूर्वपक्षिणा इच्छाया एवानङ्गीकृतत्वात्तद्विषयत्वेन विषयादिसाधनमयुक्तमित्याह ।। न हीति ।। विवरणमतं दूषयितुमनुवदति ।। विवरणे त्विति ।। ब्रह्मज्ञानफलं मोक्ष इत्यर्थः । ननु सन्प्रत्ययस्येच्छापरत्वात् जिज्ञासा-पदस्येच्छापरत्वमित्यत आह ।। न हीति ।। ननु जिज्ञासापदस्य ज्ञानेच्छारूपो मुख्यार्थः प्रथमप्रतीतः । तथा च तद्विषयत्वेन विषयादिलाभ इत्यत आह ।। प्रतीतस्यापीति ।। पूर्वपक्षिणेति ।। तथा चेच्छाविषयत्वेन विषयादिसाधनमयुक्तमिति भावः ।। त्वन्मत इति ।। ‘‘न तावद्विचारविधौ कामः’’ इत्यनेनेति शेषः । जिज्ञासापदेन विषयसूचन-मयुक्तमित्याह ।। विषयेति ।। असन्दिग्धात्पदार्थादन्योऽर्थः तत्सूचनं विनेत्यर्थः ।