अधिकरणसङ्गतिमाह

अबधिकरणम्

तात्पर्यचन्द्रिका

पराभिमतपूर्वपक्षसिद्धान्तनिरास:

ॐ आपः ॐ ।।

अधिकरणसङ्गतिमाह ।। तेजसोऽनन्तरप्राप्ता इति ।। अत्रोक्तं ब्रह्मण एव सर्वस्रष्टृत्वं तेजोदेवतातोऽब्जन्मश्रुतिविरुद्धं न वेति चिन्ता । तदर्थं किं ‘‘अग्नेराप’’ इति श्रुतिः प्रबलोत ‘‘ब्रह्मैवेदमग्र आसीत् तदपोऽसृजते’’ति । तदर्थं ‘‘अग्नेराप’’ इति श्रुत्यनुग्राहिका घर्मात्स्वेदादिदृष्टिरूपा युक्तिः किं तेजसो द्वारत्वमात्रेण न युक्तोत युक्तेति ।

अन्ये तु ‘‘तेजः आपः’’ इत्यधिकरणद्वये तेजोजलयोर्ब्रह्मकार्यत्वमिति प्राप्ते वायुतेजःकार्यत्वमिति सिद्धान्तः । न चैवमपसिद्धान्तः । तेजोजलयोर्वायुतेजोभावापन्नब्रह्मकार्यत्वमुपेत्य शुद्धब्रह्मकार्यत्वनिषेधादित्याहुः । तन्न । तथात्वे शुद्धवाय्वादिकार्यत्वेन जन्मादिसूत्रं वियदधिकरणोक्तां प्रतिज्ञाहानिं चाक्षिप्य पूर्वपक्षस्य, तेजो वायुभावापन्नब्रह्मकार्यत्वमिति तत्समाधानेन सिद्धान्तस्य च सम्भवे तदनाक्षेपादिना पूर्वपक्षाद्ययोगात् । किं चैवं हि ‘‘तेजोत’’ इति सौत्रोऽतश्शब्दः स्वस्थाने आप इत्यनुवृत्तिस्थले चाव्यवहितप्रकृतसदाख्य ब्रह्मरूपैकार्थपरो भवति । अन्यथा हि स्वस्थाने व्यवहितप्रकृत मातरिश्वपरोऽनुवृत्तिस्थले तेजःपरः स्यात् । किं च तेजआदेर्वाय्वादि भावापन्नविशिष्टभिन्नब्रह्मकार्यत्वे एकविज्ञानेन सर्वविज्ञानं स्यात् । विवर्तमते शुक्तितत्वज्ञानेन रूप्यस्येव वाय्वादितत्वज्ञानेन तेज आदेर्निवृत्तिश्च स्यात् । केचित्तु ‘‘तेज’’ इत्यादिसूत्रैस्तेज आदीनां केवलवाय्वादिजत्वमिति पूर्वपक्षयित्वा ‘‘तदभिध्याना’’दित्यादिभिस्सूत्रैः ‘‘बहुस्या’’मित्यभिध्यानादिना वाय्वादिशरीरकब्रह्मजत्वमिति सिद्धान्तितमित्याहुः । तन्न । अतश्शब्दस्याव्यवहितप्रकृतैकब्रह्मपरत्वेन तेज इत्यादिसूत्राणां सिद्धान्तत्वेनानेकाधिकरणत्वसम्भवे तत्त्यागेन पूर्वपक्षत्वाद्ययोगात् । ‘‘तदभिध्याना’’दिति सूत्रे तुशब्ददर्शनात्ततः पूर्वेषां पूर्वपक्षत्वे च ‘‘असम्भवस्त्वि’’त्यत्र तद्दर्शनात्ततः पूर्वेषां ‘‘एतेने’’त्यादीनां तत्त्वं स्यात् ।। छ ।।

प्रकाशिका

टीकायामवसरसङ्गतिर्व्यक्तेति भावेनाह ।। अधिकरणेति ।। तदपोऽसृजतेतीति ।। श्रुतिःप्रबलेत्यनुकर्षः । इयं च ‘‘युक्तियुक्तत्वेन तेजोजातत्वश्रुतेः प्राबल्या’’दिति टीकासूचिता । ‘‘भवतु वायोरग्न्युत्पत्तौ द्वारत्वप्रतिपादकता तच्छतेः । अत्र पुनरग्नेः कारणत्वमेवे’’त्यादिटीकासूचितामाह ।। किं तेजस इति ।। उत युक्तेति ।। ‘‘महाशक्तिरपि हरिर्लीलये’’त्यादिटीकोक्तदिशेति भावः ।। अन्ये त्विति ।। आकाशाद्वायुरिति श्रुतेराकाशानन्तरं वायुरुत्पन्नः । वायोरनन्तरमग्निरुत्पन्न इति निर्वाहसम्भवात् ‘‘तज्जलान् एतस्माज्जायते प्राणः स इदं सर्वममृजते’’त्यादिश्रुतिभिरविशेषेण सर्वस्य ब्रह्मजत्वावगमात् ‘‘तत्तेजोसृजते’’ति श्रुत्यनुरोधेन तेजसो ब्रह्मजत्वमिति प्राप्ते ‘‘आत्मन आकाशस्सम्भूतः पृथिव्या ओषधयः’’ इति पूर्वापरपञ्चम्योरुपादानविषयत्वदर्शनादुपपदविभक्तितोऽपि कारकविभक्तेर्बलीयस्त्वाच्च वायुजत्वं तेजसः । ब्रह्मजत्वं तु वायुभावापन्नब्रह्मणो जातत्वेनेति सिद्धान्त इत्याहुरित्यर्थः । ‘‘अतिदेशोऽयम् । अत आपः किं सतोऽजायंत उत तेजस इति संशयादि पूर्ववत् । अपामग्निदाह्यत्वादग्नेरपामुत्पत्त्ययोगादिति शङ्काऽत्र निवर्त्यत’’ इति कल्पतरूक्तेस्सहैव पूर्वोत्तरपक्षावनुवदति ।। तेजः आपः इत्यधिकरणद्वय इति ।। तात्पर्यार्थमाह ।। शुद्धेति ।। वाय्वादिभावानापन्नेत्यर्थः । सूत्राक्षरास्वारस्यं चाह ।। किञ्चैवमिति ।। वाय्वादिभावापन्नाज्जनिर्नाम किं वाय्वादिविशिष्टाज्जातत्वं किं वा वाय्वादिविवर्तत्वमिति कल्पौ हृदि निधाय सिद्धान्तप्रमेयं निराह ।। किं च तेज आदेरिति ।। विशिष्टेति ।। अत एव भिन्नेत्यर्थः ।। सूत्रैरिति ।। तेजोतस्तथा ह्याह, आपः पृथिव्यधिकाररूपशब्दान्तरेभ्यः इति चतुर्भिः सूत्रैरित्यर्थः । तन्मते पृथिवीत्यस्य पार्थक्यात् । इत्यादिभिरिति । चराचरेत्यन्तैरित्यर्थः ।। पूर्वपक्षत्वादीति ।। अतश्शब्दस्य व्यवहितपरत्वं स्वस्थाने वायुपरत्वमनुवृत्तिस्थले च तेजःप्रभृतिपरत्वमित्यादिपदार्थः । त्वयापि आपोतस्तथा ह्याह पृथिव्यतस्तथा ह्याह इत्युत्तरत्राप्यनुवृत्त्याऽत इत्यस्य तेजसः अद्भ्यः इत्यर्थवर्णनादिति भावः । ‘‘तुशब्दात्पक्षो व्यावृत्त’’ इति श्रीभाष्योक्तिसूचितमाशङ्क्य निराह ।। तुशब्देति ।। छ ।। अबधिकरणम् ।। ५ ।।

चन्द्रिकाविवृतिः

।। ॐ आपः ॐ ।। अधिकरणसङ्गतिमाहेति ।। यद्यपि पूर्वाधिकरणेऽपि वायोरनन्तरप्राप्तं तेजोऽत्र विषय इति टीका प्रवर्तत इति कृत्वा तत्राप्येवमेवावतारिका कर्तव्या । तथाप्येतेन मातरिश्वा व्याख्यात इत्यनन्तरं असम्भवस्तु सतोऽनुपपत्तेरिति मध्येऽधिकरणान्तरसद्भावे नानन्तराधिकरणसङ्गत्यलाभात्तथा-वतारिका न कृता । टीका तु वायोरनन्तरेत्यादिरूपा फाकथनपरेत्यभिप्रायः ।। एवमुत्तरत्र । चिन्तामुखेनैव पूर्वपक्षसिद्धान्तनिष्कर्षं दर्शयति ।। अत्रोक्तं ब्रह्मण इत्यादिना ।। तदपोऽसृजतेत्यत्र तच्छब्देन ब्रह्मैव ग्राह्यमिति दर्शयितुं ब्रह्मैवेदमग्र आसीदिति पूर्वांशोदाहरणम् । ब्रह्मकार्यत्वमिति ।। शुद्धब्रह्मकार्यत्वमित्यर्थः ।। एवं तेजोजायोः वायुतेजःकार्यत्वमङ्गीकृत्य ब्रह्मकार्यत्वनिषेधः ।। तथात्त्व इति ।। तेजोजायोः वायुतेजःकार्यत्त्वाङ्गीकारे पूर्वपक्षोऽपि एवं कर्तव्यः । तेजः केवावायुकार्यं, जां तु केवातेजःकार्यं न ब्रह्मकार्यमिति । एवं सति जन्मादिसूत्रप्रतिज्ञाहानिसूत्राभ्यां उक्तं यत्सर्वस्रष्ट्रत्त्वं ब्रह्मणस्तदाक्षेपो भ्यत इति भावः ।। अन्यथा पूर्वोपन्यस्तरीत्यार्थमनङ्गीकृत्य परोक्तसूत्रार्थस्वीकारे । वाय्वादिभावापन्नब्रह्मकार्यत्त्वं वदता परिणामवाद आश्रीयेत विवर्तवादो वा ।। पक्षद्वयमपि क्रमेण दूषयति । किं च तेज आदेरित्यादिना ।। ननु तदभिध्यानादेव तु तल्लिङ्गात्स इति सूत्रे तुशब्दवशात्तत्पूर्व-सूत्राणां पूर्वपक्षसूत्रत्वमाश्रितमित्यत आह ।। तदभिध्यानादितीति ।। तत्त्वं पूर्वपक्षसूत्रत्त्वम् ।।